Table of Contents

<<8-3-58 —- 8-3-60>>

8-3-59 आदेशप्रत्यययोः

प्रथमावृत्तिः

TBD.

काशिका

मूर्धन्यः इति वर्तते, स इति च। आदेशप्रत्यययोः इति षष्ठी भेदेन सम्बध्यते। आदेशो यः सकारः, प्रत्ययस्य च यः सकारः इण्कोरुत्तरः तस्य मूर्धन्यो भवति आदेशः। आदेशस्य तावत् सिषेव। सुष्वाप। प्रत्ययस्य अग्निषु। वायुषु। कर्तृषु। हर्तृषु। इन्द्रो मा वक्षत्, स देवान् यक्षतिति व्यपदेशिवद्भावात् प्रत्ययस्य इति षत्वं भवति। यजतेर् वहतेश्च पञ्चमलकारे परस्मैपदप्रथमैकवचने इकारलोपः, लेटो ऽडटौ (3-4-94) इति अट्, सिब्बहुलं लेटि (3-1-34) इति सिप्, ततः सिद्धं यक्षत्, वक्षतिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

150 इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवस्य यः सस्तस्य मूर्धन्यादेशः. ईषद्विवृतस्य सस्य तादृश एव षः. रामेषु. एवं कृष्णादयोऽप्यदन्ताः ॥

बालमनोरमा

210 अथ षत्वविधायकं सूत्रमाह–आदेश। षष्ठ\उfffद्न्तमिति। `सहेः साडः सः' इति सूत्रे `स्' इति निर्दिष्टमिति भावः। तच्चेह द्विवचनान्ततया विपरिणम्य `आदेशप्रत्यययो'रित्यत्र सम्बध्यते। ततश्च `इण्कवर्गाभ्यां परयोरपदान्तयोरादेशात्मकप्रत्ययावयवात्मकयोः सकारयोर्मूर्धन्यः स्या'दित्यर्थः। फलितमाह–इम्कवर्गाभ्यामित्यादिना। प्रौढमनोरमायां तु आदेशप्रत्यययोरित्येकापि षष्ठी प्रत्ययविषये अवयवार्थिका, आदेशविषये चाऽभेदार्थिका। तथाच आदेशस्य प्रत्ययावयवस्य च सकारस्येति लभ्यत इति प्रत्ययशब्दस्य लक्षणां विनोक्तम्। सहविवक्षाऽभावेऽपि सौत्रो द्वन्द्व इति च स्वीकृतम्। यदि तु आदेशविषयेऽपि अवयवषष्ठी स्यात्–`आदेशावयवस्य सस्य ष' इति, तर्हि `तिरुआः' `तिसृणा'मित्यादौ दोषः। नच `त्रिचतुरोः स्त्रिया'मित्यत्रादेशे सकारोच्चारणसामथ्र्यान्न तत्र षत्वमिति वाच्यं, तिरुआ इत्यत्र `न रपरसृपिसृजिस्पृशिस्पृहिसवनादीना'मिति षत्वनिषेधेन चरितार्थत्वात्। विसम्विसमित्यादौ सकारस्याऽऽदेशावयवतया षत्वापत्तेश्च, नित्यवीप्सयोरित्याष्टमिकद्विर्वचनस्यादेशरूपताया वक्ष्यमाणत्वात्। `प्रत्ययो यः सकारस्तस्ये'ति व्याख्याने तु जिगीषुरित्यादाव#एव स्यात्। `रामेषु' इत्यादौ न स्यात्। अत `आदेशः प्रत्ययावयवश्च यः सकारस्तस्ये'ति व्याख्यातम्। प्रत्ययावयवसक्षणायां च `हलि सर्वेषां'मिति निर्देशो लिङ्गम्। विवृताघोषस्येति। मूर्धन्यत्वम् ऋटुरषेष्वविशिष्टम्। विवृतत्वरूपाब्यन्तरप्रयत्नवतोऽघोषरूपबाह्रप्रयत्नवतश्च सकारस्य तदुभयात्मकः षकार एव भवतीत्यर्थः। टकारनिवारणायाद्यं विशेषणम्। ऋकारवारणाय द्वितीयम्। रामेष्विति। ननु सु इत्यस्य व्यपदेसिवद्भावेन सुबन्तत्वेन पदत्वात् `सात्पदाद्यो'रिति षत्वनिषेधः स्यादिति चेन्न, `प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणा'दित्यलम्। सुपिसाविति। `पिस गतौ'क्विप्। धातुसकारोऽयं नत्वादेशो नापि प्रत्ययावयव इति भावः। \र्\नत सर्वादिशब्देषु सर्वनामकार्यं विधास्यन् सर्वनामसंज्ञामाह–सर्वादीनि। सर्वः आदिः=प्रथमावयवः येषां तानि सर्वादीनि। अत्र सर्वशब्दः स्वरूपपरः।

