Table of Contents

<<6-1-67 —- 6-1-69>>

6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्

प्रथमावृत्तिः

TBD.

काशिका

लोप इति वर्तते। तदिह लौकिकेन अर्थवत् कर्मसाधनं द्रष्टव्यम्। लुप्यते इति लोपः। हलन्ताद्, ङ्यन्तादाबन्ताच् च दीर्घात् परं सु ति सि इत्येतदपृक्तं हल् लुप्यते। हलन्तात् सुलोपः राजा। तक्षा। उखास्रत्। पर्णध्वत्। ङ्यन्तात् कुमारी। गौरी। शार्ङ्गरवी। आबन्तात् खट्वा। बहुराजा। कारीषगन्ध्या। हलन्तादेव तिलोपः सिलोपश्च। तत्र तिलोपस्तावत् अबिभर् भवात्। भृञो लङि तिपि श्लौ भृञामितित्यभ्यासस्य इत्त्वम्। अजागर् भबान्। सिलोपःअभिनो ऽत्र अच्छिनो ऽत्र। दस्य रेफः। हल्ङ्याब्भ्यः इति किम्? ग्रामणीः। सेननीः। दीर्घातिति किम्? निष्कौशाम्बिः। अतिखट्वः। सुतिसि इति किम्? अभैत्सीत्। तिपा सहचरितस्य सिशब्दस्य ग्रहणात् सिचो ग्रहणं न अस्ति। अपृक्तम् इति किम्? भिनत्ति। छिनत्ति। हलि इति किम्? बिभेद। चिच्छेद। अथ किमर्थं हलन्तात् सुतिसिनां लोपो विधीयते, संयोगान्तलोपेन एव सिद्धम्? न सिध्यति। राजा, तक्षा इत्यत्र संयोगान्तलोपस्य असिद्धत्वान् नलोपो न स्यात्। उखास्रत्, पर्णध्वतित्यत्र अपदन्तत्वाद् दत्त्वं च न स्यात्। अभिनो ऽत्र इत्यत्र अतो रोरप्लुतादप्लुते 6-1-113 इत्युत्त्वं न स्यात्। अबिभर् भवानित्यत्र तु रात् सस्य 8-3-24 इति नियमाल् लोप एव न स्यात्। संयोगान्तस्य लोपे हि नलोपादिर् न सिध्यति। रात्तु ते न एव लोपः स्याद् धलस् तस्माद् विधीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

179 हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते..

