Table of Contents

<<8-2-73 —- 8-2-75>>

8-2-74 सिपि धातो रुर्वा

प्रथमावृत्तिः

TBD.

काशिका

सिपि परतः सकारान्तस्य पदस्य धातोः रुः इत्ययम् आदेशो भवति, दकारो वा। अचकाः त्वम्, अचकात् त्वम्। अन्वशाः त्वम्, अन्वशात् त्वम्। धातुग्रहणं च उत्तरार्थं रुग्रहणं च।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

673 पदान्तस्य धातोः सस्य रुः स्याद्वा, पक्षे दः. अहिनः, अहिनत्, अहिनद्.. उन्दी क्लेदने.. 13.. उनत्ति. उन्तः. उन्दन्ति. उन्दाञ्चकार. औनत्, औनद्. औन्ताम्. औन्दन्. औनः, औनत्, औनद्. औनदम्.. अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु.. 14.. अनक्ति. अङ्क्तः. अञ्जन्ति. आनञ्ज. आनञ्जिथ, आनङ्क्थ. अञ्जिता, अङ्क्ता. अङ्ग्धि. अनजानि. आनक्..

बालमनोरमा

315 सिपि धातोः। पदस्येत्यधिकृतम्। `झलां जशोऽन्ते' इत्यतोऽन्ते इत्यनुवृत्तम्। `ससजुषो'रित्यतः स इति लुप्तषष्ठीकमनुवर्तते।तदाह– पदान्तस्येति। पक्षे इति। `वसुरुआंस्वि' त्यतस्तदनुवृत्तेरिति भावः। सिपि धातुत्वस्य अव्यभिचाराद्धातोरित्युत्तरार्थम्। अचकासीत्। अचकासिष्यत्। शासधातुरुदित्। सेट्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

435) सिपि धातो रुर्वा 8-2-74

वृत्तिः पदान्‍तस्‍य धातोः सस्‍य रुः स्‍याद् वा सिपि। पक्षे जश्त्वेन दः । “रुँ” is optionally substituted for a पदान्त-सकारः (the letter “स्” occurring at the end of a पदम्) of a verbal root when सिप्-प्रत्ययः follows. Alternatively, as per 8-2-39, दकारः is substituted for the पदान्त-सकारः।

उदाहरणम् – अहिनः/अहिनत्/अहिनद् (√हिन्स्, रुधादि-गणः, हिंसायाम् , धातु-पाठः # ७. १९), लँङ्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम् ।

रुँ-पक्षे।
हिन्स् + लँङ् 3-2-111
= हिन्स् + ल् 1-3-2, 1-3-3
= हिन्स् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हिन्स् + स् 1-3-3, 3-4-100
= हि श्नम् न्स् + स् 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (इकार:) of the अङ्गम् “हिन्स्”
= हिनन्स् + स् 1-3-8, 1-3-3
= हिनस् स् 6-4-23
= हिनस् 6-1-68
= अट् हिनस् 6-4-71, 1-1-46
= अहिनस् 1-3-3
= अहिनरुँ 1-1-62, 1-4-14, 8-2-74
= अहिनः 1-3-2, 8-3-15

दकार-पक्षे।
अहिनस् = अहिनद् 1-1-62, 1-4-14, 8-2-39
= अहिनत्/अहिनद् 8-4-56

So there are a total of three forms अहिनः/अहिनत्/अहिनद्।