Table of Contents

<<3-1-78 —- 3-1-80>>

3-1-79 तनादिकृञ्भ्यः उः

प्रथमावृत्तिः

TBD.

काशिका

तनु विस्तारे इत्येवम् आदिभ्यो धातुभ्यः कृञश्च उप्रत्ययो भवति। शपो ऽपवादः। तनोति। सनोति। क्षणोति। कृञः खल्वपि करोति। तनादिपाठादेव उप्रत्यये सिद्धे करोतेरुपादानं नियमार्थम्, अन्यत् तनादिकार्यं मा भूतिति। तनादिभ्यस् तथासोः 2-4-79। इति विभाषा सिचो लुग् न भवति। अकृत। अकृथाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

574 तनादेः कृञश्च उः प्रत्ययः स्यात्. शपोऽपवादः. गुणौ. विदाङ्करोतु..

बालमनोरमा

297 तनादिकृञ्भ्यः उः। शपोऽपवाद इति। अनेन शब्विषय एवास्य प्रवृत्तिरिति सूचितम्। `सार्वधातुके य'गित्यतः सारवधातुकग्रहणस्य `कर्तरि श'बित्यतः कर्तरीत्यस्य चानुवृत्तेरिति भावः। तेनेति। गणकार्यस्याऽनित्यतया `\उfffदासे' दित्यत्र अदादिगणकार्यं शपो लुङ्न भवतीत्यर्थः। वस्तुतस्तु कृञ्ग्रहणस्यात्र भाष्ये प्रत्याख्यातत्वादुक्तज्ञापनाऽभावाद्वि\उfffदासेदित्यसंबद्धमेवेत्याहुः। `वि\उfffदास्त'मित्यत्र तुआगमशास्त्रस्याऽनित्यत्वान्नेडित्याहुः। विदांकरोत्विति। अत्र विदेर्लोटि आमि लोटोलुकिआमन्ताद्विदेः कृञो लोडन्तस्यानुप्रयोगः।तत्र लोटस्तिपि `एरु' रित्युत्वे शपं बाधित्वा उप्रत्यये ऋकारस्य गुणे रपरत्वे उकारस्य तिब्निमित्तो गुणः। तातङि तु ऋकारस्य गुणे रपरे तातङो ङित्त्वादुकारस्य गुणाऽभावे विदाङ्करुतादिति स्थिते–

तत्त्वबोधिनी

257 तेनेति `वि\उfffदासे'दित्यत्र शपो लुगभावः सिद्ध इति भावः। एवमप्यवि\उfffदास्तमित्यत्रेडभावः कथमिति चेदागमशास्त्रस्याऽनित्यत्वादिति गृहाण।

Satishji's सूत्र-सूचिः

376) तनादिकृञ्भ्य उः 3-1-79

वृत्तिः तनादेः कृञश्च उः प्रत्ययः स्यात्। When a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः।

Note: 3-1-79 is अपवादः to 3-1-68 कर्तरि शप्‌।

Example continued from above
विदाम् + कृ + तु = विदाम् + कृ + उ + तु 3-1-79, “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= विदाम् + कर् + ओ + तु 7-3-84, 1-1-51 = विदांकरोतु 8-3-23 = विदांकरोतु/विदाङ्करोतु 8-4-59