Table of Contents

<<7-1-101 —- 7-1-103>>

7-1-102 उदोष्ठ्यपूर्वस्य

प्रथमावृत्तिः

TBD.

काशिका

ओष्ठ्य पूर्वो यस्मादॄकारातसौ ओष्ठ्यपूर्वः, तदन्तस्य धातोरङ्गस्य उकारादेशो भवति। पूर्ताः पिण्डाः। पुपूर्षति। मुमूर्षति। सुस्वूर्षति। दन्त्योष्ठ्यपूर्वो ऽप्योष्ठ्यपूर्वो भवति इत्यत्र अपि भवति, वुवूर्षति ऋत्विजम्, प्रावुवूर्षति कम्बलम्। ओष्ठ्यो ह्यत्र प्रत्यासत्तेरङ्गावयव एव गृह्यते, तेन ऋ\उ0304 गतौ इत्यस्य सम्पूर्वस्य समीर्णम् इति भवति। इत्त्वोत्त्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन। आस्तरणम्। आस्तारकः। निपरणम्। निपारकः। निगरणम्। निगारकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

614 अङ्गावयवौष्ठ्यपूर्वो य ॠत् तदन्तस्याङ्गस्य उत् स्यात्..

बालमनोरमा

324 उदोष्ठ\उfffद्। `ऋत इद्धातो'रित्त ऋत इत्यनुवर्तते। अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्तते। एकमवयवषष्ठ\उfffद्न्तमोष्टयस्य विशेषणम्। अपरं तु ऋता विशेष्यते। तदन्तविधिः। तदाह–अङ्गावयववौष्ठ\उfffदेत्यादिना। अङ्गावयवेति किम् ?। समीर्णः। `ऋ गतौ' क्र्यादिः। तस्मात्संपूर्वात् क्तप्रत्यये `\त्श्र्युकः किती'तीण्निषेधे `ऋत इद्धातो'रिति इत्त्वे रपरत्वे `हलि चे'ति दीर्घे `रदाभ्या'मिति निष्टानत्वे तस्य णत्वे समीर्ण ति रूपम्। तत्र मकारात्मकौष्ट\उfffद्पूर्वत्वादित्त्वं बाधित्वा उत्त्वं स्यात्। `अङ्गावयवे'त्युक्तौ तु मकारस्य ओष्ठ\उfffद्स्य अङ्गावयवत्वाऽभावादुत्त्वं न भवति। तथा च प्रकृतेऽपि पृ?तीत्यत्र इदमुत्त्वं स्यादिति शङ्का प्राप्ता। तां परिहरति- - गुणवृद्धी इति। इममिति। उत्त्वविधिमित्यर्थः। पिपर्तीति। उत्त्वात्परकत्वाद्गुण इति भावः। पिपृ? तस् इति स्थिते आह—उत्त्वमिति। ङित्त्वेन गुणाऽभावादुदोष्ठ\उfffदेत्युत्त्वमिति भावः। पिपुरतीति। अभ्यस्तत्वाददादेशे ङित्त्वाद्गुणाऽऽभावादुत्त्वमिति भावः। पिपर्षि पिपूर्थ। पिपर्मि पिपूर्वः। पिपूर्मः। लिटि णल्याह– पपारेति। उत्त्वात्परत्वाद्वृद्धिरिति भावः। `अर्तिपिपत्र्योश्चे'त्यभ्यासस्य नेत्त्वम्, तत्र श्लावित्यनुवृत्तेः। प्राप्ते इति। गुणे नित्यं प्राप्ते इत्यर्थः।

तत्त्वबोधिनी

280 उदोष्ठ\उfffद्। अह्गावयवेति किम् ?। `ऋ गतौ' क्र्यादिस्तस्मात् क्तप्रत्यये `श्र्युकः किती'ति इण्निषेधात्समीर्ण इति भवति। अन्यथा तु `समूर्ण' इति स्यात्।

Satishji's सूत्र-सूचिः

408) उदोष्ठ्यपूर्वस्य 7-1-102
वृत्तिः अङ्गावयवौष्ठ्यपूर्वो य ॠत् तदन्‍तस्‍याङ्गस्‍य उत् स्‍यात् । The ending ॠकारः of an अङ्गम् is substituted by उकारः, when preceded by a labial consonant (औष्ठ्य-वर्णः) belonging to the अङ्गम्।

उदाहरणम् – continued from above

पि + पॄ + तस् = पि + पुर् + तस् 7-1-102, 1-1-51
= पि + पूर् + तस् 8-2-77 = पिपूर्तः 8-2-66, 8-3-15