TBD.
हु इत्येतस्य अङ्गस्य श्नुप्रत्ययान्तस्य अनेकाचः असंयोगपूर्वस्य अजादौ सार्वधातुके परतो यणादेशो भवति। जुह्वति। जुह्वतु। जुह्वत्। सुन्वन्ति। सुन्वन्तु। असुन्वन्। हुश्नुवोः इति किम्? योयुवति। रोरुवति। इदम् एव हुश्नुग्रहणं ज्ञापकं भाषायाम् अपि यङ्लुगस्ति इति। छन्दसि छन्दस्युभयथा 6-4-86 इत्यार्धधातुकत्वादेव यणादेशस्य अप्रसङ्गः। नच यङ्लुगन्तादयत् प्रत्युदाहरणम् उवर्णान्तम् अनेकाचसंयोगपूर्वं सार्वधातुके विद्यते। सार्वधातुके इति किम्? जुहुवतुः। जुहुवुः। असंयोगपूर्वस्य इत्येव, आप्नुवन्ति। राध्नुवन्ति।
TBD.
503 हुश्नुवोरनेकाचोऽसंयोगपूर्वस्योवर्णस्य यण् स्यादचि सार्वधातुके. शृण्वन्ति. शृणोषि. शृणुथः. शृणुथ. शृणोमि..
224 शृणु-अन्तीति स्थिते अन्तेर्ङित्त्वात् श्नोर्गुणनिषेधे सति उवङि प्राप्ते- - हुश्नुवोः। श्नोः प्रत्ययत्वात्तदन्तग्रहणम्। `इणो यणि'त्यतो यणित्यनुवर्तते, `अचि श्नु' इत्यतोऽचीति। तस्य सार्वधातुकविशेषणत्वात्तदादिविधिः। `एरनेकाचः' इतिसूत्रमेरितिवर्जमनुवर्तते। `ओः सुपी'त्यत ओरिति च षष्ठ\उfffद्न्तम्। तदाह- - जुहोतेरित्यादिना। असंयोगपूर्वस्येति तु उकारस्य विशेषणं न तु श्नुविशेषणम्, तेन आप्नुवन्तीत्यत्र यण् न। हुश्नुश्वोः किम् ?। योयुवति। अत्र युधातोर्यङ्?लुकि `अदभ्यस्ता' दिति झेरदादेशे योयु-अति इति स्थिते अनेकाजङ्गावयवस्य असंयोगपूर्वस्य उकारस्य यण् न भवति। अत्र भाष्ये `बहुलं छन्दसी' इत्यनुवृत्तौ यङोऽचि चे'ति विहितस्य यङ्लुकश्छान्दसत्वात् `छन्दस्युभयथे'त्याद्र्धधातुकत्वाश्रयणादेव योयुवतीत्यत्र यणभावसिद्धेर्हुश्नुग्रहणं भाषायमपि क्वचिद्यङ्?लुकं ज्ञापयतीत्युक्तम्। तथा च भाषायामपि अनेकाचोऽसंयोगपूर्वकोकारान्ताद्योयुवतीत्यादौ यङ्लुक्सिद्धेस्तत्र यङाभाअवार्थं हुश्नुग्रहणमिति फलति। ज्ञापकस्य सामान्यपेक्षत्वादुदाह्मतोवर्णान्तादन्यत्रापि यङ्लुक् सिध्यति। एतदेवाभिप्रेत्य भाष्ये– हुशनुग्रहणं ज्ञापयति–`भाषायामपि यङ्?लुक् भवती' , `किमेतस्य ज्ञापने प्रयोजनं, बेभिदीति चेच्छिदीतीत्येतत्सिद्धं भवती'त्युक्तम्। अत्र भिदिच्छिद्योरेव ग्रहणादुदाह्मतोकारान्तादन्यत्र भवन् यङ्लुक् आभ्यामेव भवति, न त्वन्यत्रेत्याहुः। भिदिच्छिद्योग्र्रहणं प्रदर्शनमात्रमित्यन्ये। शृण्वन्तीति। शृणुथः। शृणुतेत्यपि ज्ञेयम्। `लोपश्चाऽस्यान्यतरस्यां म्वो'रित्यभिप्रेत्याह–शृण्व इत्यादि।