Table of Contents

<<8-2-20 —- 8-2-22>>

8-2-21 अचि विभाषा

प्रथमावृत्तिः

TBD.

काशिका

अजादौ प्रत्यये परतो ग्रो रेफस्य विभाषा लकारादेशो भवति। निगिरति, निगिलति। निगरणम्, निगलनम्। निगारकः, निगालकः। इयं तु व्यवस्थितविभाषा। तेन गलः इति प्राण्यङ्गे नित्यं लत्वं भवति, गरः इति विषे नित्यं न भवति। निगार्यते,निगाल्यते इति णिलोपस्य स्थानिवद्भावातचि विभाषा इति लत्वविकल्पः। पूर्वत्र असिद्धे न स्थानिवतिति एतदपि सापवादम् एव, तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति। अन्तरङ्गत्वाद् वा कृते लत्वविकल्पे णिलोपो भविष्यति। गिरौ, गिरः इत्यत्र धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् इति लत्वं न भवति। गिरतिर् वा लत्वविधावधिकृतः, गृणातेरेतद् रूपम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

666 गिरते रेफस्य लो वाजादौ प्रत्यये. गिरति, गिलति. जगार, जगाल. जगरिथ, जगलिथ. गरीता, गरिता, गलीता, गलिता.. प्रच्छ ज्ञीप्सायाम्.. 42.. ग्रहिज्येति सम्प्रसारणम्. पृच्छति. पप्रच्छ. पप्रच्छतुः. प्रष्टा. प्रक्ष्यति. अप्राक्षीत्.. मृङ् प्राणत्यागे.. 42..

बालमनोरमा

371 अचि विभाषा। `ग्रो यङी'त्यतो ग्र इत्यनुवर्तते। `कृपो रो लः' इत्यतो रो ल इति. तदाह – गिरतेरिति। अजादाविति। `धातोः कार्यमुच्यमानं तत्प्रत्यये भवतीति परिभाषालब्धस्य प्रत्ययस्य अचा विशेषणात्तदादिविधिः। तेन गिरावित्यादौ नेति `मृजेर्वृद्धि'रिति सूत्रभाष्ये स्पष्टम्। दृङ् आदरे इति। ह्यस्वान्तोऽयम्। `उश्चे'ति कित्त्वान्न गुणः। आदृतेति। `ह्यस्वादङ्गा'दिति सलोपः। प्रच्छ ज्ञीप्सायामिति। ज्ञातुमिच्छा - ज्ञीप्सा। अनिडयम्। पृच्छतीति। शस्य ङित्त्वात् `ग्रहिज्ये'ति रेफस्य संप्रसारणमृकारः, पूर्वरूपं चेति भावः। पप्रच्छतुरिति। संयोगात्परत्वेन कित्त्वाऽभावान्न संप्रसारणमिति भावः। भारद्वाजनियमात्थलि वेडिति म्तवाह – पप्रच्छिथ पप्रष्ठेति। इडभावपक्षे व्रश्चादिना छस्य षः, थस्य ष्टुत्वेन ठ इति भावः। पप्रच्छिव। प्रष्टेति। छस्य व्रश्चेति। सूत्रे सतुक्कस्य छस्य ग्रहणात्। किरादयो वृत्ता इति। नचैवं सति `किरश्च पञ्चभ्यः' इत्यत्र पञ्चग्रहणं व्यर्थं, किरादीनां पञ्चत्वादिति वाच्यं, स्य `रुदादिभ्यः सार्वधातुके' इत्युत्तरार्थत्वात्। सृज विसर्गे। अनिट्। सृजति।ससर्ज। ससृजतुः। अजन्ताऽकारवत्त्वाऽभावेऽपि `विभाषा सृजिदृशो'रिति थलि वेडिति मत्वाह – ससर्जिथ सरुआष्ठेति। इडभावे `व्रश्चे'तिजस्यषः, थस्य ष्टुत्वेन ठः, पित्त्वेनाऽकित्त्वात् `सृजिदृशो'रित्यमागम इति भावः। ससृजिव। टु मस्जो। मज्जतीति। सस्य श्चुत्वेन शः, तस्य जश्त्वेन ज इति भावः। ममङ्क्थेति। मस्जेर्द्वित्वे हलादिशेषे ममस्ज् थेति स्तिते `स्को'रिति सकारलोपे ममज् थ इतिस्थिते जस्य कुत्वेन गकारे, `मस्जिनशो'रिति नुमि, तस्यानुस्वारे, तस्य परसवर्णो ङकारः, गस्य चर्त्वेन क इति बोध्यम्। यद्यपि अकारात्परत्र नुमि सत्यपि इदं सिध्यति, तथापि `अन्त्यात्पूर्वो नु'मित्यस्य' `मग्न' इत्यादौ नलोपः फलम्। अन्यथा उपधात्वाऽभावान्नस्य लोपो न स्यादिति भावः। एवं - मङ्क्तेति। मङक्ष्यतीत्यत्र तु सस्य षत्वं विशेषः। `रुजो भङ्गे' इत्यारभ्य `विच्छ गतौ' इत्यतः प्रागनिटः। `अनुदात्तस्य चर्दुपधस्ये'त्यम्विकल्पं मत्वाह - स्प्रष्टा स्पर्ष्टेति। णुद प्रेरणे। णोपदेशोऽयम्। `विश प्रवेशने' इत्यारभ्य `सद्लृ शातने' इत्यन्ता अनिटः। तत्र अदुपधस्य थलि वेट्। अन्यस्य तु नित्यमेवेट्। मृशेः `अनुदात्तस्य चे' त्यम्विकल्पः। तदाह - अम्राक्षीत् - अमर्क्षीदिति। `स्पृशमृशे'ति सिज्वेति भावः। सिजभावे `शल इगुपधा'दिति क्सं मत्वाह –अमृक्षदिति। णुदधातुर्णोपदेशः। ननु तनादिगण एवाऽस्मिन्स्वरितेत्सु पठितस्य किमर्थमिह पाठ इत्यत आह - कत्र्रभिप्रायेऽपीति। षद्लृधातोर्भ्वादौ पठितादेव सीदतीत्यादिसिद्धेरिह पाठो व्यर्थ इत्यत आह - इह पाठ इति। सीदन्तीति. शविकरणाच्छत्रन्तान्ङीपि `आच्छीनद्यो'रिति नुम्विकल्पार्थ इह पाठ इत्यर्थ-। भ्वादावेव पाठे तु `शप्श्यनोर्नित्य'मिति नित्यो नुम् स्यादिति भावः.तर्हि भ्वाद्यन्तर्गणे ज्वलादावस्य पाठो व्यर्थ इत्यत आह - ज्वलादाविति। `ज्वलितिकसन्तेभ्यः' इति कर्तरि णप्रत्ययार्थ इति भावः। तदुदाह्मत्य दर्शयति - साद इति। उभयत्र पाठस्य फलान्तरमाह - स्वरार्थश्चेति। तदेव विशदयति - शबनुदात्तैति। `अनुदात्तौ सुप्पितौ' इति पित्स्वरेणेति भावः। शस्तूदात्त इति। `प्रत्ययः' `आद्युदात्तश्चे'त्यनेनेति भावः। ननु `शद्लृ शातने' इत्स्य भ्वादौ पाटादेव सिद्धे इह पाठो व्यर्थ इत्यत आह - स्वार्थ एवेति। प्रागुक्तपित्त्वाऽपित्त्वकृतस्वरभेदार्थ एवेत्यर्थः। मुच्लृ मोक्षणे।

