Table of Contents

<<7-1-100 —- 7-1-102>>

7-1-101 उपधायाश् च

प्रथमावृत्तिः

TBD.

काशिका

उपधायाश्च ऋ\उ0304कारस्य इकारादेशो भवति। कीर्तयति, कीर्तयतः, कीर्तयन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

399 उपधायाश्च। `ऋत इद्धातो'रित्यनुवर्तते। तदाह – धातोरित्यादिना। चङि `उरृ'दित्युपधाया ऋत्त्वपक्षे आह – अचीकृतदिति। उपधाया ऋत्त्वे कृदित्यस्य द्वित्वे उरदत्त्वे लघुपरतया सन्वत्त्वादित्त्वे `दीर्घो लघो'रिति दीर्घं इति भावः। ऋत्त्वाऽभावपक्षे आह– अचिकीर्तदिति। ॠत इत्त्वे रपरत्वे `उपधायां च' इति दीर्घे कीर्दित्यस्य द्वित्वे हलादिशेषे अभ्यासह्यस्वे चुत्वमिति भावः। लघु परकत्वाऽभावेन सन्वद्भावविषयत्वाऽभावान्नाऽभ्यासदीर्घः। `आकुस्मा'दित्यत्र आङभिविधाविति मत्वाह – तमभिव्याप्येति। ननु `णिचश्चे'ति सिद्धे आत्मनेपदविधानं व्यर्थमित्यत आह - अकर्तृगामीति। ननु `दशि दंशने' णिजभावे `दंशती'ति कथम्। आकुस्मीयत्वेन णिजभावेऽपि तङो दुर्वारत्वादित्यत आह – आकुस्मीयमिति। `दंशसञ्जस्वञ्जां शपी'ति नलोपमाशङ्क्य आह– नलोपे सञ्जीति। स्पश ग्रहणेति। अपस्पशत। `अत्स्मृदृ?त्वरे'ति अभ्यासस्य अत्त्वम्– इत्त्वापवादः। गूर उद्यमने। अयं दीर्घोपधः। गूरयते। तदादौ तु `गुरी उद्यमने' इति ह्यस्वोपधः। दिवदौ तु `धूरी, गूरी हिंसागत्यो'रिति दीर्घोपध एवेति केचित्। ह्यस्वोपध इत्यन्ये। विदधातोरर्थभेदे विकरणभेदं सङ्गृह्णाति– सत्ताया#ं विद्यतेइत्यादिश्लोकेन। कुस्म नाम्नो वा। गणसूत्रम्। `कुस्मे'ति पृथक्पदमविभक्तिकम्.तदाह – कुस्म इति धातुरिति। `कुत्सितस्मयने वर्तते' इति शेषपूरणं, व्याख्यानादिति भावः। णादिति भावः। अचुकुस्मतेति। उकारस्य गुरुतया अभ्यासस्य लघुपरकत्वाऽभावान्न सन्वत्त्वमिति भावः। `नाम्नो गृह्रते, प्रत्यासत्त्या। तथा चकुस्मेति धातोः, कुस्मेतिप्रातिपदिकाद्वा णिजिति फलितम्। तत्रधातोर्णिचः स्वार्थिकत्वमभिप्रेत्य प्रातिपदिकाण्णिचि विशेषमाह– ततिति। तस्मात् = प्रातिपदिकादित्यर्थः। धात्वर्थे इति। करोतीत्यर्थे, आचष्टे इत्यर्थे वेत्यर्थः। नच `तत्करोति तदाचष्टे' इत्येव प्रातिपदिकाण्णिच् सिद्ध इति वाच्यम्, `आकुस्मादात्मनेपदिनः' इत्यात्मनेपदनियमार्थत्वात्। इत्याकुस्मीयाः। शब्द उपसर्गादिति। उपसर्गात्परः शब्दधातुराविष्कारे वर्तते इत्यर्थः। अनुपसर्गाच्चेति। अनुपसर्गात्परोऽपि शब्दधातुर्णिचं लभते इत्यर्थः। `आविष्कारे'इत्यस्यैवानुवृत्त्यर्थं पृथगुक्तिः। `शब्द आविष्कारे चे'त्येतावत्येवोक्ते अनुपसर्गाद्भाषणेऽपि स्यात्। तदाह– आविष्कारे इत्येवेति। काण्यादीनामिति। इदं वार्तिकं भ्राजभासभाषे'ति सूत्रे भाष्ये पठितम्। `काणिराणिश्रणिभणिहेठिलोपयः षट्काण्यादयः' इत भाष्यम्। अचीकणदिति। ह्यस्वत्वपक्षे लघु परकत्वादभ्यासस्य सन्वत्त्वमिति भावः। शशपोरिति। शविकरणे, शब्विकरणे चेत्यर्थः। हन्त्यर्थाश्चेति। गणसूत्रमिदम्। हन हिंसागत्योरिति हनधातोर्हिंसा गमनं चार्थः। एतदर्थका ये धातवो भ्वादिषु नवसु गणेषु पठितास्ते सर्वेऽपि चुरादौ पठिताः प्रत्येतव्या इत्यर्थः। ततश्च तेभ्यः स्वार्थे णिजपि पक्षे भवतीति फलितम्। तदाह - - नवगण्यामित्यादि। दिवु मर्दने। उदित्तवादिति। उदित्करणम्। `उदितो