शुश्राव शुश्रुवतुः शुश्रुवुः। थलि वमयोश्च क्रादित्वान्नित्यमिण्निषेधः। तदाह–शुश्रोथ। शुश्रुवेति। शुश्रुवेति। शुश्रुमेत्यपि ज्ञेयम्। श्रोता। श्रोष्यति। शृणोतु– शृणुतात् शृणुताम्। शृण्वन्तु। `उतश्च प्रत्ययादसंयोगपूर्वा'दिति हेर्लुकं मत्वा आह– शृण्विति। शृणुतात् शृणुतम् शृणुत। शृणवानीति। आटः पित्त्वेन ङित्त्वाऽभावाद्गुण इति भावः। ध्रु स्थैर्ये इति। अनिट्। ध्रवति। दुध्राव दुध्रुवतुः दुध्रुवुः। भारद्वाजनियमात्थल वेट्। दुध्रविथ–दुध्रोथ दुध्रुवथुः धुध्रुव। दुध्राव-दुध्रव दुध्रुविव दुध्रुविम। क्रादिनियमादिट्। ध्रोता। ध्रोष्यति। ध्रवतु। अध्रवत्। ध्रवेत्। ध्रूयात्। अध्रौषीत्। अध्रोष्यत्। दु द्रु गताविति। अनिटौ। दवति। द्रवति। दुदाव दुदुवतुः दुदुवुः। द#उद्राव दुद्रुवतुः दुद्रुवुः। अस्य भारद्वाजनियमात्थलि वेडित्याह– दुदोध दुदविथेति। दुदुवथुः दुदुव। दुदाव–दुदव। वमयोः क्रादिनियमादिडित्याह– दुदुविवेति। द्वितीयस्य क्रादित्वात्थलि नित्यं नेट्। तदाह– दुद्रोथेति। दुद्रुवथुः दुद्रुव। दुद्राव- दुद्रव। वमयोः क्रादित्वानेट्। तदाह–दुद्रुवेति। दोता। द्रोता। दोष्यति। द्रोष्यति। दवतु। द्रवतु। अदवत्। अद्रवत्। दवेत्। द्रवेत्। दूयात्। द्रूयात्। अदौषीत्। चङिति। द्रुधातोरिति भावः। न्यूनीकरणमिति। नीचीकरणमित्यर्थः। न्यूनीभवनमिति। क्षीणबलीभवनमित्यर्थः। शत्रूञ्जयतीति। नीचीकरोतीत्यर्थः। ननु जिधातोः परस्मैपदित्वात्पराजयत इतिकथमात्मनेपदमित्यत आह–विपराभ्यामिति। ननु पराजयस्य अध्ययनेन संश्लेषविश्लेषयोरभावात्कथं पराजयं प्रत्ध्ययनस्याऽपादानत्वमित्यत आह–पराजेरिति। जयति। लिटि `सँल्लिटोर्जे'रिति कुत्वम्। जिगाय जिग्यतुः। जिग्युः। भारद्वाजनियमात्थलि वेट्। जिगयिथ-जिगेथ जिग्यथुः। जिग्य। जिगाय-जिगय। वमयोः क्रादिनियमादिट्। जिग्यिव जिग्यिम। जेता। जेष्यति। जयतु। अजयत्। जयेत्। जीयात्। अजैषीत्। अजैष्टाम् अजैषुः। अजैषीः अजैष्टम् अजैष्ट। अजैषम् अजैष्व अजैष्म। अजेष्यत्। इति धेडादयोऽजन्ताः परस्मैपदिनः। अथ डीङन्ता ङित इति। `डीङ् विहायसा गतौ' इत्येतत्पर्यन्ता ङित्त्वादात्मनेपदिन इत्यर्थः। `ष्मिङ् ईषद्धसने'। षोपदेशोऽयम्। स्मयते इति। `धात्वादे'रिति षश्य सः। सिष्मिये इति। कित्त्वाद्गुणाऽभावे इयङ्। आदेशसकारत्वादुत्तरखण्डे सस्य षः। सिष्मियातेसिष्मियिरे। क्रादिनियमादिट्। सिष्मियिषे। सिष्मियाथे। `विभाषेटः' इति मत्वा आह–सिष्मियिढ्वे सिष्मियिध्वे इति। स्मेता। स्मेष्यते। स्मयताम्। अस्मयत। स्मयेत। स्मेषीष्ट। अस्मेष्ट। अस्मेष्यत। गुङ्धातुरनिट्। गुण