बालमनोरमा

250 हल्ङ्याब्भ्यो। हल् च ङीच आप् चेति द्वन्द्वः। दिग्योगे पञ्चमी। परमित्यध्याहार्यम्। समासैकदेशयोरपि ङ्यापोरेव दीर्घादिति विशेषणं, न तुहलः, असम्भवात्। एवं च दीर्घादिति द्वित्वे एकवचनमार्षम्। `हल्ङ्याब्भ्य' इत्यस्य सुतिस्याक्षिप्तप्रकृतिविशेषणतया, प्रत्ययग्रहणपरिभा,या च तदन्तविधिः। ततश्च हलन्ताच्च दीर्घङ्याबन्ताच्च परमिति लब्धम्। `सुतिसि' इति समाहारद्वन्द्वः। अपृक्तमिति हलिति च सामानाधिकरण्येनान्वेति। उकारे इकारे च लुप्ते परिशिष्टः सकारस्तकारश्च सुतिसि इत्यनेन विवक्षितः। ततश्च हलित्यनेन सामानाधिकरण्यं न विरुध्यते। `लोपोः व्योः' इत्यतो लोप इत्यनुवर्तते। तच्चेह कर्मसाधनमाश्रीयते। लुप्यते इति लोपः। क्रमणि घञ्। तदाह–हलन्तात्परमित्यादिना। हल्ङ्याब्भ्यः किमिति। `राम' इत्यादावदीर्घान्तत्वान्नदोष इति प्रश्नः। ग्रामणीरिति। ग्रमां नयतीति विग्रहः। `णीञ् प्रापणे'। `सत्सूद्विषे'त्यादिना क्विप्। `अग्रग्रमाभ्यां नयतेर्णो वाच्यः' इति णत्वम्। हल्ङ्याबन्तत्वाऽभावान्न सुलोपः। दीर्घात्किमिति। ङ्यापोर्दीर्घत्वाऽव्यभिचारात्किमर्थं दीर्घत्वविशेषणमिति प्रश्नः। निष्कौशाम्बिः अतिखट्व इति। निष्क्रान्तः कौशाम्ब्याः, खट्वामतिक्रान्त इति विग्रहे `निरादयः क्रान्ताद्यर्थे पञ्चम्या' `अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति समासः। `गोस्त्रियोः' इति ह्यस्वत्वम्। अत्र ह्रापोह्र्यस्वत्वान्न सुलोपः। अभैत्सीदिति। भिदेर्लुङि सिच्। अत्र तकारात्परस्य सकारस्य लोपो न, सुतिस्यन्यतमत्वाऽभावादित्यर्थः। ननु सिचस्सिरेवायमित्यत आह–तिपेति। तिपा सहचरितस्य विभक्तिरूपस्यैव ग्रहणात्सिचो ग्रहणं नेत्यर्थः। विभर्तीति। अत्र तीति समुदायस्य न हल्त्वम्। तकारस्तु यद्यपि तेरवयवो हल्, तथापि तस्य नाऽपृक्तत्वम्। वस्तुतस्तु उकारे इकारे च लुप्ते परिशिष्टः सकारस्त कारश्च सुतिसीत्यनेन गृह्रते, हल्शब्दसामानाधिकरण्यादित्युक्तम्। नात्र इकारलोपोऽस्ति। अतो हल्ग्रहणेनैव विभर्तीत्यत्र लोपाऽभावासिद्धेरपृक्तग्रहणस्य नेदं प्रत्युदाहरणम्। द्वितीयहल्ग्रहणस्य प्रयोजनं पृच्छति–हल् किमिति। तिप् णल्। णलोऽकारस्य हल्त्वाऽभावान्न लोपः। प्रथमहल् किमिति। राजन् स् इति स्थिते उपधादीर्घे संयोगान्तलोपेनैव राजेत्यादिसिद्धेरिति प्रश्नः। नन्विदं राजेति कथं प्रत्युदाहरणं, संयोगान्तलोपेनैव अन्यथासिद्धत्वादित्यत आह–नलोपादिर्न स्यादिति। संयोगान्तलोपे सति नलोपो न स्यादिति भावः। `अभिनोऽत्रे'त्यत्र उत्वमादिशब्दार्थः। भिदेर्लङि सिप्। `इतश्चे 'तीकरलोपः। `सिपि धातो रूर्वे'ति रुत्वम्। सलोपः। अत्र `अतोरोरप्लुता'दित्युत्वं न स्यात्। कुत इत्यत आह–संयोगान्तलोपस्यासिद्धत्वादिति। हल्ङ्यादिलोपस्तु नासिद्धः, षष्ठप्रथमपादस्थत्वादिति भावः। अत्र क्वचित्पुस्तकेषु `दीर्घात्किमित्यारभ्य संदर्भस्य प्रदर्शितत्वादिति शब्देन्दुशेखरे व्यक्तम्। सखेति। सुलोपे सति `न लोपः' इति नकारलोपः। नचेह `सु'माश्रित्य अनङि कृते तन्नकारमाश्रित्य सोर्लोपो न संभवति, संनिपातपरिभाषाविरोधादिति वाच्#ं, `स्वतन्त्रः कर्ता' इत्यादिनिर्देशेनाऽनङो नकारमाश्रित्य सुलोपे कर्तव्येसन्निपातपरिभाषाया अप्रवृत्तेरित्याहुः। हे सखे इति। `अनङ् सौ' इत्यत्र असम्बुद्धावित्यनुवृत्तेरनङभावे ह्वस्वस्य गुणे `एङ्ह्यस्वा'दिति सुलोपे रूपम्।

