Table of Contents

<<3-1-40 —- 3-1-42>>

3-1-41 विदाङ्कुर्वन्त्वित्यन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

विदाङ्कुर्वन्तु इत्येतदन्यतरस्यां निपात्यते। किं पुनरिह निपात्यते? विदेर् लोटि आम् प्रत्ययः, गुणाभावः, लोटो लुक्, कृञश्च लोट्परस्य अनुप्रयोगः। अत्र भवन्तो विदाङ्कुर्वन्तु, विदन्तु। इतिकरणः प्रदर्शनार्थः, न केवलं प्रथमपुरुषबहुवचनं, किं तर्हि सर्वाण्येव लोड्वचनान्यनुप्रयुज्यन्ते, विदाङ् करोतु, विदाङ् कुरुतात्, विदाङ् कुरुताम्, विदाङ् कुरु, विदाङ् कुरुतम् इत्यादि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

573 वेत्तेर्लोटि आम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते पुरुषवचने न विवक्षिते..

बालमनोरमा

296 विदाङ्कुवन्त्वित्यन्तयतरस्याम्। `कृञ् चानुप्रयुज्यते लिटी'त्युत्तरमिदं सूत्रम्। इतिशब्दः प्रकारे। एवंजातीयकं वैकल्प्येन प्रत्येतवयमित्यर्थः। वेत्तेरिति। लुगविकरणाद्विदधातोः लोटिपरे आम्प्रत्ययो निपात्यते इत्यर्थः। लोडन्तेति। आम्न्ताद्विदेर्लोडनतकृञ्धातोनुप्रयोगश्च निपात्यतैत्यर्थः। ननु `विदाङ्कुर्वन्तु'ति लोटि प्रथमपुरुषबहुवचनस्यैव सूत्रे निर्देशात्कतं लोडन्तसामान्यानुप्रयोग इत्यत आह– पुरुषेति। कुर्वन्त्विति प्रथमपुरुषो बहुवचनं च न विवक्षितमित्यर्थः। तयोस्तु नान्तरीयकमुच्चारणमिति भावः। इति शब्दादिति। तस्य प्रकारवचनस्य लोकप्रयोगानुसारित्वादिति भावः।

तत्त्वबोधिनी

256 लोटो लुगिति। `आमः' इति सूत्रे `मन्त्रे घसे'त्यतो लेरित्यनुवर्त्त्य आमः परस्य लेर्लुगितिव्याकुर्वतां मतेनेदमुक्तम्। निष्कर्षे तु तेनैव लुगिति बोध्यम्। पुरुषवचने इति। प्रथमपुरुषो, बहुवचनं चेत्यर्थः। `परस्मैपदमप्यविवक्षितमेवे'ति केषांचिन्मते कर्मव्यतिहारे तङि– व्यतिविदाङ्कुरुताम्। व्यतिविदाङ्कुर्वातामित्यादि ज्ञेयम्।

Satishji's सूत्र-सूचिः

विद्+ लोँट् (आशिषि) 3-3-173 = विद्+ आम् + कृ + लोँट् 3-1-41
= विदाम् + कृ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विदाम् + कृ + ति 1-3-3 = विदाम् + कृ + तु 3-4-86
= विदाम् + कृ + उ + तु 3-1-79, ‘उ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114

Optionally तु gets तातङ्-आदेशः
= विदाम् + कृ + उ + तातङ् 7-1-35, 1-1-55
= विदाम् + कृ + उ + तात् 1-3-3
= विदाम् + कर् + उ + तात् 7-3-84, 1-1-51 (Note: Since तातङ् is a ङित्-प्रत्ययः, 1-1-5 stops the गुणादेशः on “उ” which would have been done by 7-3-84.)
= विदाम् + कुरुतात् 6-4-110 = विदांकुरुतात् 8-3-23 = विदांकुरुतात्/विदाङ्कुरुतात् 8-4-59