Table of Contents

<<3-4-85 —- 3-4-87>>

3-4-86 एरुः

प्रथमावृत्तिः

TBD.

काशिका

लोटः इत्येव। लोडादेशानाम् इकारस्य उकारादेशो भवति। पचतु। पचन्तु। हिन्योरुत्वप्रतिषेधो वक्तव्यः। न वा उच्चारणसामर्थ्यात्। अथ वा वा इति वर्तते, सा च व्यवशितविभाषा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

413 लोट इकारस्य उः. भवतु..

बालमनोरमा

45 लोटस्तिपि विशेषमाह–एरुः। `एः-उः' इति च्छेदः। एरिति षष्ठ\उfffद्न्तम्। इवर्णस्येति लभ्यते। `लोटो लङ्व'दित्यतो लोट इत्यनुवर्तते। तदाह–लोट इति। भवत्विति। तिपि शपि गुणेऽवादेशे तिप इकारस्य उकारः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

297) एरुः 3-4-86

वृत्तिः लोट इकारस्‍य उः । इकारः of a लोँट् is substituted by उकारः |

उदाहरणम् – भवतु (√भू-धातुः, लोँट्, प्रथम-पुरुषः, एकवचनम्)
भू + लोँट् 3-3-162 = भू + ल् 1-3-2, 1-3-3
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + ति 1-3-3 = भू + तु 3-4-86
= भू + शप् + तु 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भो + शप् + तु 7-3-84 = भो + अ + तु 1-3-3, 1-3-8 = भवतु 6-1-78