ओकारः, अवादेश इति विशेषः। गाङ्धातुरनिट्। गाते इति। लटस्तादेशे शपि सवर्णदीर्घे टेरेत्त्वमिति भावः। आतामि तथैव रूपमाह–गाते इति। गा-अ-आतामिति स्थिते परत्वात्सवर्णदीर्घे अतः परस्य दीर्घाऽकारस्याऽभावात् `आतो ङितः' इति इय् न भवति। झावपि तथैव रूपमाह–गाते इति। शपा सह आकारस्य सवर्णदीर्घे `आत्मनेपदेष्वनतः' इतिझेरदादेशे टेरेत्वमिति भावः। गासे गाथे गाध्वे। लट उत्तमपुरुषैकवचने विशेषमाह– इट इति। गा अ इ इति स्थिते सवर्णदीर्घे सति इट एत्वे कृते `वृद्धिरेची'ति वृद्धौ `गै' इति रूपमित्यर्थः। गावहे गामहे। लिटि अजादौ आल्लोपः। जगे जगाते जगिरे। क्रादिनियमादिट्। जगिषे जगाथे जगिध्वे। जगे जगिवहे जगिमहे। गाता। गास्यते। गाताम् गाताम्। गाताम्। गास्व गाथाम् गाध्वम्। गै गावहै गामहै। अगात अगाताम् अगात। अगाथाः आगाथाम् अगाध्वम्। लङ इटीति। अ गा अ इ इति स्थिते टिदादेशत्वाऽभावादेत्त्वाऽभावे सवर्णदीर्घे आद्गुणे `अगे' इति रूपमित्यर्थः। अगावहि अगामहि। गेतेति। लिङस्तादेशे शपि गा अ त इति स्थिते सवर्णदीर्घे सीयुटि सलोपे यलोपे आद्गुण इति भावः। गेयातामिति। गा अ आतामिति स्थिते सवर्णदीर्घे सीयुटि सलोपे आद्गुण इतिभावः। गेरन्निति। झस्य रन्भावे गा अ रन्निति स्थिते सवर्णदीर्घे सीयुटि सलोपे आद्गुण इतिभावः। गेथाः गेयाथाम् गेध्वम्, गेय गेवहि गेमहि। आशीर्लिङि आह–गासिष्टेति। गासीयास्तात् गासीरन्। गासीष्ठाः गासीयास्थाम् गासीध्वम्। गासीय गासीवहि गासीमहि। ननु गासीष्टेत्यादौ `गाङ्कुटादिभ्योऽञ्णिन्ङिदि'ति ञ्णिद्भिन्नप्रत्ययस्य ङित्त्वविधानेन सीयुडागमविशिष्टप्रत्ययस्य ङित्त्वात् `घुमास्थागापाजहातिसां हली'ति हलादौ क्ङिति विहितमीत्त्वं स्यादित्यत आह–गाङ्कुटादिभ्य इति सूत्रे इति। `इङ' इत्यनुवृत्तौ `गाङ्लिटी'ति विहितस्य गाङादेशस्यैव गाङ्कुटादिसूत्रे ग्रहणं, न तवस्य गाधातोरित्यर्थः। एतच्च अगासाताम् अगासत्। अगास्थाः अगासाथाम् अगाध्वम्। अगासि अगास्वहि। अगास्महि। अगास्यत। आदादिकोऽयमिति। ततश्च `अदिप्रभृतिभ्यः शपः' इति शपो लुगिति भावः। फले तु न भेद इति। शपो लुकि सति गाते इत्याद्येव रूपम्, तस्मिन्नसत्यपि गा अते इत्यादौ सवर्णदीर्घे सति तदेव रूपमिति न रूपभेद इत्यर्थः। कुङ् घुङ् उङ् ङुङ् शब्दे इति। चत्वारोऽपि ङितः। आद्यद्वितीचतुर्थाः कवर्गप्रथमचतुर्थपञ्चमाद्याः। तृतीयस्तु केवल उवर्णः। अन्ये त्विति। आद्यः केवलोवर्णो