Table of Contents

<<6-4-114 —- 6-4-116>>

6-4-115 भियो ऽन्यतरस्यम्

प्रथमावृत्तिः

TBD.

काशिका

भी इत्येतस्य अङ्गस्य अन्यतरस्याम् इकारादेशो भवति हलादौ क्ङिति सार्वधातुके परतः। बिभितः, बिभीतः। बिभिथः, बिभीथः। बिभिवः, बिभीवः। बिभिमः, बिभीमः। हलादौ इत्येव, विभ्यति। क्ङिति इत्येव, बिभेति। सार्वधातुके इत्येव, भीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

612 इकारो वा स्याद्धलादौ क्ङिति सार्वधातुके. बिभितः, बिभीतः. बिभ्यति. बिभयाञ्चकार, बिभाय. भेता. भेष्यति. बिभेतु, बिभितात्, बिभीतात्. अबिभेत्. बिभीयात्. भीयात्. अभैषीत्. अभेष्यत्.. ह्री लज्जायाम्.. 3.. जिह्रेति. जिह्रीतः. जिह्रियति. जिह्रयाञ्चकार, जिह्राय. ह्रेता. ह्रेष्यति. जिह्रेतु. अजिह्रेत्. जिह्रियात्. ह्रीयात्. अह्रैषीत्. अह्रेष्यत्.. पॄ पालन पूरणयोः.. 4..

बालमनोरमा

322 भियोऽन्यतरस्याम्। `इद्दरिद्रस्ये'त्यत इदिति, `गमहने'त्यतः क्ङितीति, `ई हल्यघो'रित्यतो हलीति, `अत उ'दित्यतः सार्वधातुके इति चानवर्तते इत्यभिप्रेत्य शेषं पूरयति– इकारः स्यादित्यादिना। बिभ्यतीति। `अदभ्यस्ता'दित्यत्। बिभयामिति। `भीह्यीभृहुवां स्लुवच्चे'ति श्लुवत्त्वाद्द्वित्वादीति भावः। बिभायेति। बिभ्यतुः। बिभयिथ–बिभेथ। बिभ्यिव बिभ्यिम। बेतति। भेष्यति। बिभेतु– बिभितात्–बिभीतात् बिभिताम् बिभीताम्–बिभ्यतु। बिभिहि–बिभीहि– बिभितात्– बिभीतात्, बिभीतम्– बिभीतम्, बिभित–बिभीत। बिभयानि बिभयाव बिभयाम। अबिभेत्, अबिभिताम्–अबिभीताम्, अबिभयुः। अबिभेः, अबिभितम्–अबिभीतम्, अबिभित-अबिभीत। अबिभयम् अबिभिव–अबिभीव अबिभम–अबिभीम। बिभियात्– बिभीयादित्यादि। आशीर्लिङ [भीयात्] भीयास्ताम्। अभैषीत्। अभेष्यत्। ह्यी लज्जायामिति। अनिट्। जिहियतीति। `अदभ्यस्ता'दित्यत्। इयङ्। जिह्ययामिति। जिह्ययामिति। ह्येता। ह्येष्यति। जिह्येतु–जिह्यीतात्। जिह्यीहि। जिह्ययाणि। अजिह्येत्। जिह्यीयात्। ह्यीयात्। अह्रैषीत्। अह्येष्यत्। पृ?धातुः सेट्। लटस्तिपि शपः स्लौ द्वित्वे पृ? पृ? इति स्थिते –

तत्त्वबोधिनी

278 भियोऽन्यतरस्याम्। सार्वधातुके किम् ?। भीयते। बिभीये। हलादौ किम् ?। बिभ्यति। क्ङिति किम् ?। बिभेति। केचिदत्र हलादौ क्ङितीत्येतन्नाऽतीवोपयुज्यते, इत्वविधानस्य बिभित इत्यादौ चरितार्थत्वात्, बिभ्यति बिभेतीत्यादौ यणादेः प्रवृत्तिसंभवादित्याहुः।

Satishji's सूत्र-सूचिः

404) भियोऽन्यतरस्याम् 6-4-115
वृत्तिः इकारो वा स्‍याद्धलादौ क्ङिति सार्वधातुके । The ईकारः of the धातुः √भी (ञिभी भये #३. २) is optionally replaced by a इकारः, when a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित् follows.

उदाहरणम् – continued from above

भि भी + तस् = भिभीतः 8-2-66, 8-3-15 = बिभीतः 8-4-54, 1-1-50

Optionally when 6-4-115 applies, we get
भि भी + तस् = भि भि तस् 6-4-115 = भिभितः 8-2-66, 8-3-15
= बिभितः 8-4-54, 1-1-50