TBD.
पुगन्तस्य अङ्गस्य लघूपधस्य च सार्वधातुकार्धधातुकयोर् गुणो भवति। पुगन्तस्य व्लेपयति। ह्रेपयति। क्नोपयति। लघूपधस्य भेदनम्। छेदनम्। भेत्ता। छेत्ता। प्रत्ययादेरङ्गावयवस्य च हलोरानन्तर्ये सति लग् हूपधगुणो न व्यावर्त्यते इति ज्ञापितम् एतत् क्नुसनोः कित्करणेन, त्रसिगृधिधृषिक्षिपेः क्नुः 3-2-140, हलन्ताच् च 1-2-10 इति। संयोगे गुरुसंज्ञायां गुणो भेत्तुर् न सिध्यति। विध्यपेक्षं लघोश्च असौ कथं कुण्डिर् न दुष्यति। धातोनुमः कथं रञ्जेः स्यन्दिश्रन्थ्योर् निपातनात्। अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः। अभ्यस्तस्य यदाहाचि लङर्थं तत्कृतं भवेत्। क्नुसनोर् यत्कृतं कित्त्वं ज्ञापकं स्याल् लघोर् गणे। उपधा च अत्र इगेव गृह्यते, ततो भिनत्ति इति गुणो न भवति। अपरे पुकि अन्तः पुगन्तः, लघ्वी उपधा लघूपधा, पुगन्तश्च लघूपधा च पुगन्तलघूय्पधम् इति सूत्रार्थं वर्णयन्ति।
TBD.
453 पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः. धात्वादेरिति सः. सेधति. षत्वम्. सिषेध..
38 तथा च भावित्– आ इति स्थिते–पुगन्तलघु। `मिदेर्गुण' इत्यतो गुण इत्यनुवर्तते। अङ्गस्येत्यधिकृतमवयवषष्ठ\उfffद्न्तमाश्रीयते। पुगन्तलघूपधस्येति तद्विशेषणम्। पुक् अन्तो यस्य तत् पुगन्तं। लघ्वी उपधा यस्य तल्लघूपधं। पुगन्तं च लघूपधं चेति समाहारद्वन्द्वात् षष्ठी। `इको गुणवृद्धी' इति परिभाषया `इक' इत्युपस्थितं स्थानषष्ठ\उfffद्न्तमाश्रीयते। तदाह–पुगन्तस्येत्यादिना। अङ्गस्येक इति। अङ्गावयवस्येत्यर्थः। द्वेष्टि द्वेष्टत्याद्युदाहरणम्। नन्वत्राऽङ्गावयवस्येकस्तदुपरितनहला व्यवधानात्सार्वधातुकपरत्वाऽभावात्कथमिह इको गुण इत्यत आह–येन नेति। येन = स्थान्युत्तरवर्णेन परनिमित्तस्य , नाऽव्यवधानं = व्यवधानमवर्जनीयमिति यावत्, तेन = वर्णेन व्यवहितेऽपि परनिमित्तं कार्यं भवतीत्यर्थः। कुत इत्यत आह– वचनप्रामाण्यादिति। तथाविधवर्णव्यवधानेऽपि कार्यप्रवृत्तौ वचनारम्भस्यैव प्रमाणत्वादित्यर्थः। लघूपधस्य हीको गुणो विधियते, उपधात्वं चाऽन्त्यादलः पूर्वस्यैव भवति। ततश्चेक उपर्यन्त्यस्य वर्णस्याऽभावे इक उपधात्वाऽभावाल्लघूपधस्याऽङ्गस्य गुणविधानं निर्विषयमेव स्यादतस्तद्व्यवधानं सोढव्यमिति भावः। ननु व्यवहितस्यापीको गुणप्रवृत्त्यभ्युपगमे भिनत्ति छिनत्तीत्यादौ इकारस्यापि गुणः स्यादित्यत आह—तेनेति। अवर्जनीयव्यवधनास्यैवाश्रयमेनेत्यर्थः। उपधात्वस्यैकमेव वर्णमुपरितनमादाय सम्भवादनेकवर्णव्यवधानं नादर्तव्यमिति भावः। गुणे प्राप्त इति। भवित् - आ इति स्थिते डाभावसंपन्नस्याऽऽकारस्य स्थानिवत्त्वेन सार्वधातुकतया तस्मिन् परे भविदित्यङ्गावयवस्योपधाभूतस्येकारस्य गुणे प्राप्ते सतीत्यर्थः। न च भूधातोर्विहितं सार्वधातुकं प्रति भूधातुरेवाऽङ्गं, न तु भवित् इति विकरणविशिष्टमिति वाच्यम्, अङ्गसंज्ञासूत्रे तदादिग्रहणेन विकरणविशिष्टस्याऽप्यङ्गत्वात्।
30 अनेकव्यवहितस्येति। सार्वधातुकादिकमिको विशेषणं न त्वङ्गस्येति भावः॥
322) पुगन्तलघूपधस्य च 7-3-86
वृत्तिः पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः । When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
गीतासु उदाहरणम् -यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ||| 12-17||
शोचति (√शुच्-धातुः, लँट् , प्रथम-पुरुषः, एकवचनम्)
शुच् + लँट् 3-2-123 = शुच् + ल् 1-3-2, 1-3-3
= शुच् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शुच् + शप् + तिप् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शुच् + अ + ति 1-3-3, 1-3-8 = शोच् + अ + ति 7-3-86 = शोचति।