Table of Contents

<<6-1-4 —- 6-1-6>>

6-1-5 उभे अभ्यस्तम्

प्रथमावृत्तिः

TBD.

काशिका

द्वे इति वर्तमाने उभेग्रहणं समुदायसञ्जाप्रतिपत्त्यर्थम्। ये एवे विहिते ते उभे अपि समुदिते अभ्यस्तसंज्ञे भवतः। ददति। ददत्। दधतु। उभेग्रहणं किम्? नेनिजति इत्यत्र अभ्यस्तानाम् आदिः इति समुदाये उदात्तत्वं यथा स्यात्, प्रत्येकं पर्यायेण वा मा भूतिति। अभ्यस्तप्रदेशाः अभ्यस्तानाम् आदिः 6-1-189 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

346 षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः.. ,

बालमनोरमा

`उगिदचा'मिति नुमि प्राप्ते `नाब्यस्ता'दिति तन्निषेधं वक्ष्यन्नभ्यस्तसंज्ञामाह– उभे अभ्यस्तम्। `एकाचो द्वे प्रथमस्ये'त्यतो `द्वे' इत्यनुवर्तते। `उबे'ग्रहणं समुदायप्रतिपत्त्यर्थम्। `द्वे' इत्यनेन च षष्ठाध्यायविहितमेव द्वित्वं विवक्षितम्, `अनन्तरस्य विधिर्वा प्रतिषेधो वा' इति न्यायात्। तदाह– षाष्ठेत्यादिना। समुदिते किम् ?। नेनिजतीत्यत्र प्रत्येकमभ्यस्तसंज्ञायाम् `अभ्यस्तानामादिः' इत्युदात्तः प्रत्येकं स्यात्।

तत्त्वबोधिनी

379 `द्वे'इत्येनुवृत्त्यैव सिद्धे `उभे'ग्रहणं समुदजायप्रतिपत्त्यर्थमिति व्याचष्टे–उभे समुदिते इति। अन्यथा `नेनिजतीत्यत्र `अभ्यस्तानामादि'रित्याद्युदात्तत्वं प्रत्येकं पर्यायेण स्यात्।

Satishji's सूत्र-सूचिः

240) उभे अभ्यस्तम् 6-1-5

वृत्ति: षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसञ्ज्ञे स्तः। The double words that result due to the doubling done using the rules of the sixth chapter (from 6-1-1 to 6-1-12), together get the अभ्यस्तम् designation.

उदाहरणम् – ददत् – This is the शतृँ-प्रत्ययान्तः of the दा-धातु:। Since this धातु: is in the जुहोत्यादि-गणः, the final form is derived through reduplication (अभ्यासः) using 6-1-10. Here, the दद् of ददत् gets अभ्यस्त-सञ्ज्ञा by 6-1-5.