ङित्। इतरे तु पञ्च क्रमेण कवर्गाद्याः। तत्र कुङ्धातोरुदाहरति–कवते इति। लिटि अजादौ कित्त्वाद्गुणाऽभावे उवङ्। तदाह–चुकुवे इति। चुकुवाते चुकुविरे क्रादिनियमादिट्। चुकुविषे चुकुवाथे चुकुविध्वे। चुकुवे चुकुविवहे चुकुविमहे। कोता। कोष्यते। कवताम्। अकवत। कवेत। कोषीष्ट। अकोष्ट। अकोष्यत। एवं खवते इत्यादि। उङ्धातोराह–अवते इति। ऊवे इति। उ उ ए इति स्थिते द्वितीयस्य उवर्णसुवङि कृते सवर्णदीर्घे इति भावः। ननु उवङो बहिर्भूतप्रत्ययाऽपेक्षतया बहिरङ्गत्वादन्तरङ्गे सवर्णदीर्घे कृते ऊ ए इति स्थिते उवङि उवे इत्येवोचितमित्यत आह–वार्णादिति। ऊबाते ऊविरे।क्रादनियमादिट्- ऊविषे ऊवाथे ऊविध्वे। ऊवे ऊविवहे ऊविमहे। रूपमुक्तम्। संप्रति लिटि रूपमाह– ञुङुवे इति। `कुहोश्चु'रिति ङकारस्य स्थानिनश्चर्भवन् स्थानसाम्यस्य पञ्चस्वभावादाभ्यान्तरप्रत्यत्नसाम्यस्य पञ्चस्वप्यविशिष्टत्वादल्पप्राणामनुनासिक्यसाम्याञ्ञकारः। प्रथमतृतीयौ तु न भवतः, आनुनासिक्याऽभावात्। च्युङादयोऽप्युवर्णान्ता अनिटः कुङ्धातुवज्ज्ञेयाः। रुङ् गतीति। सेट्कोऽयम्। `ऊद्द्टदन्तैर्यौतिरुक्ष्णु' इत्यनिट्सु पर्युदासात्। तदाह– रवितासे इति। धृङ्?धातुरनिट्। दध्रे इति। कित्त्वाद्गुणनिषेधे ऋकारस्य यण्। दध्राते दध्रिरे। क्रादिनियमादिट्। दध्रिषे दध्राथे दध्रिध्वे। दध्रे दध्रिवहे दध्रिमहे। धर्ता। लृटि स्ये `ऋदनो'रिति इटि –धरिष्यते। धर?ताम्।अधरत। धरेत। आशीर्लिङि सीयुटि `उश्चे'ति कित्त्वान्न गुणः। धृषीष्ट। `ह्यस्वादङ्गा'दिति सिचो लुक्। अधृत अधृषाताम् अधृषत। अधरिष्यत। मेङ् प्रणिदाने णत्वमिति। प्रणिदानशब्दे, `प्रणिमयते' इत्यत्र च `नेर्गदे'ति णत्वमित्यर्थः। ननु `प्रणिमयते' इत्यत्र णत्वमिदं न संभवति, शिद्विषये आत्वाऽभावेन मारूपाऽभावात्। तथा प्रणिमानशब्देऽपि णत्वं न संभवति, ततर् मेङः कृतात्वस्य लाक्षणिकमारूपत्वात्। `गामादाग्रहणेष्वविशेषः' इत्याश्रित्य मेङोऽपि कृतात्वस्य णत्वविधौ ग्रहणे तु मीनातिमनोत्योरात्त्वे प्रनिमाता प्रनिमास्ति इत्यत्रापि नेर्णत्वापत्तिरित्यत आह- -तत्रेति। तत्र = `नेर्गदे'ति णत्वविधौ। `घुमे'त्यस्य स्थाने `घुप्रकृतिमा'ङिति पठित्वा तत्र प्रकृतशब्दस्य घुमाङप्रकृतिपरत्वमाश्रित्य घौ, माङ्धातौ, घुमाप्रकृतौ च परत इति पर्यवसानमाश्रित्य माप्रकृतेर्ङितो मेङ्धातोः कृतात्वस्यापि ग्रहणस्य भाष्यकृताऽभ्युपगतत्वादित्यर्थः। एवं च `प्रणिमयते' इत्यत्र नाऽव्याप्तिः, मेङः