Table of Contents

<<7-1-3 —- 7-1-5>>

7-1-4 अदभ्यस्तात्

प्रथमावृत्तिः

TBD.

काशिका

अभ्यस्ता दङ्गादुत्तरस्य झकारस्य अतित्ययम् आदेशो भवति। ददति। ददतु। दधति। दधतु। जक्षति। जक्षतु। जाग्रति। जाग्रतु। अन्तादेशापवादो ऽयं जुसादेशेन तु बाध्यते। अदघुः। अजागरुः। अत्राप्यादेशो कृते प्रत्ययाद्युदातत्वं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

609 झस्यात्स्यात्. हुश्नुवोरिति यण्. जुह्वति..

बालमनोरमा

309 अदभ्यस्तात्। झस्येति। `झोऽन्त' इत्यतस्तदनुवृत्तेरिति भावः। जक्षतीति। `जक्षित्यादयः ष' डित्यभ्यस्तसंज्ञेति भावः। लङस्तिपि ईडटोः– अजक्षीत् अजक्षदिति सिद्धवत्कृत्य आह– सिजभ्यस्तेति। अदादेशापवादो जुस्। अन्तः स्थादिरिति। तालव्याऽन्तः स्थादिरित्यर्थः। बभ्रामेति। `जक्षन्क्रीडन् रममाणः' इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवादत्वादिति भावः। जागृ धातुरृकारान्तः। सेट्। जागर्तीति। तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम्। जागृत इति। ङित्त्वान्न गुणः। जाग्रतीति। `जक्षित्यादयः ष'डित्यभ्यस्तसंज्ञायाम् `अदभ्यस्ता'दिति जेरदादेशः। ङित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः। जागर्षि जागृथः जागृथ। जागर्मि जागृवः जागृमः। लिटि `कास्यनेका'जिति नित्यमामि प्राप्ते आह– उषविदेत्याम् वेति। जागरामिति। आमि ऋकारस्य गुणो रपरत्वं चेति भावः। आमभावे आह–जगागारेति। अतुसादौ कित्त्वाद्गुणनिषेधे प्राप्ते—

तत्त्वबोधिनी

269 अन्तापवाद इति। `झोऽन्तः' इत्यस्य अदादेशोऽपवादः। अस्य त्वपवादो जुसिति ज्ञेयम्। बभ्रामेति। `जक्षन् क्रीडन् रममाण' इत्युपनिषदि जशादित्वस्य निर्विवादत्वात्। `नाभ्यस्ताच्छतु'रिति निषेधेन `जक्ष'न्निति नुमश्छान्दसत्वेऽपि जशादित्वस्य तत्कल्पनाया अन्याय्यत्वात्। धातुवृत्त्यादौ जशादिपाठाच्च।

Satishji's सूत्र-सूचिः

401) अदभ्यस्तात्‌ 7-1-4
वृत्तिः झस्‍यात्‍स्‍यात् । The झकारः of a प्रत्ययः that follows a reduplicated (ref. 6-1-5 उभे अभ्यस्तम्) root is substituted by ‘अत्’।
Note: Since “अत्” is an आदेश: (substitute) in place of the झकार: of the झि-प्रत्यय: which has the विभक्ति-सञ्ज्ञा by 1-4-104, “अत्” also gets the विभक्ति-सञ्ज्ञा by 1-1-56. Hence 1-3-4 prevents the ending तकार: of “अत्” from getting the इत्-सञ्ज्ञा।

उदाहरणम् – जुह्वति (√हु, जुहोत्यादि-गणः, हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, धातु-पाठः #३. १) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

हु + लँट् 3-2-123 = हु + ल् 1-3-2, 1-3-3
= हु + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हु + शप् + झि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हु + झि 2-4-75 = हु + हु + झि 6-1-10
= झु + हु + झि 7-4-62, 1-1-50
= झुहु + अत् इ 7-1-4, ‘झुहु’ has अभ्यस्तसञ्ज्ञा by 6-1-5
= झुह् व् + अत् इ 6-4-87 = जुह्वति 8-4-54, 1-1-50