Table of Contents

<<8-2-31 —- 8-2-33>>

8-2-32 दादेर् धातोर् घः

प्रथमावृत्तिः

TBD.

काशिका

दकारादेः धातोः हकारस्य घकारादेशो भवति झलि परतः पदान्ते च। दग्धा। दग्धुम्। दग्धव्यम्। काष्ठधक्। दोग्धा। दोग्धुम्। दोग्धव्यम्। गोधुक्। दादेः इति किम्? लेढा। लेढुम्। लेढव्यम्। गुडलिट्। धातोः इति दादिसमानाधिकरणम् एतन् न, किं तर्हि, तद्विशेषणम् अवयवषष्ठ्यन्तम्, धातोरवयवो यो दादिः शब्दस् तदवयवस्य हकारस्य इति। किं कृतं भवति? अधोकित्यत्र अपि घकारः सिद्धो भवति। कथं दोग्धा, दोग्धुम् इति? व्यपदेशिवद्भावात्। अथ वा धातूपदेशे यो दादिः इत्येवं विज्ञायते। तथा च दामलिहमिच्छति दामलिह्यति, दामलिह्यतेः क्विप् प्रत्ययः दामलिटित्यत्र अपि न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

253 झलि पदान्ते चोपदेशे दादेर्धातेर्हस्य घः..

बालमनोरमा

दुह्धातोः क्विन्तात्सुलोपे दुहित्यत्र ढत्वे प्राप्ते ढत्वं क्वचिदपवदति– दादेर्धातोः। `हो ढः' इत्यतो `ह' इति षष्ठ\उfffद्न्तमनुवर्तते। `झली'ति `पदस्ये'ति, `अन्ते' इति च पूर्ववदनुवर्तते। `धातो'रिप्यावर्तते। एकं धातुग्रहणमवयवषष्ठ\उfffद्न्तं हकारेऽन्वेति-`धातोरवयवस्य हस्ये'ति। `दादे'रित्येतत्तु धातोरित्यत्र सामानाधिकरण्येनान्वेति। दाअदिर्यस्येति बहुव्रीहिः, `धातो'रिति द्वितीयं धातुग्रहणं तु धातोरुपदेशकालं लक्षयति। ततश्च फलितमाह–उपदेशे इत्यादिना। धातूपदेशकाले यो दकारादिर्धातुस्तदवयवस्य हस्येत्यर्थः। आवृत्तधातुग्रहणलब्धोपदेशग्रहणस्य फलं पृच्छति–उपदेशे किमिति। अधोगिति। `दुह प्रपूरणे' लङ्, अडागमः, तिप्, शप्, तस्य लुक्, लघूपधगुणः, हल्ङ्यादिना तिपो लोपः, `दादेः' इति हस्य घः। `एकाचो वशः' इति भष्भावेन दकारस्य धकारः। `वाऽवसाने' इतचि चत्र्वजश्त्वे इति भावः। यथा स्यादिति। यथेति प्राप्तियोग्यतायाम्। घत्वमत्र प्राप्तियोग्यं, तच्च उपदेशग्रहणे सत्येव स्यादित्यर्थः। घत्वप्रवृत्तिवेलायां दुहधातोर्दकारादित्वं नास्ति, कृतेऽडागमे `तदागमास्तद्ग्रहणेन गृह्रन्ते' इत्यकारादित्वात्। अतोऽत्र घत्वं न स्यादित्यव्याप्तिः स्यात्। उपदेशग्रहणे तु नायं दोषः, घत्वप्रवृत्तिवेलायां दुहेरत्र दकारादित्वाऽभावेऽपि धातूपदेशकाले दादित्वादिति भावः। तदेवमव्याप्तिपरिहारफलमुक्त्वाऽतिव्याप्तिपरिहारफलमाह–दामेति। ग्रीवासु गवादिपशुबन्धनार्थरज्जुपर्यायो दामशब्दः। `लिह आस्वादने'दाम लेढीति दामलिट्। तमात्मन इच्छतीत्यर्थे `सुप आत्मनः क्यजि'ति क्यचि `सनाद्यन्ताः' इति धातुत्वात्तिपि शपि दामलिह्रतीति रूपम्। ततः क्विपीति। क्यजन्तात्कर्तरि क्वपि अल्लोपे यलोपे च दामलिह्शब्दात्सोर्लोपे `होढः' इति ढत्वे `वावसाने'इति चत्र्वविकल्पे दामलिट्-दामलिडिति रूपमित्यर्थः। अत्र मा भूदिति। माङि लुङ्। सर्वलकारापवादः। अत्र घत्वं न भवेदित्येतदर्थमप्युपदेशग्रहणम्। कृते तु तस्मिन् घत्वमत्र न भवति। धातूपदेशे दामलिहिति सुब्दातो पाठाऽभावादिति भावः। तथा च प्रकृतोदाहरणे सौ-दुघिति स्थिते-।

तत्त्वबोधिनी

285 दादेर्धाकोर्घः। `धातो'रित्यावर्तते। तत्रैकमतिरिच्यमानमुपदेशकालं लक्षयतीत्याशयेनाह—उपदेश इति। उपदेशग्रहणस्याऽव्याप्त्यतिव्याप्तिपरिहारः फलमित्याह—अधोगित्यादिना–अत्र मा भूदित्यन्तेन।

Satishji's सूत्र-सूचिः

171) दादेर्धातोर्घः 8-2-32

वृत्ति: झलि पदान्ते चोपदेशे दादेर्धातोर्हस्य घः स्यात्। The हकारः of a धातु: that begins with a दकारः in the उपदेशः (धातु-पाठ:), gets घकारः as its replacement when followed by a झल् letter or at the end of a पदम्.

गीतासु उदाहरणम् – श्लोकः 3-10

इष्टकामदुह् + सुँ 4-1-2 = इष्टकामदुह् + स् 1-3-2 = इष्टकामदुह् 6-1-68. Now इष्टकामदुह् gets the पद-सञ्ज्ञा by 1-4-14, 1-1-62 and hence 8-2-32 applies to give इष्टकामदुघ्

Example continued below.