वे'ति क्त्वायामिड्विकल्पार्थम्। द्यूत्वा देवित्वा। इडभावे ऊठ्। इटि तु – `न क्त्वा से'डिति कित्तवनिषेधाद्गुण इति स्थितिः। अस्य नित्यण्यन्तत्वे सति णिचा व्यवहितत्वेन क्त्वयामिड्विकल्पस्य अप्रसक्तेरुदित्करमं व्यर्थं सज्ज्ञापयति अस्य दिवुधातोर्णिज्विकल्प इतीति भावः। घुषिर् विशब्दने। विशब्दनं = शब्देन स्वाभिप्रायाविष्करणं, प्रतिज्ञानं च। भ्वादौ त्वयं धातुरविशब्दनार्थकः पठितः। घोषयतीति। शब्देन स्वाभिप्रायमाविष्करोतीत्यर्थः, प्रतिजानीते इति वा। लिङ्गादिति। इण्निषेधप्रकरणे `घुषिर् अविशब्दने' इति सूत्रम्। अविशब्दनार्थकाद्धुषधातोर्निष्ठ\उfffदामिण्न स्यादित्यर्थः। यथा –`घुष्टा रज्जुः'। प्रसारितेत्यर्थः। अविशब्दने इति किम् ?। अवघुषितं वाक्यम्। प्रतिज्ञातमित्यर्थः। अत्र विशब्दनार्थकत्वान्नेण्निषेध इति स्थितिः। तत्र विशब्दनार्थकस्य घुषदातोश्चौरादिकत्वेन ण्यन्तत्वनियमाण्णिचा व्यवधानात्ततः परा निष्ठा नास्त्येवेतीण्निषेधे विशब्दनपर्युदासो व्यर्थः सन् चौरादिकस्याऽस्य विशब्दनार्थकस्य घुषेर्णिचो विकल्पं गमयति। एवं च `अवघुषितं वाक्य'मित्यत्र चौरदिकघुषेर्विशब्दनार्थकस्य निष्ठायामिण्निषेधो नेति भाष्ये स्पष्टम्। इरित्त्वादङ् वेति। `णिजभावपक्षे'इति शेषः। ननु इरित्त्वादेव णिजविकल्पे सिद्धे `घुषिरविशब्दने' इति इण्निषेधसूत्रे `अविशब्दने' इति पर्युदासास्य णिज्विकल्पज्ञापकत्वाश्रयणक्लेशो भाष्ये व्यर्थ इति चेन्न, अत एव भाष्यादिरित्त्वाऽभावविज्ञानात्। एवं च `घुषिर् विशब्दने' इत्यत्र `घुषी'रित्यस्य इका निर्देशमाश्रित्य प्रथमान्तत्वमेवाश्रयणीयम्। `इरित्त्वादङ्वे'ति मूलं तु भाष्यविरोधादुपेक्ष्यमेवेत्यास्तां तावत्। आङः क्रन्द सातत्ये इति। आङः परः क्रन्ददातुराह्वानसातत्येऽर्थे णिचं लभते इत्यर्थः। यद्वा `आह'इत्यनन्तरं `घुषि' रित्यनुवर्तते। `क्रन्दसातत्ये' इत्यर्थन#इर्देशः। तदाह – अन्ये त्विति। लस शिल्पयोगे इति। कौशले इत्यर्थः। तसि भूषेति। अत्र तसिः प्रायेण अवपूर्वः। तदाह - - अवतंसयतीति। ज्ञा नियोगे इति। आङ्पूर्वः। तदाह – आज्ञापयतीति। आदन्तत्वात्पुक्। अजिज्ञपत्। यत निकारेति। तालव्याऽन्तः स्थादिः। यत्नो वा प्रैषो वा - निकारः। यातयति। अयीयतत्। अञ्च विशेषण इति। व्यावर्तने इत्यर्थः। उदित्त्वमिति। `उदितो वेटत्यण्यन्तात् क्त्वायामिड्विकल्पार्थमित्यर्थः। ण्यन्तात्तु णिचा व्यवधानादिड्विकल्पस्य न प्रसक्तिरिति भावः। नन्वस्यनित्यण्यन्तत्वादण्यन्तत्वमसिद्धमित्यत आह– अत एवेति। च्यु सहने इति। च्यावयति। अचुच्यवत्। भुवोऽवकल्कने इति। अवकल्कनवृत्तेर्भूधातोर्णिच् स्यादित्यर्थः। कृपेश्चेति। अवकल्कनवृत्तेः कृपेर्णिच् स्यादित्यर्थः। कल्पयतीति। `कृपो रो लः' इति लत्वम्। आ स्वदः सकर्मकादिति। आङभिविधौ। तदाह - - स्वदिमभिव्याप्येति। तत्र `ष्वद आस्वादने' इत्यस्य अकर्मकत्वादाह - - संभवत्कर्मभ्य इति। इत आरभ्य आस्वदीयाः सकर्मकाः। स्वदिस्त्वकर्मकः। पट पुटेति। एकतिं?रशद्धातवः। आद्यास्त्रयष्टान्ताः। आद्यद्वितीयौ पवर्गं प्रथमादी। चतुर्थाद्या एकादशैदितः। त्रिसिपिसी इदुपधौ इत्येके। अदुपधावित्यन्ये। षोडशसप्तदशाविदितौ। अलुलोकत् अलुलोचदित्यत्र उपधाह्यस्वे प्राप्ते –

