TBD.
आम्प्रत्ययस्य पश्चात् कृञनुप्रयुज्यते लिटि परतः। कृञिति प्रत्याहारेण कृभ्वस्तयो गृह्यन्ते, तत् सामर्थ्यादस्तेर् भूभावः न भवति। आचयाञ् चकार। पाचयाम् बभूव। पाचयाम् आस।
TBD.
474 आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते. तेषां द्वित्वादि..
85 कृञ्चानु। `कास्प्रत्ययादा' मित्यत आमित्यनुवृत्तं पञ्चम्या विपरिणम्यते। प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रते।लिटि परे यः कृञ् सोऽनुप्रयुज्यत इत्यन्वयः। फलितमाह– आमन्ताल्लिट्परा इति। लिट्?शिरस्का इत्यर्थः। कृभ्वस्तय इति। `कृ'ञित्यनेन कृभ्वस्तीनां ग्रहणमिति भावः। अनुप्रयुज्यन्त इति। प्रशब्दादनुशब्दाच्चाऽव्यवहिताः पश्चात्पयुज्यन्त इत्यर्थः। `विपर्यासनिवृत्त्यर्थं व्यवहितनिवृत्यर्थं चे'ति वार्तिकाद्भाष्याच्च। एवं च `तं पातयां प्रथममास पपात पश्चात्' `प्रभ्रंशयां यो नहुषं चकारे'त्यादिप्रयोगाः प्रामादिका एव। धातोराम् स्यात्, कृञ्चानुप्रयुज्यत इत्युक्तसमुच्चयार्थश्चकारः। ननु कृञ एवाऽनुप्रयोगश्रवणात्कथं भ्वस्त्योरप्यनुप्रयोग इत्यत आह- - आम्प्रत्ययवदित्यादिना। `कृञ्चानुप्रयुज्यत' इत्यत्र कृञ एकस्यैवानुप्रयोगविधौ सति `आम्प्रत्यव'दिति सूत्रे अनुप्रयुज्यमानस्येत्यस्य कृञ इति विशेषणं व्यर्थं स्यात्, धात्वन्तरस्याऽनुप्रयोगाऽप्रसक्तेः। ततश्च `कृञ' इति विशेषणादन्यस्#आप्यनुप्रयोगो विज्ञायत इत्यर्थः। ननु कृञोऽन्यस्याऽप्यनुप्रयोगो विज्ञायतां, भ्वस्त्योरपीत्येव कुत आयातमित्यत आह– तेनेति। कृञ्ग्रहणेनेत्यर्थः। प्रत्याहाराश्रयणादिति। एतच्च भाष्ये स्पष्टम्। नन्वनुप्रयुज्यमानानां कृभ्वस्तीनामाम्प्रकृतिभूतानां च कथमन्वय इत्यत आह– तेषामित्यारभ्याभेदेनान्वय इत्यन्तेन। सामान्यविसेयोरभेदान्वयस्य न्याय्यत्वादिति भावः। कृञ इव भ्वस्त्योरपि क्रियासामान्यवाचित्वात्, धातूनामनेकार्थत्वादिति ज्ञेयम्। ननु `कृभ्वस्तियोगे' इत्यस्य, `कृञो द्वितीये' त्यस्य च सूत्रस्य मध्ये `अभिविधौ संपदा चे'ति पठितम्। एवं च कृञ्प्रत्याहारे संपदोऽपि कुतो न ग्रहणमित्यत आह– संपदिस्त्विति। अनन्वितार्थत्वादिति। सिद्धस्य वस्तुनो रूपान्तरापत्तिः सम्पदेरर्थः। एधादिधातोस्त्वाम्प्रकृतिभूतस्य वृद्ध्यादिरर्थः। तयोरुभयोरपि विशेषरूपत्वेन सामान्यविशेषभावाऽभावेन अभेदान्वयाऽसंभवादित्यर्थः। अत एव कृभ्वस्तीनां ग्रहणमिति भाष्यं सङ्गच्छत इति भावः। ननु आम्प्रत्ययवदिति कृञ आत्मनेपदविधायकसूत्रं वक्ष्यमाणं व्यर्थं, `स्वरितञित' इत्येव तत्सिद्धेरित्याशङ्क्याह—कृञस्त्विति।