तत्त्वबोधिनी

211 हल्ङ्याब्भ्यो। `दीर्घा'दित्येतन्ङ्यापोरेव विशेषणं न तु हलोऽसंभावदित्याहदीर्घौ याविति। परमिति। न त्विदं `यः'`स' इत्यादावतिव्याप्तेः। `कर्ता'`सखे'त्यादावव्याप्तेश्च। यद्यपि त्यदाद्यत्वविधौ `विभक्ता'वित्यस्य विषयसप्तमीत्वे स्वीकृते `या' `से' त्यादौ नोक्तदोषः, सुविभक्तेराबन्ताद्विहितत्वस्य संभवात्। तथा अनङ्विधौ सावित्यस्य विषयसप्तमीत्वे `कर्ता'`सखे'त्यादावपि न दोषः, हलन्ताद्विहितस्य सोः सम्भवात्तथापि `बहुश्रेयसो त्यत्राऽव्यप्तिप्रसङ्ग इथि भावः। हलिति। तस्य सुतिसीत्येवंरूत्वमेकादेशविकृतन्यायेन बोध्यम्। लुप्यत इति। यद्यपीह `लोपो व्योर्वली'त्यतो `लोप' इत्यनुवर्तते, तच्च तत्र भावसाधनं, तथापीह कर्मसाधनं, `ह'लिति प्रथमान्तेन सामानाधिकरण्यादिति भावः। निष्कौशाम्बिः। अतिखट्व इति। प्रादिसमासे `गोस्त्रियो'रिति ह्यस्वः नन्विह समस्तस्य ङ्यबन्तत्वं नास्ति, न च स्त्रीप्रत्यये तदादिनियमो नास्तीति वाच्यम्, अनुपर्जने हि तथा, इह तूपसर्जनत्वात्तदादिनियमोऽस्त्येव। अन्यथा `अतिकारीषगन्ध्यापुत्र'इत्यत्र ष्यडन्तपूर्वपदलक्षणसंप्रसारणप्रसङ्गात्। सत्यम्। तथाप्युत्तरपदस्य ङ्याबन्तत्वेन सोस्ततः परत्वाऽनपायाद्दीर्घग्रहणाऽभावे सुलोपः स्यादेव। नहीदं ङ्याब्ग्रहणं विहितविशेषणमित्यधुनैवोक्तम्। स्यादेतत्। गङ्गामात्मन इच्छति गङ्गीति। ततः क्किपि अल्लोप च `गङ्गीः'। इह ईकारस्य स्थानिवद्भावेनाप्त्वाद्दीर्घत्वाच्चाऽतिव्याप्तिः। नचाऽल्लोपस्य स्थानिवत्त्वात्सोरापः परत्वं नेति शङ्क्यम्।`क्कौ लुप्तं न स्थानिव'दिति निषेधादिति चैन्मैवम्, ङी-ई आ-आबिति पश्लिष्य दीर्घग्रहणस्य प्रत्याख्यातत्वेन प्रकृते आकाररूपस्य आपोऽभावादुक्तातिप्रसङ्गाऽभावात्। निष्कौशाम्बीयतेः क्किपि तु `निष्कौशाम्वी'ति भवत्येव, ईकाररूपङीबन्तत्वेन सुलोपप्रवृत्तेः। अपृक्तं किं बिभर्तीति। इदं च पत्र्यदाहरणं चित्यं, विशिष्टस्याऽहल्वात्। `सुतिसीनां ह'लिति क्लिष्टं व्याख्यायाऽतिप्रसङ्गापादमस्यानुचितत्वात्। यत्तु व्याचख्युः–`सुरां' सुनोतीति सुरासुत्, तमाचष्टे सुरासयति, ततः किप्–सुराः। सुरासौ।सुरासः। इह सुनोतेरवयवस्य सस्य लोपं व्यवर्तयितुमप्टक्तग्रहण'मिति। तदपि चिन्त्यम्। परस्परसाहचर्येण सुतुसीनां विभक्तिनामेव ग्रहणात्। अन्यथा सिचो लोपापत्तेरुक्तत्वात्। प्रत्ययाऽप्रत्याययोः प्रत्ययस्यैव ग्रहणाच्च। यत्तु `तित्स्वरित'मिति सूत्रे कैयटेनोक्तं-`न क्वचिदियं परिभाषा भाष्यवातिककाराभ्यामाश्रिते'-ति, तद्रभसात्।`अङ्गस्ये'ति सूत्रे भाष्यादौ तस्याः पठितत्वात्स स्वयमपि तत्र व्याख्यातत्वाच्च। संयोगान्तलोपस्यासिद्धत्वादिति।