Table of Contents

<<8-4-1 —- 8-4-3>>

8-4-2 अट्कुप्वाङ्नुम्व्यवाये ऽपि

प्रथमावृत्तिः

TBD.

काशिका

अट् कु पु आङ् नुम् इत्येतैर् व्यवाये ऽपि रेफषाकारभ्याम् उत्तरस्य नकारस्य णकारादेशो भवति। अड्व्यवाये तावत् करणम्। हरणम् किरिणा। गिरिणा। कुरुणा। गुरुणा। कवर्गव्यवाये अर्केण। मूर्खेण। गर्गेण। अर्घेण। पवर्गव्यवाये दर्पेण। रेफेण। गर्भेण। चर्मणा। वर्मणा। आङ्व्यवाये पर्याणद्धम्। निराणद्धम्। अड्व्यवाये इति सिद्धे आङ्ग्रहणं पदव्यवाये इत्यस्य प्रतिषेधस्य बाधनार्थम्। नुंव्यवाये बृंहणम्। बृंहणीयम्। नुंग्रहणम् अनुस्वारोपलक्षणार्थं द्रष्टव्यम्। तेन तृंहणम्, तृंहणीयम् इत्यत्र अनुस्वारव्यवाये नुमभावे ऽपि णत्वं भवति। सत्यपि च नुमि यत्र अनुस्वारो न श्रूयते तत्र न भवति, प्रेन्वनम्, प्रेन्वनीयम् इति। व्यवायोपलक्षणार्थत्वादडादीनाम् इह व्यस्तैः समस्तैर् व्यवाये ऽपि णत्वं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

138 अट् कवर्गः पवर्गः आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः समानपदे. इति प्राप्ते..

बालमनोरमा

196 अत्र नकारस्य णत्वप्राप्तिमाशङ्कितुमाह–अट्कुप्वाङ्। `रषाभ्यां नो णः समानपदे' इति पूर्वसूत्रमनुवर्तते। तत्र `न' इति षष्ठ\उfffद्न्तम्। तेन च सूत्रेण रषाभ्यामव्यवहितपरस्य णत्वं विहितम्। रामेणेत्यादौ अडादिव्यवधानेऽपि प्राप्त्यर्थमिदमारब्धम्। अट्-प्रत्याहार, कुः-कवर्गः, पुः-पवर्गः। अट्च कुश्च पुश्च आङ् च नुम्च तैव्र्यवधानम्, तस्मिन् सत्यपि रषाभ्यां परस्य नस्य णत्वं न स्यात्। अतोऽडादिभिव्र्यस्तैर्यथासम्भवं मिलितैश्च व्यवायेऽपीति व्याख्येयम्। एवंच `क्षुभ्नादिषु चे'ति णत्वनिषेधसूत्रे `क्षुभ्न' शब्दपाठोऽर्थवान्। `सरूपाणा'मित्यादिनिर्देशाश्च उपपन्ना भवन्ति। तदाह–अटकवर्गेत्यादिना। विवरणावसरे अट् कवर्गेत्याद्यविभक्तिकनिर्देशाश्च न दूष्यन्ते, भाष्ये तथा बहुलमुपलम्भात्। समानपद इति। एकपद इत्यर्थः। अखण्डमेव पदमिह विवक्षितम्। तेन रामनामेत्यादौ नातिप्रसङ्गः। `मातृभोगीण' इत्यादौ णत्वोपपत्तिस्तु तद्धिताधिकारे वक्ष्यते। अङा व्यवाये पर्याणद्धमित्युदाहरणम्। इह आङ्गहणाऽभावे तु उपसर्गादसमासेऽपीत्यत्र तदनुवृत्त्या णत्वं न स्यात्। नन्वड्?व्यवाय इत्येवात्र णत्वं भविष्यति , किमाङ्ग्रहणेनेत्यत आह–नुम्ग्रहणमिति। नुम्ग्रहणेन अनस्वारो लक्ष्यते। प्रयोगानुसारादित्यर्थः। एवं च नुम्ग्रहणं प्रत्याख्येयमित्याह–तच्चेति। ननु नुम्ग्रहणाऽभावे तल्लक्षितानुस्वारस्य कथं लाभ इत्यत आह–अयोगवाहानमिति। न विद्यते योगो येषां वर्णसमाम्नाये ते अयोगाः। अनुपदिष्टाः, उपदिष्टैरगृहीताश्चेत्यर्थः। वाहयन्ति प्रयोगं निर्वाहयन्तीति वाहाः, अयोगाश्च ते वाहाश्च अयोगवाहाः=अनुस्वारविसर्गादयः। अट्?सूपदेशस्य=पाठस्य हल्सन्धिनिरूपणावसरे उक्तत्वादित्यर्थः। स्पष्टं चैतद्धयवरट्सूत्रभाष्यवार्तिकयोः। उक्तं चात्रैव सूत्रे भाष्ये–`नार्थो नुम्ग्रहणेन। अनुस्वारे कृते अड्व्यवाय इत्येवात्र णत्वं सिद्धम्' इति। इति णत्वमिति। शसवयवस्य नकारस्य णकारे प्राप्ते इत्यर्थः।

