Table of Contents

<<6-1-3 —- 6-1-5>>

6-1-4 पूर्वो ऽभ्यासः

प्रथमावृत्तिः

TBD.

काशिका

द्वे इति प्रथमन्तं यदनुवर्तते तदर्थादिह षष्ठ्यन्तं जायते। तत्र प्रत्यासत्तेरस्मिन् प्रकरणे ये द्वे विहिते तयोर् यः पूर्वो ऽवयवः सो ऽभ्याससंज्ञो भवति। पपाच। पिपक्षति। पापच्यते। जुहोति। अपीपचत्। अभ्यासप्रदेशास् तु अत्र लोपो ऽभ्यासस्य 7-4-58 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

397 अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात्..

बालमनोरमा

27 पूर्वः। अत्रेति। `एकाचो द्वे प्रथमस्ये'ति षाष्ठद्वित्वप्रकरम इत्यर्थः। तेन `सर्वस्य द्वे' इत्यादिविहितस्य द्वित्वस्य न सङ्ग्रहः। कस्य पूर्व इत्याकाङ्क्षायां `द्वे' इत्यनुवृत्तं षष्ठ\उfffदा विपरिणतं संबध्यते। तदाह–ये द्वे विहिते तयोरिति।

तत्त्वबोधिनी

23 `एकाचो द्वे' इति प्रकरणे।

Satishji's सूत्र-सूचिः

398) पूर्वोऽभ्यासः 6-1-4
वृत्तिः अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् । With regard to the reduplication prescribed in this section (from 6-1-1 to 6-1-12), the first of the two parts gets the name अभ्यास: (reduplicate.)