Table of Contents

<<8-4-58 —- 8-4-60>>

8-4-59 वा पदान्तस्य

प्रथमावृत्तिः

TBD.

काशिका

पदान्तस्य अनुस्वारस्य ययि परतः वा परसवर्णादेशो भवति। तङ्कथञ्चित्रपक्षण्डयमानन्नभःस्थम्पुरुषो ऽवधीत्, तं कथं चित्रपक्षं डयमानं नभःस्थं पुरुषो ऽवधीत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

80 त्वङ्करोषि, त्वं करोषि..

बालमनोरमा

126 वा पदान्तस्य। `अनुस्वारस्य ययि परसवर्ण' इत्यनुवर्तते। तदाह– पदान्तस्येत्यादिना। त्वङ्करोषीति। त्वम्-करोषीति। स्थिते मोऽनुस्वारः। परसवर्णो ङकारः। तदभावपक्षे अनुस्वार एव श्रूयते। अत्रेति। सम्-यन्तेति स्थिते मोऽनुस्वारः। तस्य परनिमित्तभूतयकारसवर्णः अनुनासिक एव यकारो भवति, आन्तर्यात्। तथाच सय्यँन्तेति रूपम्। एवं सं-वत्सर इति स्थिते अनुस्वारस्य परसवर्णोनुनासिको वकारः। सव्वँत्सर इति रूपम्। यं-लोकमिति स्थिते, अनुस्वारस्य परसवर्णोऽनुनासिको लकारः। यल्लोंकमिति रूपम्। परसवर्णाभावपक्षे तु अनुस्वार एवेत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

13) वा पदान्तस्य 8-4-59

वृत्ति: पदान्तस्यानुस्वारस्य ययि परतो वा परसवर्णादेशो भवति । When an अनुस्वारः occurs at the end of a पदम् and is followed by a यय् letter, then it is optionally substituted by a letter which is सवर्ण: with that following यय् letter.

गीतासु उदाहरणम् – श्लोकः bg1-3

महतीम् + चमूम् = महतीं चमूम् or महतीञ् चमूम्

Note:

1. In writing the former form (महतीं चमूम्) is generally used, but while pronouncing it is stylistically better to use the latter form (महतीञ् चमूम्)

2. The five letters ह् , र् , श् , ष् and स् do not have any सवर्ण letters (and hence no सवर्ण nasal.) So when the अनुस्वारः precedes one of these five then it remains as अनुस्वार: only.