Table of Contents

<<8-4-55 —- 8-4-57>>

8-4-56 वा अवसाने

प्रथमावृत्तिः

TBD.

काशिका

झलां चरिति वर्तते। अवसाने वर्तमानानां झलां वा चरादेशो भवति। वाक्, वाग्। त्वक्, त्वग्। श्वलिट्, श्वलिड्। त्रिष्टुप्, त्रिष्टुब्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

146 अवसाने झलां चरो वा. रामात्, रामाद्. रामाभ्याम्. रामेभ्यः. रामस्य..

बालमनोरमा

204 वाऽवसाने `झलां जश्झशी'त्यतो `झला'मिति `अभ्यासे चर्चे'त्यतश्चरिति चानुवर्तते। तदाह–अवसान इति। द्वित्वे रूपेति। तकारदकारयोरनचि चेति द्वित्वे, तदभावे च रूपचतुष्टयमित्यर्थः। तत्र चत्र्वपक्षे द्वतकारमेकतकारं च रूपम्। जश्त्वपक्षे द्विदकारं एकदकारं च। रामाभ्याम्। रामेभ्य इति। चतुर्थीवत्प्रक्रिया सुगमिति भावः। \र्\नथ षष्ठीविभक्तिः। ङसो ङकारस्य `लशक्लतद्धित' इति इत्त्वं, लोपः। ङकारोच्चारणं तु `ङिति ह्यस्वश्चे'त्याद्यर्थम्। `टाङसिङसा'मिति स्यादेशं सिद्धवत्कृत्याह–रामस्येति। नन्विह सकारस्यानचि चेति द्वित्वे पूर्वसकारस्य `खरि चे'ति चर्त्वेन दन्तस्थानतो।ञन्तरतमे तकारे सति रामत्स्येति स्यादित्यत आह–सस्य द्वित्वेति। स एवेति। सकार एवेत्यर्थः। `एव'कारव्यावर्त्त्यमाह–नतु तकार इति। ननु दन्तस्थानतः \उfffदाआसाघोषविवारात्मकबाह्रप्रयत्नश्चान्तर्यं तकारे।ञप्यविशिष्टमित्यत आह–अल्पप्राणतयेति। सकारः स्थानी महाप्राणः। तकारस्तु अल्पप्राणः। अतो बाह्रप्रयत्नभेदात्तकारो न भवति। इदमुपलक्षणम्, आभ्यन्तरप्रयत्नभेदादपि सकारस्य तकारो भवतीति द्रष्टव्यम्। अत एवेति। `वस निवासे' इत्यदिधातोर्वत्स्यतीत्यादौ सकारस्य सकारे परे तकारो विधीयते यदि तु त्र खरि चेति सकारस्य तकारः स्यात्तर्हि तद्विधानमनर्थकं स्यादित्यर्थः।

तत्त्वबोधिनी

172 जश्त्वं वावसान इति। अत्राहुः–जश्त्वे कृतेऽवसाने चत्र्वमिति न मन्तव्यं, किंतु येननाप्राप्तिन्यायेन अवसाने चत्र्वस्य जश्त्वापवादत्वाच्चत्र्वाऽभावपक्षे जश्त्वमिति योज्यमिति। द्वित्व इति। `अनचि चे'त्यनेन। `अनचीति प्रसज्यप्रतिषेध' इति प्रागेवोक्तम्। पर्युदासाभ्युपगमे तु इह द्वित्वं न स्यात्। तादेश आरभ्यत इति। वत्स्यतीत्यादौ चर्त्वेन तकारो न लभ्यत इति `सः स्याद्र्धधातुके' इत्यनेन सकारस्य तकारो विधीयत इत्यर्थः।

Satishji's सूत्र-सूचिः

26) वावसाने 8-4-56

वृत्ति: अवसाने वर्तमानानां झलां वा चरादेशो भवति । A झल् letter is optionally replaced by a चर् letter when nothing follows. (As a convention, in classical Sanskrit, the चर् substitution always takes place.)

गीतासु उदाहरणम् – श्लोकः bg2-29

कश्चित् (at the end of the verse) can be written as कश्चित् or कश्चिद् (by 8.2.39) but as a convention it will be generally written as कश्चित् only.