Table of Contents

<<8-2-71 —- 8-2-73>>

8-2-72 वसुस्रंसुध्वंस्वनडुहां दः

प्रथमावृत्तिः

TBD.

काशिका

ससजुषो रुः 8-2-66 इत्यतः सः इति वर्तते, तेन सम्भवात् व्यभिचाराच् च वसुरेव विशेष्यते, न स्रंसुध्वंसू, व्यभिचाराभावात्, असम्भवाच् च न अनडुह्, शब्दः। वस्वन्तस्य पदस्य सकारान्तस्य स्रंसु, ध्वंसु, अनडुः इत्येतेषां च दकारादेशो भवति। वसु विद्वद्भ्याम्। विद्वद्भिः। पपिवद्भ्याम्। पपिवद्भिः। स्रंसु उरवास्रद्भ्याम्। उरवास्रद्भिः। ध्वंसु पर्णध्वद्भ्याम्। पर्णध्वद्भिः। अनडुः अनडुद्भ्याम्। अनडुद्भिः। सः इत्येव, विद्वान्। पपिवान्। नकारस्य न भवति। रुत्वे नाप्राप्ते इदम् आरभ्यते इति तद् बाध्यते। संयोगान्तलोपस् तु न एवम् इति तेन एतदेव दत्वं बाध्यते। अनडुहो ऽपि ढत्वम् अनेन बाध्यते। नुमस्तु विधानसामर्थ्यान्न भवति, अनड्वान्, हे अनड्वनिति। पदस्य इत्येव, विद्वांसौ। विद्वांसः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

263 सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते. अनडुद्भ्यामित्यादि.. सान्तेति किम्? विद्वान्. पदान्ते किम्? स्रस्तम्.ध्वस्तम्..

बालमनोरमा

भ्यामादौ हलि विशेषमाह–वसुरुआंसु। वसुः प्रत्ययः, तेन तदन्तं गृह्रते। `रुआंसु ध्वंसु अवरुआंसने' इति धातू। `ससजुषो रुः' इत्यतः `स' इति लुप्तष,?ठीकमनुवृत्तम्। तेन च वसुर्विशेष्यते। तदन्तविधिः। सान्तत्वं रुआंसुध्वंस्वोर्न विशेषणम्, अव्यभिचारात्। नाप्यनडुहः, असंभवात्। पदस्येत्यधिकृतं बहुवचनान्तत्वेन विपरिणम्यते। `अलोऽन्त्यस्ये'ति तदन्तस्य भवति। फलितमाह–सान्तेत्यादिना। यथासंभवं रुत्वढत्वयोरपवादः। अनडुद्भ्यामिति। `स्वादिष्वसर्वनामस्थाने' इति पदत्वादिति भावः। इत्यादीति। अनडुद्भिः। अनडुद्भ्यः 2। अनडुहे। अनडुहः। अनडुहः अनडुहोः अनजुहाम्। दत्वे `खरि चे'ति चत्र्वम्। अनडुत्सु। सान्तेति किमिति। वसोरपि सान्तत्त्वाऽव्यभिचारात्प्रश्नः। विद्वानिति। विद्वस् स् इति स्थिते `अतवसन्तस्ये'ति दीर्घे `उगिदचा'रिति नुमि सुलोपे संयोगान्तलोपे च रूपम्। अत्र वसोः सकारान्तत्वाऽभावान्न दत्वमिति भावः। क्तप्रत्ययान्तम्। अत्र पदान्तत्वाऽभावान्न दत्वम्। विद्वांसौ अनड्वाहावित्याद्यप प्रत्युदाहार्यम्।

तत्त्वबोधिनी

294 वसुरुआंसु। वस्विति प्रत्ययः, तेन तदन्तं ग्राह्रम्। `ससजुषो'रिति सूत्रात्सेत्यनुवर्तते, तच्च वसोरेव विशेषणं, न तु सरंसुध्वंस्वोः, अव्यभिचारात्। नाऽप्यडुहः, असंभवादित्यभिप्रेत्याह–सान्तवस्वन्तस्येति।

Satishji's सूत्र-सूचिः

177) वसुँस्रंसुँध्वंस्वनडुहां दः 8-2-72

वृत्ति: सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते। At the end of a पदम्, a term ending in the “वसुँ” affix that ends in a सकार:, as well as the terms “स्रंसुँ”, “ध्वंसुँ” and “अनडुह्” get दकारः as the replacement. As per 1-1-52, the दकार: replaces only the ending letter of these terms.

उदाहरणम् – अनडुह् + भ्याम् Here अनडुह् gets the पद-सञ्ज्ञा by 1-4-17 and then by 8-2-72 we get अनडुद्भ्याम्