Table of Contents

<<6-4-22 —- 6-4-24>>

6-4-23 श्नान् नलोपः

प्रथमावृत्तिः

TBD.

काशिका

श्नातिति श्नमयमुत्सृष्टमकारो गृह्यते। तत उत्तरस्य नकारस्य लोपो भवति। अनक्ति। भनक्ति। हिनस्ति। शकारवतो ग्रहणम् किम्? यज्ञानाम्। यत्नानाम्। सुपि च 7-3-102 इति परत्वात् कृते ऽपि दीर्घत्वे स्थानिवद्भवात् नलोपः स्यादेव। विश्नानाम्, प्रश्नानाम् इत्यत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इत्येवं न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

671 श्नमः परस्य नस्य लोपः स्यात्. हिनस्ति. जिहिंस. हिंसिता..

बालमनोरमा

374 श्नान्नलोपः। श्नसोरल्लोप इति। तताच इन्?ध् ते इति स्थिते `झषस्तथो'रिति तकारस्य धत्वे पूर्वधस्य जश्त्वे परिनिष्टितमाह - इन्द्धे इति। यद्यपि `अनिदिता'मित्येवात्र नलोपः सिध्यति, तथापि अनक्तीत्याद्यर्थं सूत्रमिहापि न्याय्त्वादुपन्यस्तमिति बोध्यम्। इन्धते। इन्द्ध्वे। इन्द्धाम्। इन्तस्व।इन्द्ध्वम्। इनधै इति। श्नमि उत्तमस्य इट एत्वे आटि वृद्धौ इन न् ध् ऐ इति स्थिते श्नान्नलोपे आटः पित्त्वेन ङित्त्वाऽबावात् `श्नसोरल्लोपः' इत्यभावे रुपमिति भावः। अत्र नलोपार्थमपि श्नान् लोप इत्यावश्यकम्, आटः पित्त्वेन ङित्त्वाऽभावात् `अनिदिता'मित्यस्याऽप्रवृत्तेः। इनधावहै। लह्राह - ऐन्द्धेति। ऐन्द्धा इति। `झषस्तथो'रिति थस्य धः। इन्धीत। लुहि - ऐन्धिष्ट। शिष्लृ।अनिट्। शिशेषिथेति। अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमान्नित्यमिट्। शिनष् हीति स्थिते अल्लोपे शिन्ष् हि इति स्थिते आह – हेर्धिरित। शिन् ष् धीति स्थिते आह - - जश्त्वमिति। `झलां जश् झशी'ति षस्यड इति भावः। ष्टुत्वमिति प्रक्रियाप्रदर्शनमात्रपरं, क्रमस्तु न विवक्षितः। झर इति। जश्त्वसंपन्नस्य डस्य लोपविकल्प इत्यर्थः। अनुस्वारपरसवर्णाविति। नकारस्य `नश्चे'त्यनुस्वारे सति तस्य परसवर्णो णकार इत्यर्थः। `न पदान्ते'ति निषेधान्नाऽल्लोपः स्थानिवत्। ढस्य लोपपक्षे उदाहरति– शिण्ढीति। ढस्य लोपाऽभावे उदाहरति - शिण्ड्ढीति। वस्तुतस्तु सानुस्वार एव पाठ उचितः, `दीर्घादाचार्याणा'मित्युत्तरम् `अनुस्वारस्य ययि परसवर्णः' `वा पदान्तस्य' `तोर्लि' `उदः स्थास्तम्भोः पूर्वस्य' `झयो होऽन्यतरस्यां' `शश्छोऽरटी'ति षट्सूत्रपाठोत्तरं `झलां जश् झशि' `अभ्यासे चर्च' `खरि च' `वाऽवसाने' `अणोऽप्रगृह्रस्यानुनासिकः' इति पञ्चसूत्रीपाठ इति भाष्यसंमताऽष्टाध्यायीपाठे परसवर्णदृष्ट\उfffदा `झलां जश् झशी'त्यस्य `झरो झरी'त्यस्य चाऽसिद्धत्वेन यय्परत्वाऽभावे परसवर्णाऽप्राप्तेरिति शब्देन्दुशेखरे स्थितम्।शिंष्टात्। शिंष्टम् शिंष्ट। शिनषाणीति। आटः पित्त्वेन ङित्तवाऽभावात् `श्नसो'रित्यल्लोप नेति भावः। अशिनडिति। लङस्तिपो हल्ङ्यादिलोपे षस्य जश्त्वमिति बावः। अशिंष्टाम्। अशिंषन्। अशिनट्। अशिष्टम्। अशिंष्ट। अशिनषम् अशिंष्व अशिंष्म। भञ्जो। भनक्तीति। श्नमि भ न न् ज् तीति स्थिते `श्नान्न लोपः' इति नलोप इति भावः। भङ्क्तः भञ्जन्तीत्याद्यूह्रम्। भारद्वाजनियमात्थलि वेडिति मत्वाह – वबञ्जिथ बङङ्क्थेति। भङ्क्तेति। अनिडिति भावः। भुज पालनेति। `भुजोऽनवने' इति तङ् वक्ष्यते। भुङ्क्ते भुञ्जाते इत्यादि.तृह हिसि।आद्य ऋदुपधः। सेट्। श्नमि कृते तृणह् ति इति स्थिते –

