TBD.
हलः इति वर्तते, अन्यतरस्याम् इति च। हल उत्तरस्य झरो झरि सवर्णे परतो लोपो भवति अन्यतरस्याम्। प्रत्त्तम्, अवत्त्तम् इत्यत्र त्रयस्तकाराः, क्रमजश्चतुर्थः। तत्र मध्यमस्य मध्यमयोर् वा लोपो भवति। मरुत्त्त्तः इत्यत्र चत्वारस्तकाराः क्रमजः पञ्चमः। तत्र मध्यमस्य मध्यमयोः मध्यमानां वा लोपो भवति। मरुच्छब्दस्य हि उपसङ्ख्यानसामर्थ्यातच उपसर्गात्तः 7-4-47 इति तत्वं भवति। झरः इति किम्? शार्ङ्गम्। झरि इति किम्? प्रियपञ्च्ञा। अल्लोपस्य च पूर्वत्र असिद्धे न स्थानिवतिति स्थानिवद्भावप्रतिषेधात् चकारस्य ञकारे लोपः स्यात्। सवर्णे इति किम्? तर्प्ता तप्तुम्। तर्प्तव्यम्। सवर्णग्रहणसामर्थ्यातिह सङ्ख्यातानुदेशो न भवति, सवर्णमात्रे लोपो विज्ञायते। तेन शिण्ढि, पिण्ढि इति ढकारे डकारस्य लोपो भवति।
TBD.
73 हलः परस्य झरो वा लोपः सवर्णे झरि..
72 झरो झरि सवर्णे। `झयोहोऽन्यतरस्या'मित्यतोऽन्यतरस्यामित्यनुवर्तते। `हलो यमा'मित्यतो `हल' इति, `लोप' इति चानुवर्तते। तदाह–हलः परस्येत्यादिना। तदिह रूपत्रयं संपन्नमित्याह-द्वित्वाभाव इत्यादिना। रेफात्परस्य ऋधिति धात्वन्तस्य धकारस्य `अचो रहाभ्या'मिति द्वित्वाऽभावे सति `झरो झरी'ति लोपे च सति एकधकारं रूपमित्यर्थः। असतीति। `द्वित्वाऽभावे' इत्यनुकृष्यते। तस्यैव ऋधेर्धकारस्य द्वित्वाऽभावे लोपे चा।ञसति द्विधकारं रूपम्। तथा तस्यैव ऋधेर्धकारस्य द्वित्वे लोपे च सति द्विधकारमेव रूपमित्यर्थः। सतीति। तस्यैव ऋधेर्धकारस्य द्वित्वे सति लोपे च असति त्रिधकारं रूपमित्यर्थः। यद्यपि द्विधपक्षे प्रथमधकारस्य त्रिधपक्षे मध्यमधकारस्य च `झलाञ्जश् झशी'ति जश्?त्वेन दकारो भवति। तथापि प्रक्रियाभिप्रायेण भूतपूर्वगत्या वा द्विधत्वं त्रिधत्वं चेति न दोषः। अथ तवल्कार इत्यत्राह यण इति। यणः परस्य मयो द्वित्वमिति व्याख्याने ककारस्य द्वित्वं, लकारस्य त्वनचि चेति द्वित्वमित्यर्थः। तेनेति लकारककारयोर्द्वित्वविकल्पेनेत्यर्थः। द्वित्वं लस्यैवेति। लकारस्य द्वित्वे ककारस्य द्वित्वाऽभावे च सति द्विलकारमेकककारं च प्रथमं रूपमित्यर्थः। नोभयोरिति। लकारककारयोरुभयोरपि द्वित्वाऽभावे एकलकारमेकककारं तृतीयं रूपमित्यर्थः। उभयोरपीति। लककारयोरुभयोरपि द्वित्वे द्विलकारं द्विककारं चतुर्थं रूपमित्यर्थः। तवल्कारादिष्विति। आदिना ममल्कारादिङ्ग्रहः।
59 झरो झरि। `हलो यमा'मित्यतो `हल' इत्यनुवर्तते, तदाह-हलः परस्येति। हलः किम् ?। प्रत्तम्। झर इति किम् ?। शाङ्र्गम्। झरीति किम् ?। तर्प्ता। सवर्णग्रहणसामथ्र्याद्यथासङ्ख्यमत्र न भवति। तेन `शिण्डी' त्यत्र डस्य विकल्पेन लोपः सिध्यतीति दिक्। लोपोवेति। `झयो हः' इति सूत्रादन्यतरस्यामित्यनुवृत्तेः। असति लोप इति। `द्वित्वाऽभावे'इत्यनुषज्यते। द्वित्वलोपयोरसतोरित्यर्थः। त्रिधमिचि। `यणो मयः' इति लक्षणान्तरेण पुनर्द्वित्वे `चतुर्ध'मिति बोध्यम्। नोभयोरुभयोरपि।
430) झरो झरि सवर्णे 8-4-65
वृत्तिः हलः परस्य झरो वा लोपः सवर्णे झरि । Following a consonant (हल्), a झर् letter is optionally elided if it is followed by a झर् letter that is सवर्ण: with it.
उदाहरणम् – रुन्ध:/रुन्द्ध: (√रुध्, रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम् ।
रुध् + लँट् 3-2-123
= रुध् + ल् 1-3-2, 1-3-3
= रुध् + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113. Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “तस्” from getting the इत्-सञ्ज्ञा
= रु श्नम् ध् + तस् 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (उकार:) of the अङ्गम् “रुध्”
= रुनध् + तस् 1-3-8, 1-3-3
= रु न् ध् तस् 6-4-111 (Note: Since the सार्वधातुक-प्रत्यय: “तस्” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply)
= रु न् ध् धस् 8-2-40
= रुं ध् धस् 8-3-24 (Note: 8-3-24 is an earlier rule in the अष्टाध्यायी compared to 8-4-2. Hence as per 8-2-1, the णकारादेश: which would have been done by 8-4-2 is असिद्ध: in the eyes of 8-3-24. Hence 8-3-24 applies.)
= रुं द् धस् 8-4-53
= रुन् द् धस् 8-4-58 (Note: 8-4-2 cannot apply now because as per 8-2-1, the नकारादेश: done by 8-4-58 is असिद्ध: in the eyes of 8-4-2)
= रुन्ध:/रुन्द्ध: 8-4-65