कृतात्वमाप्रकृतित्वे सति ङित्त्वात्। नापि मीनातमिनोत्योरात्त्वे प्रनिमाता प्रनिमास्यतीत्यत्र अतिव्याप्तिः, मारूपस्य ङित्त्वाऽभावादिति भावः। एतच्च घुसंज्ञासूत्रे भाष्ये स्थितम्। ममे ममाते ममिरे। क्रादिनियमादिट्। ममिषे ममाथे ममिध्वे। ममे ममिवहे ममिमहे। माता। मास्यते। मयताम्। अमयत। मयेत। मासीष्ट। अमास्त। अमास्यत। देङ्धातुमेङ्वत्।
196 हुश्नुवोः। जुह्वति। सुन्वति। हुश्नुवोः किम् ?। योयुवति। नोनुवति। सार्वधातुके किम ?। जुहुवतुः। जुहुवुः। असंयोगपूर्वेति किम् ?। अक्ष्णुवन्ति। असंयोगपूर्वघणमोर्विशेषणं न श्नुप्रत्ययस्य। तेन आप्नुवन्तीत्यत्रापि यण्निषेधः सिध्यति। प्रत्ययविशेषणत्वे तु अक्ष्णुवन्तीत्यत्रैव निषेधः स्यादिति भावः। स्यादेतत्– यङ्लुकश्छान्दसत्वाद्योयुवतीत्यादौ प्रत्ययस्य `छन्दस्युभयथे'त्यनेनाद्र्धकत्वाश्रयणे यणादेशो न भवेदिति किमनेन हुश्नुग्रहणेन ?। न च युवन्ति नुवन्तीत्यत्रातिप्रसङ्गवारणार्थं तद्ग्रहणमिति वाच्यम्, अनेकाच' इत्यस्यानुवर्तनेनोक्तदोषाऽभावादिति चेत्। अत्राहुः- - `दाधर्तिदर्धर्तिदर्धर्षिबोभूतु' इति च्छन्दसि निपातनाद्भाषायां यङ्लुकि बोभवी#ईत्यादौ `भूसुवो'रिति गुणनिषेधो न प्रवर्तते, अत एव भाषायामपि यङ्लुक् सिद्ध इति वक्ष्यमाणत्वात्– योयुवतीत्यादावतिप्रसङ्गवारणाय हुश्नुग्रहणं कर्तव्यमेवेति। हुश्नुग्रहणाज्ज्ञापकाद्भाषायामपि क्वचिद्यङ्लुग्भवतीति भाष्यकाराः। एवं च सार्वधातुकपरयोर्हुश्नुवोरनेकाच्त्वाऽवयभिचारादनेकाच इत्यस्यानुवृत्तिरिह किमर्थेत्याशङ्काया निरवकाश एव। तदनुवृत्त्यभावे हुश्नुग्रहणस्य ज्ञापकत्वाऽसंभवादिति दिक्। दुदविथेति। भारद्वाजनियमादिट्। दुद्रोथ। दुद्रुवेति। क्रादित्वा ल्लिटि नेट्। गाङ् गतौ। गाते गाते गाते इति। पूर्वं शपा सह सवर्णदीर्घे कृते `आतो ङितः' इति न प्रवर्तते, `आत्मनेपदेष्वनतः' इति तु प्रवर्तते इति ताऽऽतांझेषु तुल्यं रूपमिति भावः। गै। गावहे। गामहे। जगे। जगाते। गाताम् गाताम् गाताम्। गास्व। उत्तमे तु– गै। गावहै। गामहै। अगात्। अगाताम्। न त्वस्येति। `गाते' इत्यादौ तङं प्रवर्त्त्य ङकारस्य चरितार्थत्वात्। आदेशङकारस्तु न चरितार्थः, स्थानिवद्भावेन ङित्त्वादेव तङः सिद्धत्वादिति भावः। आदादिकोऽयमिति। एवंच गाते गाथे इत्यादावातामाथामोः परतः `आतो ङितः' इत्यस्य प्रवृत्तिशङ्कैव नास्तीति भावः। फलेतु न भेद इति। न च गाते गाथे इत्यादौ शपा सह सवर्णदीर्घे कृतेऽपि पूर्वस्मात्परस्य