TBD.
श्नान्तानाम् अङ्गानाम् अभ्यस्तानां च घुवर्जितानाम् आतः ईकारादेशो भवति हलादौ सार्वधातुके क्ङिति परतः। लुनीतः। पुनीतः। लुनीथः। पुनीथः। लुनीते। पुनीते। अभ्यस्तानाम् मिमीते। मिमीषे। मिमीध्वे। संजिहीते। संजिहीषे। संजिहीध्वे। हलि इति किम्? लुनन्ति। मिमते। अघोः इति किम्? दत्तः। धत्तः। क्ङिति इत्येव, लुनाति। जहाति।
TBD.
621 श्नाभ्यस्तयोरात ईत् स्यात् सार्वधातुके क्ङिति हलादौ न तु घोः. जहीतः..
327 ई हल्यघोः। `ई' इति लुप्तप्रथमाकम्। `श्नाब्यस्तयोरातः' इत्यनुवर्तते। `गमहने'त्यतः क्ङितीति, `अत उत्सार्वधातुके' इत्तः सार्वधातुके इत्यतः सार्वधातुके इति चानुवर्तते। तदाह– श्नाभ्यस्तयोरित्यादिना। आल्लोप इति। `अजादौ क्ङिति सार्वधातुके' इति शेषः। मिमते इति। अभ्यस्तत्वाददादेशः। मिमीषे मिमाथे मिमीध्वे। मिमे मिमीवहे मिमीमहे। ममे ममाते ममिरे। ममिषे ममाथे ममिद्वे। ममे ममिवहे ममिमहे। माता। मास्यते। मिमीताम् मिमाताम् मिमतात्। मिमीष्व मिमाथाम् मिमीध्वम्। मिमै मिमावहै मिमामहै। अमिमीत अमिमाताम् अमिमत। अमिमीथाः अमिमाताम् अमिमीध्वम्। अमिमि अमिमीवहि अमिमीमहि। मिमीत मिमीयाताम् मिमीरन्। मिमीथाः। मिमीयाथाम् मिमीध्वम्। मिमीय मिमीवहि मिमीमहि। मासीष्ट। अमास्त अमासाताम् अमासत। अमास्थाः अमासाथाम् अमाध्वम्। अमासि अमास्वहि अमास्महि। अमास्यत। ओ हाङ्गातविति। अनिट्। ओकारः ककारश्च इत्। जहातीति। श्लौ द्वित्वे अभ्यासचुत्वमिति भावः। तसादौ `श्नाभ्यस्तयोरातः' इति नित्यमीत्त्वे प्राप्ते–
283 ई हल्यघोः। श्नाभ्यस्तयोरिति। लुनीते। पुनीते। क्ङितीति किम् ?। लुनति। अघोः किम ?। धत्तः। दत्तः। मिमीते इति। `घुमास्थे'तीत्त्वमिह न प्रवर्तते, तत्राद्र्धधातुक इत्यनुववृत्तेः। अन्यथा मातः माथः, गाते गासे इत्यादावतिप्रसङ्गात्। अत एव काशिकायामुक्तमाद्र्धधातुक इत्यधिकारो न ल्यपीति योगं यावदिति।
410) ई हल्यघोः 6-4-113
वृत्तिः श्नाभ्यस्तयोरात ईत् स्यात् सार्वधातुके क्ङिति हलादौ न तु घोः । When followed by a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is substituted by ईकारः excepting the आकारः of the verbal roots having the घु-सञ्ज्ञा ।
उदाहरणम् – continued from above
The इकारादेश: (as shown above) done by 6-4-116 is optional. In the case where the इकारादेश: is not done we get:
झ + हा + तस्
= झ + ही + तस् 6-4-113 (Note: Since the सार्वधातुक-प्रत्यय: “तस्” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-113 to apply)
= झहीतः 8-2-66, 8-3-15
= जहीतः 8-4-54, 1-1-50
Thus there are two possible final forms जहितः/जहीतः।