तत्त्वबोधिनी

164 अट्कुप्वाङ्। `रषाभ्या'मिति पञ्चमीनिर्देशाद्व्यवहितस्याऽप्राप्तौ वचनमिदम्। तत्र सर्वैव्र्यवायोऽसंभवी। `एकैकमात्रव्यावय' इत्यपि नार्थः, क्षुभ्नादिषु क्षु भ्नपाठसामथ्र्यात्, `सरूपाणाम्-'इत्यादिनिर्देशाच्चेत्यभिप्रेत्याह- व्यस्तैर्यथासंभवमिलितैश्चेत्यादि। नन्वेवं `कृत्स्नं' `कार्त्स्न्य'मित्यादावडादिव्यवधानाऽभावण्णत्वाऽभावेप्यादर्शेनेत्यादावड्वयवधानादतिप्रसङ्गः। न च अडादिभिरेव व्यवधान इति नियमः, अप्राप्ते विधिरयमित्युक्तत्वात्। सत्यम्। योगविभागोऽत्र बोध्यः। `व्यवायेऽपि' इत्येको योगो विध्यर्थः। `अट्कुप्वाङ्नुम्– 'इत्यन्यो नियमार्थः। छान्दसो भिसो लुक्। अत्र योगविभागं विनापि निर्वाहः सुकर इति तु नव्याः। तथाहि–अट्कुप्वाङ्-'इति सूत्रे `रषाभ्याम्' इत्यनुवर्तते। पञ्चमीश्रुत्या `तस्मादित्युत्तरस्ये'ति परिभाषोपतिष्ठते। उपस्थितापि सा वचनप्रामाण्यादडादिव्यावाये न प्रवर्तते। तदन्यव्यवाये तु प्रवर्तत एव। अतएव-`येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यादेकवर्णव्यवहितस्यैव इको गुणो न तु भिनत्तीत्यादावनेकव्यवहितस्येकः'–इति `पुगन्तलघूपधस्ये'ति सूत्रे वक्ष्यति। एवं च यत्राडादिभ#इरेव व्यवधानं रामेणेत्यादौ तत्र भवत्येव णत्वम्। अत्र त्वडादिभिन्नेन व्यवधानमादर्शेनेत्यादौ, तत्र न भवति, `तस्मा'दिति परिभाषाया जागरूकत्वात्। निषेधं बाधितुमिति। तेन `पर्यणद्ध'मित्यत्र `उपसर्गादसमासेऽपि-' इति णत्वं सिध्यतीति भावः। उपलक्षणार्थमिति। नुम्स्थानिकस्य, स्वाभाविकस्य वाऽनुस्वारमात्रस्योपलक्षणार्थं नुम्ग्रहणमित्यर्थः। तेन `बृहि वृद्धौ'। इदित्त्वान्नुम्। तस्यानुस्वारः। `तृंहू हिंसायां'। स्वाभाविकोऽत्रानुसवारः। बृंहणम् तृंहणम्। उभयत्रापि णत्वं सिद्धम्। अयोगवाहानामिति। अविद्यमानो योगः=प्रत्याहारेषु संबन्धो येषां ते अयोगाः। अनुपदिष्टत्वादुपदिष्टैरगृहीतत्वाच्च प्रत्याहारसंबन्धशून्या इत्यर्थः। वाहयन्ति निर्वाहयन्ति प्रयोगमिति वाहाः। अयोगाश्च ते वाहाश्च अयोगवाहाः। अनुपदिष्टत्वे उपदिष्टैरगृहीतत्वे च सति श्रूयमाणा इत्यर्थः। अट्स्विति। निष्कर्षस्त्वकारोपरीति। तेन पयःस्वित्यादाविणः परस्येति षत्वं न भवति। अत एवोक्तं प्राक्- `अनुस्वारविसर्गजिह्वामूलीयोपध्मानीययमानामकारोपरी'ति।

Satishji's सूत्र-सूचिः

57) अट्कुप्वाङ्नुम्व्यवायेऽपि 8-4-2

वृत्ति: अट्, कवर्ग, पवर्ग, आङ्, नुँम् एतैर्व्यस्तैर्यथासम्भवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य ण: समानपदे। The letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term आङ् or नुँम् (अनुस्वारः) either singly or in any combination.

गीतासु उदाहरणम् – श्लोकः bg1-26

By the present rule the ending न् of आचार्यान् would have changed to ण् but the next rule blocks this operation.