66 कथं तर्हि `तं पातयां प्रथममास पपात पश्चात्'। `प्रभ्रंशयां यो नहुषं चकारे'ति ?। प्रमाद एवायम्। न च विपरीतप्रयोगनिवृत्तिमात्रे सूत्रस्य तात्पर्यात्पश्चात्प्रयोगो व्यवहितोऽपि न दुष्यतीति वाच्यम्, `विपर्यासनिवृत्त्यर्थं व्यवहितनिवृत्त्यर्थं चे'ति वार्तिकविरोधात्। अन्यस्यापीति। यदीह कृञ्शब्देन एक एव धातुर्गृह्रेत तदा धात्वन्तरस्य प्राप्त्यभावात्`आम्प्रत्ययव'दिति सूत्रेऽनुप्रयुज्यमानस्य कृञ इति विशेषणं व्यर्थं स्यादिति भावः। न चात्र `कृञ्चे'ति चकारेणैवाऽनुप्रयोगोऽन्यस्यापीति ज्ञायत इति शङ्क्यं, `धातोराम्? स्यात्, अनुप्रयुज्यते च लिट्परः कृञित्यर्थसमर्पकतया तस्योपक्षीणत्वात्। अभेदान्वय इति। सामान्यविशेषयोरभेदान्वयो लोकसिद्ध इति भावः। एवं च एंधाचक्रे एधांबभूवे इत्यादौ एककर्तृका भूतानद्यतनपरोक्षा वृद्ध्यभिन्ना क्रियेति तुल्यो बोधः। ननु करोतिः सकर्मको भवतिस्त्वकर्मक इति कथमिह तुल्यतेति चेत् ?। अत्राहुः– यदा हि करोतिरुत्पादनार्थकः स्वातन्त्र्येण प्रयुज्यते– घटं चक्रे राज्यं चकारेति, तदा नियमेन सकर्मकत्वम्। यदा तु क्रियान्तरसमानाधिकरणः करोतिः प्रयुज्यते- - जुहवांचकारेत्यादौ, तदा यत्समानाध#इकरणः करोतिस्तस्य सकर्मकत्वाऽकर्मकत्वाभ्यां स्वयमपि तथाबावं भजते। एवं भ्वस्त्योरप्याम्प्रकृतिसामानाधिकरण्येन क्वचित्सकर्मकत्वं बोध्यम्। अत एवाऽनुप्रयुज्यमानाद्भवतेः सकर्मकत्वात्कर्मणि लिट्। तथा च माघः– `तस्यातपत्रं बिभरांबभूवे'इति, श्री हर्षश्च। `तपर्त्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभरांबभूविरे' इति। अत्रेदमवधेयं- - जुहाव जुहवां चकार जुहवांबभूवेत्यादौ केवलो होमो गम्यते, इतरत्र तु होमरूपा क्रियेति बोधः। फले तु न कश्चिद्विशेषः, घटमानय द्रव्यघटमानयेत्यत्र यथा। एवं चाऽऽम्प्रकृत्यर्थगतिकारकसङ्ख्यादिविशेषाभिव्यक्तिरनुप्रयोगस्य फलमिति। अनन्वितेति। संपद्यर्थस्याऽऽम्प्रकृत्यर्थस्य चाऽभेदान्वयो न संभवति, उभयोरपि विशेषरूपत्वादिति भावः।
वृत्तिः आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते। Following a term ending in the affix “आम्”, one of the following is annexed:
i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
iii. √अस् (असँ भुवि २. ६०) followed by लिँट्
Note: In this सूत्रम्, “कृञ्” is a प्रत्याहार: formed starting from “कृ” in 5-4-50 and ending with “ञ्” in 5-4-58
Example continued from 2-4-81
दर्शयाम्
= दर्शयाम् + अस् + लिँट् 3-1-40
= दर्शयाम् + अस् + णल् 3-4-78, 3-4-82
Following the usual steps we get
= दर्शयामास।