Table of Contents

<<8-4-52 —- 8-4-54>>

8-4-53 झलं जश् झशि

प्रथमावृत्तिः

TBD.

काशिका

झलां स्थाने जशादेशो भवति झशि परतः। लब्धा। लब्धुम्। लब्धव्यम्। दोग्धा। दोग्धुम्। दोग्धव्यम्। बोद्धा। वोद्धुम्। बोद्धव्यम्। झशि इति किम्? दत्तः। दत्थः। दध्मः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

19 स्पष्टम्. इति पूर्वधकारस्य दकारः..

बालमनोरमा

54 झलाञ्जश् झशि। स्पष्टमिति। झलां स्थाने जश् स्यात् झशि परत इति सप्ष्टार्थकम्। तत्र न किञ्चिद्व्याख्यातव्यमस्ति, पदान्तरस्यानुवृत्त्यभावादित्यर्थः। इति धकारस्येति। प्रथमधकारस्येत्यर्थः। दकार इति। स्थानत आन्तर्यादिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

223) झलां जश् झशि 8-4-53

वृत्ति: झलां स्थाने जशादेशो भवति झशि परतः। The झल् letters are replaced by जश् letters when they are followed by a झश् letter.

उदाहरणम् – भृस्ज् + औ 4-1-2 = भृश्जौ 8-4-40 = भृज्जौ 8-4-53