TBD.
ॠकारान्तस्य धातोः अङ्गस्य इकारादेशो भवति। किरति। गिरति। आस्तीर्णम्। विशीर्णम्। धातोः इति किम्? पितॄणाम् । मातॄणाम् । लाक्षणिकस्य अप्यत्र ग्रहणम् इष्यते। चिकीर्षति इत्यत्र अपि यथा स्यातिति धातुग्रहणं क्रियते।
TBD.
663 ॠदन्तस्य धातोरङ्गस्य इत्स्यात्. किरति. चकार. चकरतुः. चकरुः. करीता, करिता. कीर्यात्..
227 ऋत इद्धातोः। `ॠत' इतिधातोर्विशेषणम्। तदन्तविधिः। अङ्गस्येत्यधिकृतम्। तदाह– ॠदन्तस्येति। धातोः किम् ?। मातृ?णाम्। तथा च तरति, पिपर्ति, ततार पपारेत्यादौ ॠकारस्य शपि तिपि णलि च परे गुणवृद्धी बाधित्वा अन्तरङ्गत्वादित्त्वमुत्त्वं च स्यादिति शङ्का प्राप्ता। तां परिहर्तुमाह— इत्त्वोत्त्वाभ्यामिति। ल्यब्लोपे पञ्चमीद्विवचनम्। `ॠत इद्धातो'रिति इत्त्वम्, `उदोष्ठ\उfffद्पूर्वस्य' इति उत्त्वमन्तरङ्गमपि बाधित्वा गुणवृद्धी विप्रतिषेधसूत्रेण परत्वात्स्यातामिति भावः। तरतीति। णलि ततार। अतुसादौ ददवादिगुणाना'मिति निषेधमाशङ्क्याह– तृ?फलेति। तेरतुः तेरुरिति। तेरिथ तेरथुः तेर। ततार–ततर तेरिव तेरिम।
199 ऋत इद्धातोः। किरति। गिरति। कीर्णः। गीर्णः। स्तीर्णः। धातोः किम् ?। मातृ?णाम्। \र्\नित्त्वोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन। इत्त्वोत्त्वाभ्यामिति। `परत्वाद्गुणवृद्धी भवत' इति वक्तव्ये। किमिदं वार्तिकमिति चेत्। अत्राहुः— परादप्यन्तरङ्गं प्रबलमितीत्त्वे प्राप्ते वार्तिकमिदमारब्धमिति।
407) ॠत इद्धातोः 7-1-100
वृत्तिः ॠदन्तस्य धातोरङ्गस्य इत्स्यात् । The ending ॠकारः of a verbal root that has the अङ्ग-सञ्ज्ञा is substituted by इकारः।
उदाहरणम् – पिपूर्तः (√पॄ, जुहोत्यादि-गणः, पॄ पालनपूरणयोः, धातु-पाठः #३. ४) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।
पॄ + लँट् 3-2-123 = पॄ + ल् 1-3-2, 1-3-3
= पॄ + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= पॄ + शप् + तस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= पॄ + तस् 2-4-75 = पॄ + पॄ + तस् 6-1-10
= पिर् + पॄ + तस् 7-4-77, 1-1-51 = पि + पॄ + तस् 7-4-60. Since the प्रत्यय: “तस्” is a सार्वधातुक-प्रत्यय: that is अपित् (does not have पकार: as an इत्), it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4. Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
Now, by 7-1-100, the ending ॠकारः of the अङ्गम् “पिपॄ” should have been substituted by इकारः। But instead the special rule 7-1-102 (below) applies. 7-1-102 is a अपवादः (exception) to 7-1-100 ॠत इद्धातोः।
उदाहरणम् – continued below