तत्त्वबोधिनी

348 उपधायाश्च। `ऋत इद्धातो'रिति वर्तते। तदाह– धातोरुपधाया इति। ननु `ॠत इद्धातो'रिति सूत्रे धातोरृत इति वैयधिकरण्येन व्याख्याने सिद्धमिष्टमिति किमनेन सूत्रेणेति चेन्मैवम्। तथा हि सति ॠकारीयतीत्यत्रापि इत्वप्रसङ्गात्। अर्दन इत्येके इति। अत्र वदन्ति— अर्दने लुबितुबि भ्वादौ पठितौ, तयोस्तत्र पाठो वृथा स्यात्। इदित्त्वादेव लुम्बति तुम्बतीत्यादिरूपमिद्धेः। अदर्शने त्वर्थेऽर्थभेदाद्भ्वादिपाठः सार्थक इत्यर्दनार्थत्वं चौरादिकयोरयुक्तमित्यस्वरसादेक इत्युक्तमिति। म्रक्ष म्लेच्छने। म्रक्षणेऽप्ययम्। तच्च तैलादिनाऽभ्यञ्जनम्। म्रक्षयति। अमम्रक्षत्। गुर्द पूर्व निकेतने। गुर्दयति। पूर्वयति। केचित्तु `पूर्वनिकेतने' इति पठित्वा गुर्दधातुः पूर्वनिवासे वर्तते इति व्याचक्षते। जसु हिसांयाम्। क्त्वायामिड्वकल्पार्थमुदित्करणमिति तत्सामथ्र्यादस्य णिजनित्यः। जासयति। जसति। जसित्वा। जस्त्वा। जस्तम्। चिति संचेतने। संचेतनं- - मूच्र्छाद्यवस्थानिवृत्त्युत्तरकालिकं ज्ञानम्। दंशतीति। इह `दंशसञ्जे'ति नलोपमाशङ्क्याह– सञ्जिसाहचर्यादिति। स्पश। स्पाशयते। `अत्स्मृदृ?त्वरे'त्यादिनाऽभ्यासस्य अत्वम्— इत्वापवादः। अपस्पशत्। तर्ज भत्र्स तर्जने। तर्जयते। भत्र्सयते। `तर्जयन्निव केतुभिटरिति प्रयोगस्तु णिजन्तादस्माद्भौवादिकात्तर्जतेर्वा हेतुमण्णिचि बोध्यः। भ्रूण। भ्रूणयते। `भ्रूणोऽर्भके रुऔणगर्भे' इत्यमरः। गूर उद्यमने। दीर्घोपधोऽयम्। गूरयते। ह्यस्वोपधस्तु दिवादौ चेति मनोरमायां स्थितम्। यद्यपि तुदादौ `गुरी उद्यमने' इति पाठाद्ध्रस्वोपध एव तथापि दिवादौ धूरी गूरी हिंसागत्योरिति पाठान्नास्ति ह्यस्वोपध इति नव्याः। शम लक्ष। ननु `निशामय तदुत्पत्ति'मित्यत्र शामय इत्येतत् शमु उपशम इत्यस्म ण्णिचि रूपं चेदमन्तत्वन्मित्त्वे सति ह्यस्वेन भाव्यमित्याशङ्क्य कथमनेन सिद्धमिति वदन्ति, आकुस्मीयत्वात्तङि निशामयस्वेति रूपस्य सर्वसंमतत्वादिति चेत्। अत्राहुः– स्वार्थण्यन्तादस्माद्धेतुमण्णिचि निशामयेति रूपम्। न चार्थाऽसङ्गतिः, `निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते' इति सिद्?धान्तादिति। कुत्स अवक्षेपणे। `यूनश्च कुत्साया'मिति निर्देशादङ्।