Table of Contents

<<8-3-22 —- 8-3-24>>

8-3-23 मो ऽनुस्वारः

प्रथमावृत्तिः

TBD.

काशिका

मकारस्य पदान्तस्य अनुस्वारः आदेशो भवति हलि परतः। कुण्डं हसति। वनं हसति। कुण्ड याति। वनं याति। हलि इत्येव, त्वम् अत्र। किम् अत्र। पदन्तस्य इत्येव, गम्यते। रम्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

77 मान्तस्य पदस्यानुस्वारो हलि. हरिं वन्दे..

बालमनोरमा

123 मोऽनुस्वारः। पदस्येत्यधिकृतम्। म इति षष्ठ\उfffद्न्तं पदस्य विशेषणं। तदन्तविधिः। हलि सर्वेषामित्यतो हलीत्यनुवर्तते। तदाह-मान्तस्येत्यादिना। अलोन्त्यस्येति। उपतिष्ठत इति शेषः। ततस्च मान्तस्य पदस्य योऽन्त्योऽल् तस्येत्यर्थः। पदान्तस्य मस्येति फलितम्। हरिं वन्द इति। हरिम्-वन्द इति स्थिते मस्यानुस्वारः। गम्यत इति। गम्लृ गतौ। कर्मणि लट्। `भावकर्मणोः' इत्यात्मनेपदे यक्। अत्र मस्य पदान्तत्वाभावान्नानुस्वारः।

तत्त्वबोधिनी

97 मोऽनुस्वारः। `हलि सर्वेषा'मित्यतो `हली'त्यनुवर्तते `पदास्ये'ति च, तदाह- मान्तस्येत्यादि। हलि किम् ?। त्वमत्र। किमत्र।

Satishji's सूत्र-सूचिः

12) मोऽनुस्वारः 8-3-23

वृत्ति: मकारस्य पदस्य अनुस्वार आदेशो भवति हलि परतः । When the letter म् occurs at the end of a पदम् and is followed by a हल् letter, it is replaced by an अनुस्वारः (represented by a dot.)

गीतासु उदाहरणम् – श्लोकः bg1-3

महतीम् + चमूम् = महतीं चमूम्