Table of Contents

<<6-4-115 —- 6-4-117>>

6-4-116 जहातेश् च

प्रथमावृत्तिः

TBD.

काशिका

जहातेश्च इकारादेशो भवति अन्यतरस्यां हलादौ क्ङिति सार्वधातुके परतः। जहितः, जहीतः। जहिथः, जहीथः। हलादौ इत्येव, जहति। क्ङिति इत्येव, जहाति। सार्वधातुके इत्येव, हीयते। जेहीयते। पृथ्ग्योगकरणम् उत्तरर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

620 इद्वा स्याद्धलादौ क्ङिति सार्वधातुके. जहितः..

बालमनोरमा

328 जहातेश्च। `इद्दरिद्रस्ये'त्यत इदिति, `भियोऽन्यतरस्या'मित्यतो हलीति चत्यभिप्रेत्य शेषं पूरयति–इत्स्याद्वेति। जहतीति। अब्यस्तत्वाददादेशे `श्नाब्यस्तयो'रित्याल्लोपः। जहाविति। जहतुः जहुः। जहिथ–जहाथ जहथुः दजह। जहौ जहिव जहिम। हाता। हास्यति। जहितादिति। जहिताम्–जहीताम् जहतु।

तत्त्वबोधिनी

284 जहातेश्च। क्ङितीति किम् ?। जहाति। सार्वधातुके किम् ?। हीयते।

Satishji's सूत्र-सूचिः

409) जहातेश्च 6-4-116
वृत्तिः इद्वा स्‍याद्धलादौ क्ङिति सार्वधातुके । The आकारः of the धातुः √हा (ओहाक् त्यागे #३.९) is optionally replaced by इकारः when followed by हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित् ।

उदाहरणम् – जहितः (√हा, जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

हा + लँट् 3-2-123 = हा + ल् 1-3-2, 1-3-3
= हा + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हा + शप् + तस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हा + तस् 2-4-75 = हा + हा + तस् 6-1-10
= झा + हा + तस् 7-4-62, 1-1-50 = झ + हा + तस् 7-4-59
= झ + हि + तस् 6-4-116 (Note: Since the सार्वधातुक-प्रत्यय: “तस्” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-116 to apply.)
= झहितः 8-2-66, 8-3-15
= जहितः 8-4-54, 1-1-50

उदाहरणम् – continued below