तत्त्वबोधिनी

328 श्नान्नलोपः। अस्य मुख्योदाहरणम्–अनक्ति। भनक्ति। श्नादित्युत्सृष्टमकारानुबन्धस्य श्नमो ग्रहणमित्याह– श्नमः परस्येति। एवं च `यजयाचे'ति विश्नशब्द्सयाऽऽमि नुटि विश्नानामित्यत्र लक्षणप्रतिपदोक्त- - प्रत्ययग्रहमपरिभाषयोः प्रवृत्त्या नलोपशङ्कैव नास्तीत्याहुः। इन्धे इन्त्से। श्नमो नकारस्यानुस्वारपरसवर्णौ। `अनिदिता'मिति नलोपस्तु न भवति, अल्लोपस्य `असिद्धवदत्रे'त्यसिद्धित्वात्सथानिवत्त्वाद्वा। भञ्जो। आदित्करणं निष्ठानत्वार्थम्। भग्नः। भुज पालनादौ। `भुजोऽनवने' इत्यात्मनेपदं वक्ष्यते। भुङ्क्ते। भुञ्जाते। भुञ्जते।

Satishji's सूत्र-सूचिः

432) श्नान्नलोपः 6-4-23

वृत्तिः श्‍नमः परस्‍य नस्‍य लोपः स्‍यात् । A नकारः is elided when it follows the श्नम्-प्रत्ययः।

उदाहरणम् – हिनस्ति (√हिन्स्, रुधादि-गणः, हिसिँ हिंसायाम्, धातु-पाठः # ७. १९) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम् ।

The इकारः at the end of “हिसिँ” gets इत्-सञ्ज्ञा by 1-3-2. Therefore this धातुः is an इदित् and by 7-1-58 इदितो नुम् धातोः, it gets the नुँम्-आगमः।

हिसिँ = हिस् 1-3-2 = हि नुँम् स् 7-1-58, 1-1-47 = हि न् स् 1-3-2, 1-3-3 = हिन्स्।

The ending इकारः of “हिसिँ” has a उदात्त-स्वरः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √हिन्स्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

हिन्स् + लँट् 3-2-123
= हिन्स् + ल् 1-3-2, 1-3-3
= हिन्स् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हिन्स् + ति 1-3-3, 1-3-9
= हि श्नम् न्स् + ति 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (इकार:) of the अङ्गम् “हिन्स्”
= हिनन्स् + ति 1-3-8, 1-3-3
= हिनस् + ति 6-4-23
= हिनस्ति