तत्त्वबोधिनी

177 आदेशप्रत्ययोः। प्रत्ययशब्दः प्रत्ययावयवे लाक्षणिकः, `हलि सर्वेषाम्' इति निर्देशात् `सात्पदाद्योः' इत्यत्र सातिग्रहणाच्च लिङ्गादित्याशयेन व्याचष्टे– आदेशः प्रत्ययावयवश्चेति। यदि तु आदेशावयवो गृह्रेत, तर्हि `तिसृणा'मित्यादौ दोषः। यद्यपि सकारोच्चारणसामथ्र्यात्तत्र षत्वं न स्यात्, तथापि बिसम्बिसं मुसलंमुसलमित्यादौ षत्वं दुर्वारं स्यात्। आष्टमिकद्विर्वचनस्यादेशरूपत्वात्। यदि तु `प्रत्ययो यः सकार' इति गृह्रेत, तर्हि `रामेषु' `करिष्यती'त्यादौ न स्यात्, किं तु `इन्द्रो मा वक्षत्' इत्यादावेव स्यात्। इह मनोरमायामेकापि षष्ठी विषयभेदाद्भिद्यत इत्युक्त्वा सहविवक्षाऽभावेऽपि सौत्रत्वान्द्वद्व इत्युक्तं, तत्तु प्रत्ययशब्दे लक्षणामनङ्गीकृत्य यथाश्रुताभिप्रायेणोक्तमिति बोध्यम्। विवृताघोषस्येति। `विवृतस्य सस्य तादृश एवे'त्युक्ते ऋकारेऽतिप्रसङ्गस्तद्वारणायाऽघोषस्येति। `अघोषस्ये'त्येतावदुच्यमाने ठकारेऽतिप्रसङ्गस्तद्वारणायोभयमुपात्तम्। तादृश एव ष इति। तादृशः ष एवादेशो भवति नान्य इत्यर्थः। नच `दधिसेचौ' `दधिसेच' इत्यादौ प्राक् सुबुत्पत्तेः समासे षत्वं वारयितुं पदादादिः पदादिरिति पञचमीसमासो भाष्ये उक्तस्ततश्चेहापि `सात्पदाद्योः' इति निषेधः स्यात्, `करिष्यती'त्यादौ षत्वविधेः सावकाशत्वादिति चेन्मैवम्, `स्वादिषु' इति या पदसंज्ञा तामाश्रित्य उक्तनिषेधो न प्रवर्तत इति सातिग्रहणेन ज्ञापितत्वात्। रामस्येति। `टाङसिङसामिनात्स्याः' इति वक्तव्ये सकारोच्चारणसामथ्र्यात्षत्वं न भवेत्, नडादिषु `अमुष्ये'ति निपातनात्ततः फगादौ `आमुष्यायण' इत्यादिवार्तिकनिर्देशाच्च `अमुष्ये'त्यत्र षत्वं भवेदिति यदि तर्हि `वि\उfffदापास्वि'त्यादि प्रत्युदाहर्तव्यम्। न च तत्रापि `षु'बिति वक्तव्ये `सु'बिति सकारोच्चारणसामथ्र्यादेव न भवेदिति शङ्क्यं लिट्त्सु' `प्रशान्त्सु' इत्यत्र `डः सि धट्' `नश्चे'ति धुटः प्रवृत्तये सकारोच्चारणस्यावश्यं स्वीकर्तव्यत्वादिति दिक्।

Satishji's सूत्र-सूचिः

68) आदेशप्रत्यययो: 8-3-59

वृत्ति: इण्कुभ्यां परस्याऽपदान्तस्यादेश: प्रत्ययावयवश्च य: सस्तस्य मूर्धन्यादेश: । The letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

गीतासु उदाहरणम् – श्लोकः bg10-17

भाव + सुप् = भाव + सु 1-3-3 = भावे सु 7-3-103 = भावेषु