Table of Contents

<<3-3-172 —- 3-3-174>>

3-3-173 आशिषि लिङ् लोटौ

प्रथमावृत्तिः

TBD.

काशिका

आशंसनम् आशीः, अप्राप्तस्य इष्टस्य अर्थस्य प्राप्तुम् इच्छा। प्रकृत्यर्थविशेषणं च एतत्। आशीर्विशिष्टेऽर्थे वर्तमानाद् धातोः लिङ्लोटौ प्रत्ययौ भवतः। चिरं जीव्याद् भवान्। चिरं जीवतु भवान्। आशिषि इति किम्? चिरं जीवति देवदत्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

412

बालमनोरमा

44 आशिषि लिङ्। आशिष्यपीत्यर्थः। आशासनमासीः, इष्टप्राप्तीच्छा।

तत्त्वबोधिनी

35 ननु विध्यादिसूत्र एव संप्रश्नप्रार्थनाशीःष्वित्युच्यतां किमनेन पृथक्सूत्रकरणेनेति चेत्। अत्राहुः— इह हि `क्तिच्क्तौ चे'त्युत्तरसूत्रार्तमाशिषीति तावदावश्यकम्। लिङ्लोटावपीहैव विधेयौ, विध्यादिसूत्रे आशीग्र्रहणे हि `स्मे लो'डित्यादिना स्वविषये परत्वादद्बाधः स्यात्। सिद्धान्ते तु परत्वादेष विधिः `स्मे लो'रडित्यादेर्बाधक इति महान्विशेष इति॥

Satishji's सूत्र-सूचिः

296) आशिषि लिङ्लोटौ 3-3-173

वृत्तिः आशीर्विशिष्टेऽर्थे वर्तमानाद् धातोर्लिङ्लिटौ प्रत्ययौ भवतः। The affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.

उदाहरणे – पुत्रस्ते भवेत्। पुत्रस्ते भवतु/भवतात्।
भवेत् (विधि-लिँङ्, प्रथम-पुरुषः, एकवचनम्), भवतु/भवतात् (आशीर्लोँट्, प्रथम-पुरुषः, एकवचनम्)