Table of Contents

<<6-4-109 —- 6-4-111>>

6-4-110 अत उत् सार्वधातुके

प्रथमावृत्तिः

अतः ६/१ उत् १/१ सार्वधातुके ७/१
हिन्दी — उकारप्रत्ययान्त कृ अङग के (अतः) अकार के स्थान में (उत्) उकारादेश हो जाता है, कित् ङित् (सार्वधातुके) सार्वधातुक् परे रहते ॥

काशिका

उकारप्रत्ययान्तस्य करोतेः अकारस्य स्थाने उकारः आदेशो भवति सार्वधातुके क्ङिति परतः। कुरुतः। कुर्वन्ति। सार्वधातुकग्रहणं किम्? भूतपूर्वे ऽपि सार्वधातुके यथा स्यात्, कुरु। तपरकरणं लघूपधस्य गुणनिवृत्त्यर्थम्। क्ङिति इत्येव, करोति। करोषि। करोमि।

Ashtadhyayi (C.S.Vasu)

Before Sarvadhatuka affix with an indicatory क् or ङ्, short उ is substituted for the अ of कृ (कर्+उ) when gunated.#

लघु

680 उप्रत्ययान्तस्य कृञोऽकारस्य उः स्यात् सार्वधातुके क्ङिति| कुरुतः||

बालमनोरमा

298 अत उत्। उप्रत्ययान्तस्येति। `उतश्च प्रत्यया'दित्यतस्तदनुवृत्तेरिति भावः। अकारस्य उत्त्वे कृते तस्य लघूपधगुणमाशङ्क्य आह—तपरेति। इदं स्थानिवत्सूत्रे भाष्ये स्पष्टम्। विदाङ्कुरुतामिति। विदाङ्कुर्वन्त्वित्यपि ज्ञेयम्। `न भकुर्छुरा'मिति निषेधात् `हलि चे'ति दीर्घो न। हेर्लुगिति। तर्हि सार्वधातुकाऽभावात्कथमुत्त्वमित्यत आह–आभीयत्वेनेति। विदांकुर्विति। विदांकुरुतात् विदांकुरुतम् विदांकुरुत। विदांकरवाणीति। आटः पित्त्वेन ङित्त्वाऽभावादुकारस्य गुण इति भावः। विदांकरवाव विदांकरवाम। लड\उfffदाह— अवेदिति। हल्ङ्यादिना सिपो लोपे विशेषमाह—

तत्त्वबोधिनी

258 क्ङिति किम् ?। करोति। करोषि। लुकोऽसिद्धत्वादिति। सार्वधातुकग्रहणमुत्तरार्थमेव नात्राऽऽवश्यकम्। `इह भूतपूर्वगत्या सार्वधातुकपरत्वामाश्रीयते' इति वृत्तिमते त्वसिद्धत्ववर्णनस्योपयोगलेशोऽपि नास्तीति ज्ञेयम्।

Satishji's सूत्र-सूचिः

377) अत उत्‌ सार्वधातुके 6-4-110

वृत्तिः उप्रत्‍ययान्‍तस्‍य कृञोऽकारस्‍य उः स्‍यात् सार्वधातुके क्ङिति । When √कृ (डुकृञ् करणे ८. १०) ends in the “उ”-प्रत्यय: and is followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, then there is a substitution of उकारः in place of the अकारः (which is a result of गुणादेशः) of √कृ।

उदाहरणम् – विदाङ्कुरुतात् (√विद्, अदादि-गणः, विदँ ज्ञाने, धातु-पाठः #२. ५९) लोँट् (आशिषि), कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।