Table of Contents

<<7-4-75 —- 7-4-77>>

7-4-76 भृञामित्

प्रथमावृत्तिः

TBD.

काशिका

भृञादीनां त्रयाणाम् अभ्यासस्य इकारादेशो भवति शलौ सति। भृञ् बिभर्ति। माङ् मिमीते। ओहाङ् जिहीते। त्रयाणाम् इत्येव, जहाति। श्लौ इत्येव, बभार।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

625 भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ. मिमीते. मिमाते. मिमते. ममे. माता. मास्यते. मिमीताम्. अमिमीत. मिमीत. मासीष्ट. अमास्त. अमास्यत.. ओहाङ् गतौ.. 7.. जिहीते. जिहाते. जिहते. जहे. हाता. हास्यते. जिहीताम्. अजिहीत. जिहीत. हासीष्ट. अहास्त. अहास्यत.. डु भृञ् धारणपोषणयोः.. 8.. बिभर्ति. बिभृतः. बिभ्रति. बिभृते. बिभ्राते. बिभ्रते. विभराञ्चकार, बभार. बभर्थ. बभृव. बिभराञ्चक्रे, बभ्रे. भर्तासि, भर्तासे. भरिष्यति, भरिष्यते. बिभर्तु. बिभराणि. बिभृताम्. अबिभः. अबिभृताम्. अबिभरुः. अबिभृत. बिभृयात्, बिभ्रीत. भ्रियात्, भृषीष्ट. अभार्षीत्, अभृत. अभरिष्यत्, अभरिष्यत.. डु दाञ् दाने.. 9.. ददाति. दत्तः. ददति. दत्ते. ददाते. ददते. ददौ, ददे. दातासि, दातासे. दास्यति, दास्यते. ददातु..

बालमनोरमा

326 भृञामित्। भृञामिति बहवचनाद्भृञादीनामिति लभ्यते। `अत्र लोपः' इत्यतोऽभ्यासस्येति, `निजां त्रयाणां गुणः श्लौ' इत्यतस्त्रयाणां श्लाविति चानवर्तते। तदाह–भृञ् माङित्यादिना। बिभ्रतीति। अभ्यस्तत्वाददादेशे यण्। बिभर्षि बिभृथः बिभृथ। बिभर्मि बिभृवः बिभृमः। बिभृते बिभ्राते बिभ्रते। बिभृषे बिभ्राथे। इति सिद्धवत्कृत्य आह– बिभृध्वे इति। बिभ्रे बिभृवहे बिभृमहे। श्लुवद्भावादिति। `भीह्यीभृहुवा'मित्यनेनेति भावः। बिभरामासेति। अनुप्रयोगसामथ्र्यादस्तेर्भूभावो नेति भावः। बभारेति। श्लावित्यनुवृत्तेर्भृञामिदिति नेत्त्वम्। बभ्रतुः बभ्रुरित्यपि ज्ञेयम्। `कृसृभृवृ'इति लिटि इण्निषेधः। थल्यपि `अचस्तास्व'दिति नित्यमिण्निषेधः। ऋदन्तत्वेन भारद्वाजमतेऽपि निषेधात्। तदाह— बभर्थेति। बभ्रथुः बभ्र। बभार–बभर इति सिद्धवत्कृत्य आह— बभृवेति। क्रादित्वादिण्निषेध इति भावः। बभ्रे बभ्राते बभ्रिरे। बभृषे बभ्राथे बभृढ्वे। बभ्रे बभृवहे बभृमहे। भर्ता। भरिष्यति। भरिष्यते। बिभर्तु– बिभृतात् बिभृताम् बिभ्रतु। इति सिद्धवत्कृत्य आह– बिभृहीति। हेरपित्त्वेन ङित्त्वाद्गुणनिषेध इति भावः। बिभृतात् बिभृतम् बिभृतेति सिद्धवत्कृत्य आह— बिभराणीति। आटः पित्त्वेन ङित्त्वाऽभावान्न गुणनिषेध इति भावः। बिभराव बिभराम। लङ्याह–अबिभरिति। अबिभृ त् इति स्थिते गुणे रपरत्वे हलङ्यादिलोपे रेफस्य विसर्ग इति भावः। अबिभरुरिति। अभ्यस्तत्वात् झेर्जुस्। `जुसि चे'ति गुण-। अबिभः अबिभृतम् अबिभृत। अबिभरम् अबिभृव अबिभृम। अबभृत अबिभ्राताम् अबिभ्रत। अबिभृथाः अबिभ्राथाम् अबिभृध्वम्। अबिभ्रि अबिभृवहि अबिभृमहि। आशीर्लिङ्याह— भ्रियादिति। `रिङ्शयग्लिङ्क्षु' इति रिङ्। आत्मनेपदे आसीर्लिङ्याह— भृषीष्टेति। `उश्चे'ति कित्त्वान्न गुणः। अभार्षीदिति। अनिट्त्त्वान्न सिज्लोपः। सिचि वृद्धिः। रपरत्वमिति भावः। अभार्ष्टामित्यादि। आत्मनेपदे लुङ्याह– अभृतेति। `ह्यस्वादङ्गा'दिति सिचो लोपः। अभृषातामित्यादि। माङ् माने इति। अनिट्। ङित्त्वादात्मनेपदी। श्लौ द्वित्वे `भृञामि'दिति अभ्यासस्य इत्त्वे मि मा ते इति स्थिते–

तत्त्वबोधिनी

282 भृञामित्। णिजां त्रयाणा'मित्यतोऽनुवर्तनादाह– एषां त्रयाणामिति। केचित्तु कपिञ्जलाधिकरणन्यायेन त्रयाणामिति लभ्यत इत्याहुः। त्रयाणां किम् ?। जहाति। `श्लौ किम् ?। बभार।

Satishji's सूत्र-सूचिः

414) भृञामित् 7-4-76
वृत्तिः “भृञ्” “माङ्” “ओहाङ्” एषां त्रयाणामभ्‍यासस्‍य इत्‍स्‍याच्छ्लौ । When followed by “श्लु”, the ending letter of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) of √भृ (डुभृञ् धारणपोषणयोः #३. ६), √मा (माङ् माने शब्दे च #३. ७) and √हा (ओहाङ् गतौ #३.८) gets replaced by a इकारः।

गीतासु उदाहरणम् – श्लोकः bg15-17 – बिभर्ति √भृ (जुहोत्यादि-गणः, डुभृञ् धारणपोषणयोः, धातु-पाठः #३. ६), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः। Since this धातु: has ञकारः as an इत्, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, it is उभयपदी।
Let us consider the case where it takes a परस्मैपद-प्रत्यय:।

भृ + लँट् 3-2-123 = भृ + ल् 1-3-2, 1-3-3
= भृ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भृ + ति 1-3-3
= भृ + शप् + ति 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भृ + ति 2-4-75 = भृ + भृ + ति 6-1-10
= भिर् + भृ + ति 7-4-76, 1-1-51 = भि + भृ + ति 7-4-60
= भि + भर् + ति 7-3-84, 1-1-51 = बिभर्ति 8-4-54, 1-1-50