Table of Contents

<<7-1-98 —- 7-1-100>>

7-1-99 अम् सम्बुद्धौ

प्रथमावृत्तिः

TBD.

काशिका

सम्बुद्धौ परतश्चतुरनडुहोः अम् आगमो भवति। पूर्वस्य अयम् अपवादः। हे प्रियचत्वः। हे प्रियानड्वन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

262 हे अनड्वन्. हे अनड्वाहौ. हे अनड्वाहः. अनडुहः. अनडुहा..

बालमनोरमा

ननु अनड्वान् ह् सित्यत्र सुलोपे संयोगान्तलोपे च कृते नकारस्य प्रातिपदिकान्तत्वात्पदान्तत्वाच्च `न लोपः प्रातिपदिकान्तस्ये'ति नलोपः किं न स्यात्। नच नुम्विधिसामथ्र्यान्नात्र नलोप इति वाच्यं, नलोपाऽभावस्थले संबुद्धौ `हे अनड्व'नित्यत्र नुग्विधेश्चारितार्थत्वात्। तत्र ` न ङसंबुद्ध्यो'रिति नलोपप्रतिषेधादित्यत आह-समयोगान्तेति। हकारलोपस्याऽसिद्धत्वे सति नकारस्य प्रातिपदिकान्तत्वाऽभावात्पदान्तत्वाऽभावाच्च नलोपो नेत्यर्थः। अनड्वानिति। अनुडुह् सिति स्थिते, आम् यण्, नुम्, सुलोपः, संयोगान्तलोपश्च। अथ संबुद्धौ हे अनडुह् सिति स्थिते चतुरनडुहोरित्यामागमे प्राप्ते–अम्संबुद्धौ। `चतुरनडुहोः' इत्यनुवर्तते। तदाह–चतुरनडुहोरिति। अमो मकार इत्। मित्त्वादन्त्यादचः परः। हे अनड्विन्निति। अम्, यण्, नुम्, सुलोपः, संयोगान्तलोपश्च। अनड्वाहाविति। सर्वनामस्थानत्वादाम्। नुम् तु न, तस्य सावेव विधानात्। अनडुह इति। शसादावचि अविकृत एवानडुहशब्द इति भावः।

तत्त्वबोधिनी

293 अमा चेति। `विशेषबिहितेनाऽपी'त्यनुषज्यते। `आमा च नुम्न बाध्यते'इति केचित्पठन्ति। तस्याययर्थः–`बह्वनङ्वांही'त्यत्र परत्वादामि कृते पुनःप्रसङ्गविज्ञानात् `नपुंसकस्य झलचः'इति नुम्भवत्येव, न तु बाध्यत इथ। नुमो दत्वमाशङ्क्याह–नुम्विधिसामथ्र्यादित्यादि। विधानसामथ्र्यात्सर्वत्राऽविकृतेन नुमा भवितव्यमिति भावः। नन्वेवमनङ्वास्तत्रेत्यत्र `नश्छवू'ति रुत्वमपि न स्यादिति चेदत्राहुर्भाश्यकाराः—`यं विधिं प्रतुयपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमित्तमेव, नासौ बाध्यते'इति। भवति हि दत्वं प्रति नुमो विधिरनर्थकः, रुत्वं प्रति तु निमित्तमेवेति। अनङ्वानिति। अनः शकटं वहतीति विग्रहे अनसि वहेः क्विप्। अनसो डश्च। यजादित्वात्संप्रसारणम्। अनडुह्—स् इति स्थिते आम्रुम्सुलोपेषु कृतेषु संयोगान्तलोपेन हकारलोपः।

Satishji's सूत्र-सूचिः

176) अम् सम्बुद्धौ 7-1-99

वृत्ति: चतुरनडुहोरम् स्यात्सम्बुद्धौ। When a सम्बुद्धिः affix follows, चतुर् and अनडुह् get the अम् augment.