विधौ कर्तव्ये स्थानिवत्त्वादतः परत्वेन ङितामाकारस्य इय् स्यादिति शङ्क्यम्, पञ्चमीसमासपक्षस्याऽनित्यत्वाभ्युपगमादिति भावः। ञुङुवे इति। `कुङोश्चु'रिति ङस्य ञः। च्युङिति। अस्मात्पचाद्यचि विक्लवः। वबयोरभेदाद्विक्लब इत्यन्ये। मेङ्। प्रणिमयत इति। ननु `नेर्गदे'ति कथमिह णत्वं स्यात्, शिद्विषये आत्वाऽभाव#एन मारूपाऽभावात्, अशिद्विषये कृतात्वेऽप्यस्मिन् णत्वं दुर्लभमेव, प्रतिपदोक्तस्यैव माधातोग्र्रहणौचित्यान्न त्वस्य लाक्षणिकस्य। `गामादाग्रहणेष्वविशेषः' इत्यभ्युपगमे तु मीनातिमिनोत्योरात्वे कृते प्रनिमाता प्रनिमास्यतीत्यादावतिप्रसङ्गः स्यादित्यत आह– तत्रेति। इष्टत्वादिति। अयं भावः- - घुसंज्ञासूत्रे प्रणिदयते प्रणिधयतीत्यादौ णत्वसिद्धये भाष्यकारैरित्थं सिद्धान्तितम्, `नेर्गदनदे'ति णत्वविधौ `घुमे'त्यस्य स्थाने `घुप्रकृतिमाङि'ति पठनीयम्। घुश्च प्रकृतिश्च माङ् चेति द्वन्द्वः। प्रकृतिश्च कस्येत्याकाङ्क्षायां संनिधानात्पूर्वोत्तरयोरेव। तेन न क्वाप्यव्याप्तिः। नापि `मा माने' इत्यत्र, मीनातिमिनोत्योश्चाऽतिव्याप्तिः, माङिति ङकारानुबन्धकस्यैव पठितत्वादिति।
336) हुश्नुवोः सार्वधातुके 6-4-87
वृत्तिः जुहोते: श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यण् स्यादजादौ सार्वधातुके। The वकारः is the replacement for उकारः of the √हु-धातुः or for the उकारः at the end of an अङ्गम् that is अनेकाच् (has more than one vowel) and ends in the श्नु-प्रत्यय:, provided
i) a conjunct consonant does not precede the उकारः।
ii) a सार्वधातुक-प्रत्ययः beginning with a vowel follows the उकारः।
Note: The यण्-आदेश: prescribed by this सूत्रम् is an अपवाद: for the उवँङ्-आदेश: that would have otherwise been done by 6-4-77.
उदाहरणम् – शृण्वन्ति (√श्रु-धातुः, लँट्, प्रथम-पुरुषः, बहुवचनम्)
श्रु + लँट् 3-2-123 = श्रु + ल् 1-3-2, 1-3-3 = श्रु + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शृ + श्नु + झि 3-1-74, श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = शृ + नु + झि 1-3-8
Both “नु” as well as “झि” are ङिद्वत् by 1-2-4. Therefore 1-1-5 prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।
= शृ + नु + अन्ति 7-1-3
= शृ + न् व् + अन्ति 6-4-87 = शृण्वन्ति (वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्)