TBD.
विभक्तिश्च .त्रीणि त्रीणि इत्यनुवर्तते. त्रीणि त्रीणि विभक्तिसंज्ञाश्च भवन्ति सुपस्तिङश्च. विभक्तिप्रदेशाः अष्टन आ विभक्तौ 7-2-84 इत्येवम् आदयः.
TBD.
130 सुप्तिङौ विभक्तिसंज्ञौ स्तः..
183 अथ `न विभक्तो तुस्माः' इत्याद्युपयोगिनी विभक्तिसंज्ञामाह–विभक्तिश्च। `सुप' इति पूर्वसूत्रात्सुब्ग्रहणम्, `तिङस्त्रीणी'त्यतस्तिङ्ग्रहणं चानुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात्। तदाह–सुप्तिङाविति। चकारः पुरुषवचनसंज्ञाभिः समावेशार्थः। तेन एकसंज्ञाधिकारस्थत्वेऽपि न पर्यायत्वम्। अन्यथा `रामेभ्यः' `भवाम' इत्यादौ विभक्तिसंज्ञाविरहेण `न विभक्ता'विति निषेधो न स्यात्। प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा, कर्मणि द्वितीया, कर्तृकरणयोस्तृतीया, चतुर्थी सम्प्रदाने, अपादाने पञ्चमी, षष्ठी शेषे, सम्पतम्यधिकरणे चेत्यादौ कथं प्रथमादिव्यवहारः , सूत्रकृता पाणिनिना प्रथमादिसंज्ञानामनुक्तत्वादित्यत आह– तत्रेति। तेषु स्वादिप्रत्ययेषु मध्य इत्यर्थः। इत्यादीनामिति। आदिना–अम्–औट्– शस्–इत्यादीनां ग्रहणम्। प्राचामिति। पाणिनेः पूर्वेषां स्फोटायनाद्याचार्याणां शास्त्रे प्रथमाद्याः सप्तम्यन्ताः संज्ञाः स्थिता इत्यन्वयः। किं तत् इत्यत आह– ताभिरिति। ताभिः=प्रथमादिसंज्ञाभिरिहापि=पाणिनीयशास्त्रेऽपि व्यवहारः– सम्भवतीत्यर्थः।
152 विभक्तिश्च। `तिङ्स्त्रीणि त्रीणि–' इत्यतस्तिङ्ग्रहणं व्यवहितमपि स्वरितत्वबलादनुवर्तते। `सुपः' इति च संनिहितमित्यभिप्रेत्याहु–सुप्तिङाविति। तिङां विभक्तिसंज्ञायाः प्रयोजनं `न विभक्तौ तुस्माः' इति। सुपां तु त्यदाद्यत्वादिकमपि। चकारः पुरुषवचनसंज्ञाभ्यां संमावेशार्थः। अन्यथा एकसंज्ञाधिकारादेकवचनादिसंज्ञाभिः सह वचनद्वयप्रामाण्यात्पर्यायः स्यात्। ततश्च `रामेभ्यो' `नमाम' इत्यादौ बहुवचनसंज्ञापक्षे विभक्तित्वाऽभावात्सस्येत्संज्ञा स्यात्। इहापीति। अस्मिन्नपि तन्त्रे `प्रातिपदिकार्थलिङ्गपरिमाणे'त्यादावित्यर्थः।
49) विभक्तिश्च 1-4-104
वृत्ति: सुप्तिङौ विभक्तिसंज्ञौ स्तः । The 21 “सुँप्” affixes (nominal case endings listed in 4-1-2) and the 18 “तिङ्” affixes (verbal endings listed in 3-4-78) get the designation of विभक्ति:।
गीतासु उदाहरणम् – श्लोकः bg1-1
पाण्डव + जस् The affix जस् gets the designation विभक्ति: since it is one of the 21 सुप् affixes.