TBD.
तिपि परतः सकारान्तस्य पदस्य अनस्तेः दकार आदेशो भवति। अचकाद् भवान्। अन्वशाद् भवान्। तिपि इति किम्? चकास्तेः क्विप्, चकाः। अनस्तेः इति किम्? आप एव इदं सलिलं सर्वमाः। आः इत्यस्तेः लङि तिपि बहुलं छन्दसि 7-3-97 इति ईड् न कृतः।
TBD.
672 पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः. ससजुषोरुरित्यस्यापवादः. अहिनत्, अहिनद्. अहिंस्ताम्. अहिंसन्..
र्वोरुपधायाः। र् च, व् च र्वौ, तयोरिति विग्रहः। `सिपि धातो रुर्वा' इत्यतो धातोरित्यनुवर्तते। र्वोरिति तद्विशेषणं, ततस्तदन्तविधिः। `पदस्ये'त्यधिकृतम्। `स्कोः संयोगाद्योः' इत्यतोऽन्ते इत्यनुवर्तते। तदाह–रेफेत्यादिना। पिपठीरिति। ठकारादिकारस्य दीर्घे रेफस्य विसर्ग इति भावः। पिपठीभ्र्यामिति। `स्वादिषु' इति पदत्वात् `र्वोरुपधायाः' इति भ्यामादौ पदान्तत्वलक्षणे दीर्घ इति भावः। सुपि विशेषमाह–वा शरीति। पिपठिष्-सु इति स्थिते षत्वस्याऽसिद्धत्वाद्रुत्वे, दीर्घे, विसर्जनीये, तस्य सत्वं बाधित्वं `वा शरी'ति विकल्पेन विसर्जनीयः। तदभावपक्षे विसर्जनीयस्य सत्वमित्यर्थः। तत्र विसर्जनीयपक्षे पिपठीः-सु इति स्थिते,इण्कवर्गाभ्यां परत्वाऽभावात् `आदेशप्रत्यययोः' इति षत्वे अप्राप्ते- ।
–
434) तिप्यनस्तेः 8-2-73
वृत्तिः पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । दकारः is substituted for a पदान्त-सकारः (the letter “स्” occurring at the end of a पदम्) – with the exception of the सकार: of the धातुः √अस् (असँ भुवि #२. ६०) – when the तिप्-प्रत्ययः follows.
This सूत्रम् is a अपवादः (exception) to 8-2-66 ससजुषो रुः।
उदाहरणम् – अहिनत्/अहिनद् (√हिन्स्, रुधादि-गणः, हिसिँ हिंसायाम्, धातु-पाठः # ७. १९), लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम् ।
हिन्स् + लँङ् 3-2-111
= हिन्स् + ल् 1-3-2, 1-3-3
= हिन्स् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हिन्स् + त् 1-3-3, 3-4-100
= हि श्नम् न्स् + त् 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (इकार:) of the अङ्गम् “हिन्स्”
= हिनन्स् + त् 1-3-8, 1-3-3
= हिनस् + त् 6-4-23
= हिनस् 6-1-68
= अट् हिनस् 6-4-71, 1-1-46
= अहिनस् 1-3-3
= अहिनद् 1-1-62, 1-4-14, 8-2-73
= अहिनत्/अहिनद् 8-4-56