ननु संयोगान्तलोपो नाऽसिद्धः, `न ङिसंबुज्द्यो'रिति सूत्रे संबुद्धिग्रहणाज्ज्ञापकात्। न चैवं `गोमा'नित्यादावपि नलोपापत्तिः, ज्ञापकस्य विशेषविषयत्वात्। यत्र हि नकारविभक्त्योरानन्तर्यं तत्रैव सिद्धत्वं, व्याख्यानात्। यत्त्वाहुः-`हे ब्राहृआन्निति नपुंसकार्थत्वान्नैतज्ज्ञापक'मिति, तन्न, लुका लुप्ते प्रत्ययलक्षणाऽभावात्। `संबुद्धौ वा नपुंसकाना' मित्यस्यावश्यकत्वाच्च। समबुद्धिग्रहणस्य नपुंसकविषयत्वाऽसंभवेनोक्तज्ञापकस्य सुस्थत्वात्। तस्मान्नलोपो न प्रयोजनमिति चेदिह तर्हि `अभिनोऽत्रे'त्यत्र रोरुत्वं न स्यात्। सिपि `दश्चे'ति रुत्वे विभक्तिसकारस्य संयोगान्तलोपे तस्याऽसिद्धात्वात्। तथा `अबिभर्भवान्'`अजागर्भवा'नित्यत्र तिलोपो न स्यात्, `रात्सस्ये'ति नियमात्।तदुक्तम्-`संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति। रात्तु कतैर्नैव लोपः स्याद्धलस्तस्माद्विधीयते'इतिष नलोपादिरित्यादिशब्देनोत्त्वं सङ्गृह्रते। अत्रेदमवधेयम्-ङ्याब्ग्रहणं सोर#एव विशेषणं न तु तिस्योः, व्याख्यानात्, तेन मालेवाचरत्-अमलात्। गङ्गेवाचरत्-अगङ्गादित्यत्र नातिप्रसङ्गः। तथा च `हलन्तात्परं सुतिसीत्येतदपृक्तं हल्लुप्यते, दीर्घौ यौ ङ्यपौ तदन्तात्परं `सु' इत्येतदपृक्तं हल्लुप्यते'इति वाक्यार्थोऽत्र पर्यवसन्नः। यत्तु व्याचख्युः-ङ्याब्भ्यां तिस्योरसंभव एवेति, तत्र `ङ्यन्तादसंभव'इति सत्यम्। आबन्तात्तु आचारक्किबन्ताल्लङस्तिप्सिपौ स्त एव। `अगङ्गात्'`अगङ्गा इति यथा। न च शपा व्यवधानम्, एकादेशस्य पूर्वान्तत्वेन ग्रहणात्। न च स्थानिवद्भावः, अपूर्वविधित्वात्। अन्ये त्वाहुः–ङ्याब्ग्रहणमसंभवादेव तिस्योर्विशेषणं न भवतीति यदुक्तं तत्सम्यगेव। नच अगङ्गादगङ्गा इत्यत्र संभवोऽस्तीत्युक्तमिति वाच्यं, तत्र स्थानिभूतस्य शपः पूर्वस्मान्निमित्तभूतादापः परयोस्तिस्योर्लोपे कर्तब्ये स्थानिवद्भावेन शपा व्यवधानात्तिस्योलौपस्याऽप्रसक्तेः। न च फलाऽभावात्पञ्चमीसमासपक्षे न स्वीक्रियत इत्यपि वाच्यं, तत्प्रयोजनस्य प्रागेव प्रदर्शितत्वादिति। सखेति। समानं ख्यायते जनैरिति `सखा'। `ङिच्च' `यलोप' इति चानुवर्तमाने `समाने ख्यः स चोदात्तः'इति ख्या इत्यस्मादिण्, समानशब्दस्योदात्तः, सभावश्च। न चेह सुविभक्तिसंनियोगेन सखिशब्दस्यानङि कृते संनिपाकपरिभाषाया `हल्ङ्या'बिति सुलोपो न भवतीति शङ्क्यम्, `स्वतन्त्रः कत्र्ते'त्यादिनिर्देशेनाऽनङो नकारमाश्रित्य सुलोपे कर्तव्ये तत्परिभाषाया अप्रवृत्तेः।

Satishji's सूत्र-सूचिः

93) हल्ङ्याब्भ्यो दीर्घात् सुँतिस्यपृक्तं हल् 6-1-68

वृत्ति: हलन्तात् परम्, दीर्घौ यौ ङ्यापौ तदन्ताच्च परम्, ’सुँ-ति-सि’ इत्येतद् अपृक्तं हल् लुप्यते । A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”।

गीतासु उदाहरणम् – श्लोकः bg11-44

Continuing from above example: सखान् + स् = सखान्