Table of Contents

<<1-4-13 —- 1-4-15>>

1-4-14 सुप्तिङन्तं पदम्

प्रथमावृत्तिः

TBD.

काशिका

सुप् तिङिति प्रत्याहारगरहणम्। सुबन्तं तिङन्तं च शब्दरूपं पदसंज्ञं भवति। ब्राह्मणाः पथनित्। पदसंज्ञायाम् अन्तग्रहणम् अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः प्रतिषेधार्थम्। गौरी ब्राह्मणितरा। पदप्रदेशाः पदस्य (8-1-16), पदात् (8-1-17) इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

14 सुबन्‍तं तिङन्‍तं च पदसंज्ञं स्‍यात् ।।.

बालमनोरमा

31 सुप्तिङन्तं पदम्। सुबिति स्वौजसमौङिति सूत्रे `सु' इत्यारभ्या सुपः पकारेण प्रत्याहारो न तु सप्तमीबहुवचनस्यैवाऽत्र ग्रहणं, व्याख्यानात्। सुप्च तिङ् च सुप्तिङौ, तौ अन्ते यस्य तत् सुप्तिङन्तम्। शब्दरूपमिति शब्दशास्त्रप्रस्तावाल्लभ्यते। अन्तशब्दश्च प्रत्येकं सम्बध्यते। तदाह– सुबन्तमिति।

तत्त्वबोधिनी

28 सुप्तिङ्न्तं पदम्। अत्राऽन्तग्रहणं `अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती'ति ज्ञापनार्थम्। तेन `ईदूदेद्द्विवचनं प्रगृह्र'मिति न द्विवचनान्तस्य प्रगृह्रत्वम्। अन्यथा कुमार्गोरगारं कुमार्यगारमित्यत्र प्रकृतिभावः स्यात्। कथं तर्हि प्रातिपदिकसंज्ञायां कृतद्धिताभ्यां तदन्तग्रहणमिति चेत् ?; अत्राहुः -`कृत्तद्धिते'ति सूत्रेर्ञर्थवह्यहणमनुवर्तते तत्सामथ्र्यात्तदन्तग्रहणमिति।

Satishji's सूत्र-सूचिः

165) सुप्तिङन्तं पदम् 1-4-14
वृत्ति: सुबन्तं तिङन्तं च पदसंज्ञं स्यात्। A term ending in a सुँप्-प्रत्यय: (listed in 4-1-2) or a तिङ्-प्रत्यय: (listed in 3-4-78) gets the पद-सञ्ज्ञा .

Example continued:

Here लिह् gets पद-सञ्ज्ञा by 1-4-14, 1-1-62 and therefore we get लिढ् 8-2-31 = लिड् 8-2-39 = लिट्, लिड् 8-4-56