कुत्सा। `ण्यासश्रन्थे'ति युच्। कुत्सना। भल आभण्डनं निरूपणमित्याहुः। वञ्चु प्रलम्भने। ल्युटि वञ्चनम्। उदित्करणस्य क्त्वायामिड्विकल्पार्थत्वाण्णिजनित्यः। वञ्चयति। वञ्चति। वचित्वा। वञ्चित्वा। वक्त्वा। `वञ्चिलुञ्च्यृतश्चे'ति सेटः क्त्वः कित्त्वविकल्पनात्पाक्षिको नलोपः। इडभावे तु नित्यम्। निष्ठायां तु– वक्तम्। `यस्य विभाषे'तीण्निषेधः। `नाम्नो वे'ति वाशब्दं व्याचष्टे– अथ वेति। प्रातिपदिकमिति। `अन्येष्वपि दृश्यते' इति सूत्रे `अन्येभ्योऽपी'ति वक्ष्यमाणत्वात्कुपूर्वात्स्मयतेर्डप्रत्यये टिलोपे `कुगती'ति समासे च निष्पन्नमित्यर्थः। यद्यपि कुपूर्वस्य स्मिढो लङादिषु कुस्मयते इत्यादि सिद्धं तथापि प्रकुस्मयते इत्यादि न सिद्येदुपसर्गस्य धातुना व्यवधानाऽयोगात्। `कुस्मयां चक्रे' इत्याद्यर्थमपि कुस्मेति पाठोऽर्थवान्। इत्याकुस्मीयाः। चर्च। सर्वोऽपि चुरादिर्णिच् पाक्षिक इति पक्षे `गुरोश्च हलः' इत्यप्रत्ययः। चर्चा। कण निमीलने। एकनेत्रनिमीलन एवायं शब्दः, स्वभावात्। काणः। काण्यादीनामिति। एते हेतुमण्ण्य्नतेषु वक्ष्यन्ते। हन्त्यर्थाश्च। तेन घातयति हन्तीत्येततौ समानार्थौ। अर्ज। प्रतियत्नो गुणाधानम्। अर्जयतीति। सङ्गृह्णातीत्यर्थः। घुषिर्। अविशब्दनं- - प्रतिज्ञानम्। निषेधाल्लिङ्गादिति। घुषिरविशब्दन इति सूत्रेण अविशब्दने निष्ठाया इण्निषिध्यते, विशब्दनार्थादेतस्मादनन्तरा निष्ठा नास्त्येव, णिचा व्यवधानात्। अतो घुषिरविशब्दन इति भौवादिकादेव निष्ठाया इण्निषेधो भवेदितिकिं विशब्दनप्रतिषेधेन ?। ततश्चानेननैव विशब्दनप्रतिषेधेनाऽनित्योऽस्य णिजिति ज्ञाप्यते इति भावः। इरित्करणादपि णिज्विकल्पः सिध्यतीति केचित्। शिल्पयोग इति। क्रियाकौओशलं शिल्पम्। यत निकारोपस्कारयोः। यत्नो वा प्रैषो वा निकारः। `निराकारोपस्कारयो'रिति पाठान्तरम्। क्रियानिघणटौ `यत्ने प्रैषे निराकारे पादपे चाप्युपस्कृतौ। निसोऽयं धान्यधनयोः प्रतिदाने' इत्युक्तम्। अस्यार्थः—- यत्नाद्यर्थेषु चतुर्षु यतधातुं प्रयुञ्जीत। निसः चेत्प्रुयज्यते तदाऽयं धान्यधनयोः प्रतिदाने च वर्तते इति। ऋणं निर्यातयति। प्रतिददातीत्यर्थः। अञ्च विशेषणे। विशेषणं- व्यावर्तनम्। `भुवोऽवकल्कने'। भूधातोर्णिच् स्यात्। भावयतीति। मिश्रीकरोति चिन्तयति वेत्यर्थः। कृपेश्च। कृपेर्णिच् स्यादवकल्कने। आ स्वदः। अभिव्याप्येति। `आकुस्मा'दिति पूर्वत्र, आधृषादावर्गादिति परत्र च आङोऽभिविध्यर्थतायाः सर्वसंमतत्वेन तन्मध्यपतितेऽत्रापि तथैव व्कयाख्यानमुचितमिति भावः। अन्ये त्वाङ्पूर्वकात्स्वदः सकर्मकाण्णिजिति व्याचख्युः। आस्वदीयेषु धातवः सर्वे सकर्मकाः। घटयतीति। अय#ं चुरादावेव सङ्घाते गतः, पुनः पाठस्तु अर्थभेदात्।

Satishji's सूत्र-सूचिः

TBD.