Table of Contents

<<6-1-86 —- 6-1-88>>

6-1-87 आद्गुणः

प्रथमावृत्तिः

TBD.

काशिका

अचि इत्यनुवर्तते. अवर्णात् परो यो ऽच् च पूर्वो यो ऽवर्णः तयोः पूर्वपरयोः अवर्णाचोः स्थाने एको गुण आदेशो भवति. तवेदम्. खट्वेन्द्रः. मालेन्द्रः. तवेहते. खट्वेहते. तवोदकम्. खट्वोदकम्. तवर्श्यः. खट्वर्श्यः. तवल्कारः. खट्वल्कारः. लृकारस्य स्थाने यो ऽने यो ऽण् तस्य लप्रत्वम् इष्यते.

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

27 अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्. उपेन्द्रः. गङ्गोदकम्..

बालमनोरमा

70 आद्गुणः। आदिति पञ्चमी नतु तपरकरणम्। एकः पूर्वपरयोरित्यधिकृतम्। तदाह- अवर्णादचीत्यादिना। उपेन्द्र इति। उप-इन्द्र इति स्थिते पकारादकारस्य तस्मादिकारस्य च पूर्वपरयोः कण्ठतालुस्थानकयोस्तथाविध एको गुण एकारः, आन्तरतम्यात्। अथ ?प्रत्याहारेषु स्ववाच्यवाच्येषूक्तां लक्षणां स्मारयितुं दीर्घविषयोदाहरणमाह-रमेश इति। रमा-ईश इति स्थिते आकारस्य ईकारस्य च स्थाने पूर्ववदेको गुण एकारः। गङ्गोदकमिति। गङ्गा-उदकमिति स्थिते आकारस्य उकारस्य च कण्ठोष्टस्थानकयोस्तथाविध एको गुण ओकारः। कृष्णर्द्धिरित्यत्र कृष्ण ऋद्धिरिति स्थिते आद्गुण इति प्राप्तम्। अत्र अकार ऋकारश्चेति द्वौ स्थानिनौ। तयोरकार एकार ओकारश्चेति त्रयोऽपि गुणः प्रसक्ताः, अकारेण तेषां कण्ठस्थानसाम्याऽविशेषात्।

तत्त्वबोधिनी

[अवर्ण] + [अच् !एच् ] > { गुणः एकादेशः }

Satishji's सूत्र-सूचिः

3) आद्गुणः 6-1-87

वृत्ति: अवर्णात् परो योऽच् , अचि च पूर्वो योऽवर्णः , तयोः पूर्वपरयोरवर्णाचोः स्थान एको गुण आदेशो भवति । In place of a preceding अवर्ण: letter (अकार: or आकार:) and a following अच् letter, there is a single substitute of a गुण: letter (“अ”, “ए”, “ओ”)। Note: “अ”, “ए” and “ओ” get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः।

गीतासु उदाहरणम् – श्लोकः bg11-20

तव + इदम् = तवेदम्