TBD.
अन्यतरस्याम् इति वर्तते। हल उत्तरेषां यमां यमि परतो लोपो भवति अन्यतरस्याम्। शय्य्या इत्यत्र द्वौ यकारौ, क्रमजस्तृतीयः, तत्र मध्यमस्य वा लोपो भवति। शय्या, शय्य्या। अदितेरपत्यमादित्य्यः इत्यत्र तकारात् परः एकः यकारः,यणो मयः इति क्रमजो द्वितीयः, तत्र मध्यमस्य वा लोपो भवति। आदित्यः, आदित्य्यः। आदित्यो देवता अस्य स्थालीपाकस्य इति आदित्य्यः इत्यत्र अपि द्वौ यकारौ क्रमजस्तृतीयः। तत्र मध्यमस्य मध्यमयोर् वा लोपो भवति। हलः इति किम्? आन्नम्। यमाम् इति किम्? अग्निः। अर्ध्यम्। यमि इति किम्? शार्ङ्गम्।
TBD.
–
61 उभयत्रापि प्रथमयकारस्य लोपविधिमाह–हलो यमां यमि लोपः। `झयो होऽन्यतरस्या'मित्यतोऽन्यतरस्यामित्यनुवर्तते। तच्च विभक्तिप्रतिरूपकमव्ययं वार्थे वर्तते। यमामिति बहुत्वं प्रयोगबहुत्वापेक्षम्। एकैकस्मिन् प्रयोगे बहूनां यमामसम्भवात्। `हल' इति दिग्योगे पञ्चमी। `परस्ये'ति शेषः। तदाह-हलः परस्य यम इत्यादिना। अनेन सूत्रेण उदाहरणद्वयेऽपि प्रथमयकारस्य लोपे सति एकयकाररूपे संपद्यते। लोपाऽभावपक्षे तु द्वियकाररूपं संपद्यते। ननु `हलो यमा'मिति सूत्रमेतदर्थं नारम्भणीयम्, अचो रहाभ्यामिति यकारद्वित्वस्य वैकल्पिकतया द्वित्वे सति द्वियकाररूपस्य, द्वित्वाऽभावे एकयकाररूपस्य च सिद्धेरित्याशङ्क्य नास्य सूत्रस्यात्र प्रयोजनमित्याह–इति लोपेति। तर्हि किमस्य सूत्रस्य फलमित्यत आह– लोपारम्भेति। `दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' इत्यादित्यशब्दाच्छेषार्थण्यान्ताद्देवतार्थेण्यः। आदित्य–य इति स्थिते `यस्येति चे'ति यकारादकारस्य लोपे तकाराद्यकारस्याऽनेन सूत्रेण लोपः। तस्मिन् सत्येव आदित्यमित्येकयकारं रूपं सिध्यति, नान्यथा। अतः सूत्रारम्भो न विफल इति भावः। अत्र `आपत्यस्य च तद्धितेऽनाती'ति लोपस्तु न, जाताद्यर्थकत्वेन आपत्यत्वाऽभावात्। अत्र त्वतत्सूत्रं न्याय्यत्वादुपन्यस्तमिति भावः। नन्वेवमपि महात्मनो भाव इत्यर्थे `गुणवचनब्राआहृणादिभ्यः' इति ष्यञि टिलोपे आदिवृद्धौ माहात्म्यमित्यत्रापि तकारान्मकारस्य लोपः स्यात्, तस्य यम्त्वात्, यकाररूपयम्परकत्वाच्चेत्यत आह– यमामिति। यथासंख्यविज्ञानादिति। विज्ञायते अनेनेति विज्ञानं=सूत्रम्। `विज्ञानं शिल्पशास्त्रयोः' इत्यमरः। यथासंख्यसूत्रादित्यर्थः। तथाच मकारस्य मकारे परत एव लोपलाभाद्यकारे परे न लोप इत्यर्थः।
51 हलो यमां यमि। हलः किम् ? न्याय्यम्। इह यकारादीनां यकारादौ परे यथासम्भवमुदाहरणान्युच्यन्ते। सुध्युपास्यः। मध्वरिः। अत्र `यणो मय' इति मयः परस्य यस्य वस्य च द्वित्वे कृते अनेन लोपः। दुर्लभः। दुर्ञुङुवे। कुर्मः। अत्र तु `अचो रहाभ्या'मिति लस्य ञस्य मस्य च द्वित्वे कृते लोपः। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः। अत्र `अनचि चे'ति ङमो द्वित्वे सत्यनेन ङकारणकारनकाराणां लोपः। लोपः स्याद्वेति। `झयो ह्मः' इति सूत्रादन्यतरस्यामित्यनुवर्तत इति भावः।लोपारम्भफलं तु आदित्यो देवतेति। आदित्यशब्दात् `दित्यदित्ये'ति ण्यप्रत्यये `यस्येति चे'त्यकारलोपेऽनेन च यलोपे आदित्यमित्येकयकारकं रूपं सिध्यति नान्यथेति भावः। नच `आपत्यस्य च तद्धितेऽनाती'त्यनेन यलोपे कृते एकयकारकं रूपं सिध्यतीति वाच्यम् ; अदितौ जात आदित्य इत्यादिविवक्षायां तस्याऽप्रवृत्तेः। यथासङ्ख्यविज्ञानादिति। उक्तोदाहरणेषु वोपारम्भफलाभावाद्रोफस्य रेफे परत उदाहरणाऽभावाच्च यथासङ्क्यासूत्रमिह नोप्रन्यस्तम् ष। माहात्म्यमिति। अत्र मलोपो नेत्यर्थः। `हलोयरां यरि सवर्णे लोपः' इति तु न सूत्रितम्। `मूर्ध्रः' `शाङ्र्ग' मित्यादौ रेफात्परस्य लोपांपत्तेः।
TBD.