TBD.
लिङः इत्येव। लिङ्सम्भन्धिनोः तकारथकारयोः सुडागमो भवति। तकरथकारावागमिनौ, लिङ् तद्विशेषणम्। सीयुटस्तु लिङेवागमी। तेन भिन्नविषयत्वात् सुटा बाधनं न भवति। तकारे इकर उच्चारणार्थः। कृषीष्त। कृषीयास्ताम्। कृषीष्ठाः। कृषीयास्थाम्।
TBD.
525 लिङस्तथोः सुट्. यलोपः. आर्धधातुकत्वात्सलोपो न. एधिषीष्ट. एधिषीयास्ताम्. एधिषीरन्. एधिषीष्ठाः. एधिषीयास्थाम्. एधिषीध्वम्. एधिषीय. एधिषीवहि. एधिषीमहि. ऐधिष्ट. ऐधिषाताम्..
59 तथा च प्रकृते भव यास् त इति स्थिते– सुट्?तिथोः। लिङः सीयुडित्यतो लिङ इत्यनुवर्तते। तिश्च थ् चेति द्वन्द्वात्षष्ठीद्विवनचम्। इकार उच्चारणार्थः। तदाह- -लिङस्तकारेति। सुटि टकार इत्, उकार उच्चारणार्थः। भव यास् स् त् इति स्थितम्। नन्विह परेण सुटा यासुटः कथं न बाधः ?। भवेयुरित्यादौ परस्मैपदेषु यासुड्?विधेश्चरितार्थत्वादित्याशङ्क्य निराकरोति–सुटा यासुण्न बाध्यत इति। तत्कुतः इत्यत आह– लिङो यासुडिति। लिङः सीयुट् यासुडागमश्च, लिङादेशैकदेशस्य तकारस्य सुडागम इति विषयभेदादित्यर्थः। तथा च यौगपद्याऽसम्भवाऽभावाद्विप्रतिषेधाऽभावान्न पेरणापि सुटा यासुटो बाध इति भावः।
44 तकारादिकार उच्चारणार्थः।
वृत्ति: लिङस्तथोः सुट्। A तकार: or थकार: belonging to a लिँङ् affix takes the augment सुट्।
उदाहरणम् – कृषीष्ट derived from √कृ (डुकृञ् करणे ८. १०). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, आत्मनेपद-प्रत्यय:।
कृ + लिँङ् (आशिषि) 3-3-173
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + त 3-4-78, 1-3-72, 1-4-100, 1-4-101, 1-4-102, 1-4-108. As per 3-4-116, the affix “त” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-79 does not apply.
= कृ + सीयुट् त 3-4-102, 1-1-46
= कृ + सीय् त 1-3-3, 1-3-9. The उकार: in सीयुट् is उच्चारणार्थ:। As per 3-4-116, the affix “सीय् त” has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= कृ + सीय् सुट् त 3-4-107, 1-1-46
= कृ + सीय् स् त 1-3-3, 1-3-9. The उकार: in सुट् is उच्चारणार्थ:। Note: 7-2-10 stops 7-2-35.
= कृ + सीस्त 6-1-66
Example continued under 1-2-12.