TBD.
तु हि इत्येतयोः आशिषि विषये तातङादेशो भवत्यन्यतरस्याम्। जीवताद् भवान्। जीवतात् त्वम्। जीवतु भवान्। जीव त्वम्। ङित्करणम् गुणवृद्धिप्रतिषेधार्थम् इति सर्वादेशस्तातङ् भवति। ङित्त्वाच् चास्य स्थानिवद्भावात् यत् पित्त्वं प्राप्नोति तन्निवर्तते। ङिच्च पित् न भवति। तेन ब्रुव ईट् 7-3-93 इति ब्रूताद् भवानिति ईट् न भवति। आशिषि इति किम्? ग्रामं गच्छतु भवान्। गच्छ त्वम्। तातङि ङित्वं सङ्क्रमकृत् स्यादन्त्यविधिश्चेत् तच्च तथा न। हेरधिकारे हेरधिकारो लोपविधौ तु ज्ञापकम् आह। तातङो ङित्त्वसामर्थ्यान् न अयम् अन्त्यविधिः स्मृतः। न तद्वदनङादीनां तेन ते ऽन्त्यविकारजाः।
TBD.
414 आशिषि तुह्योस्तातङ् वा. परत्वात्सर्वादेशः. भवतात्..
46 अथाऽऽशिषि लोटो विशेषमाह—तुह्रोस्तातङ्। तुश्च हिश्च तुही, तयोरिति विग्रहः। तातङि ङकार इत्। अकार उच्चारणार्थः। तादित्यादेशः शिष्यते। ननु किमस्य अनेकाल्त्वात्सर्वादेशता,उत ङित्त्वादन्तादेशतेत्यत आह–अनेकाल्त्वात्सर्वादेश इति। ननु `ङिच्चे'त्यस्य सर्वादेशापवादतयाऽनङादेरिव तातङोऽप्यन्त्यादेशत्वमेवोचतमित्याशङ्कते–यद्यपीति। परिहरति–तथापीति। परेण बाध्यत इति। तातङादेशे `ङिच्चे'त्ययं विधिः `अनेकाल्शित्सर्वस्ये'ति परेण बाध्यत इत्यर्थः। ननु `परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय' इति परापेक्षया अपवादस्य प्रबलत्वान्ङिच्चेत्यन्तादेशत्वमेव तातङि युक्तमित्यत आह–मन्थरं प्रवृत्त इति। `ङिच्चेति विधि'रिति शेषः। तातङ्विषये ङिच्चेति विधिर्मन्थरं प्रवृत्त इति हेतोः परेण सर्वादेशविधिना बाध्यत इत्यर्थः। कुतो मन्दप्रवृत्तिकत्वमित्यत आह– अनन्यार्थेत्यादिना। अन्तादेशत्वादन्योऽर्थो यस्य ङित्त्वस्य न विद्यते तदनन्यार्थम्। तथाविधं ङित्त्वं येषां तेषु अनङादिषु ङिच्चेति विधिश्चरितार्थः– लब्धप्रयोजनक-इति कृत्वा मन्दं प्रवृत्त इत्यर्थः। तातङो ङित्त्वं तु अन्तादेशत्वापेक्षयाऽनन्यार्थं नेत्याह– सम्भवत्प्रयोजनङकारे इति। सम्भवन्ति प्रयोजनानि अन्तानि यस्य स सम्भवत्प्रयोजनः, तथाविधो ङकारो यस्य तथाविधे तातङीत्यर्थ-। कथं सम्भवत्प्रयोजनकत्वमित्यत आह–गुणवृद्धिप्रतिषेध- सम्प्रसारणाद्यर्थतयेति। द्विष्टादित्यादौ लघूपधादिगुणनिषेधः। स्तुतात्,युतादित्यादा'वुतो वृद्धिर्लुक हली'ति विहिताया वृद्धेर्निषेधः। `वश कान्तौ' उष्टादित्यत्र `ग्रहिज्यावयी'ति सम्प्रसारणम्। आदिना ब्राऊतादित्यत्र `ब्राउव ई'डितीटोऽभावस्य सङ्ग्रहः। ननु तातङ्विषये ङिच्चेति विधिर्मन्दं प्रवर्तताम्, अथापि `परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय' इति न्यायेन परस्यापि सर्वादेशविधेरपवादभूतेन ङिच्चेत्यनेन बाध एवोचित इत्यत आह– इहेति। इह = तातङ्विषये अनेकाल्शित्सर्वस्येति सामान्यशास्त्रस्य, ङिच्चेति विशेषशास्त्रस्य च समबलत्वात्सामान्यशास्त्रं विशेषशास्त्रेम न बाध्यत इत्यर्थः। अयं भावः- - अपवादशास्त्रस्य परनित्यान्तरङ्गापेक्षया प्राबल्ये निरवकाशत्वमेव बीजम्। प्रकृते च ङिच्चेति विधिरनङादिङित्तवमन्तादेशत्वैकप्रयोजनकं प्रयोजनान्तरविरहेण निरवकाशत्वाज्झटिति परिगृह्णन्तकृतार्थतामनुभवन्, तातङो ङित्त्वं प्रयोजनान्तरसत्त्वेन सावकाशत्वादुपेक्षत इति। तदुक्तं भाष्ये– `ङित्त्वस्य सावकाशत्वाद्विप्रतिषेधात्तातङ्सर्वादेश' इति। अधिकास्तु विस्तरभिया विरम्यते। भवतादिति। आशिषि लोटस्तिपि शपि गुणे अवादेशे उकारे तोस्तातङ्सर्वादेशः। ङकार इत्। द्वितीयतकारादकार उच्चारणार्थः।
36 यद्यपि `तिह्रोस्तात'ङिति वक्तुं शक्यं, तथापि लाघवाऽभावादतिप्रसङ्गवारणाय हिशब्दसाहर्याश्रयणे लोट् इत्यनुवर्तमाने वा गौरवाच्च तुह्रोरित्युक्तम्।
298) तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् 7-1-35
वृत्तिः आशिषि तुह्योस्तातङ् वा । When used in the sense of benediction, “तातङ्” is optionally substituted for “तु” and “हि”।
उदाहरणम् – भवतात् (√भू-धातुः, आशीर्लोँट्, प्रथम-पुरुषः, एकवचनम्)
भू + आशीर्लोँट् 3-3-173 = भू + ल् 1-3-2, 1-3-3
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + ति 1-3-3 = भू + तु 3-4-86
= भू + शप् + तु 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भो + शप् + तु 7-3-84 = भो + अ + तु 1-3-3, 1-3-8 = भवतु 6-1-78
Optionally तु gets तातङ्-आदेशः to give the form भवतात् 7-1-35, 1-1-55, 1-3-3
Note: In the तातङ्-आदेशः, the अकारः before the ङकारः is उच्चारणार्थम्।