तत्त्वबोधिनी

325 दृङ् आदरे। `तथाद्रियन्ते न बुधाः सुधामपी'ति श्रीहर्षः। प्रच्छ ज्ञीप्सायाम्। ज्ञातुमिच्छा ज्ञीप्सा। अत्र ज्ञपिज्र्ञाने। `आप्ज्ञप्यृधामीत्'। `अत्र लोपः' इत्यभ्यासलोपः। ण्वुलि प्रच्छकः। पृच्छाशब्दात् `तत्करोती'ति णिजन्ताण्ण्वुलि तु - - पृच्छकः। पृच्छाशब्दस्तु भिदादेराकृतिगणत्वादङि संप्रसारणे बोध्यः। किरादयो वृत्ताः इति।\तेतेच `भूषाकर्मकिरादिसना'मिति वक्ष्यमाणयकिणादिनिषेधवार्तिके उपयोक्ष्यन्ते। `किरश्च पञ्चभ्य'इत्येतदुत्तरसूत्रेऽनुवृत्त्यर्थमिति बोध्यम्। ससर्जिथेति। `विभाषा सृजिदृशो'रिति थलि वेट्। नुम्वाच्यः। विच्छ गतौ। तुदादिपाठसामथ्र्यादायप्रत्ययान्तादपि शो,न तु शप्। तेन विच्छायती विच्छायन्तीति नुम्विकल्पः। केचित्तु तुदादिपाठसामथ्र्यादायप्रत्ययस्य पाक्षिकत्वं स्वीकृत्य विच्छती विच्छन्तीति नुम्विकल्पं, विच्छति विच्छतः विच्छन्तीत्यादिरूपाणि चोदाजह्युः, तेषां तु मते तुदादिपाठस्य केवले चरितार्थत्वादायप्रत्ययान्ताच्छबेव। तेन विच्छायन्ती [इ]ति नित्यमेव `शप्श्यनो'रिति नुम्। पठितस्येति। अस्मिन्नेव गणे परस्मैपदिषु पठितस्येत्यर्थः। तङर्थ इति। पूर्वपाठस्तु संश्लेषणे कत्र्रभिप्रायेऽपि परस्मैपदार्थः।

Satishji's सूत्र-सूचिः

427) अचि विभाषा 8-2-21
वृत्तिः गिरते रेफस्‍य लो वाऽजादौ प्रत्‍यये । लकारः is optionally substituted for the रेफः of the root √गॄ (गॄ निगरणे #६. १४६) when followed by a अजादि-प्रत्ययः (affix beginning with a vowel).

उदाहरणम् – गिलति (√गॄ, तुदादि-गणः, गॄ निगरणे, धातु-पाठः #६. १४६), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठ:, √गॄ does not have any इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Hence as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, it takes परस्मैप्रत्यया: by default.

गॄ + लँट् 3-2-123
= गॄ + ल् 1-3-2, 1-3-3
= गॄ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= गॄ + ति 1-3-3
= गॄ + श + ति 3-1-77. Note: Since the प्रत्यय: “श” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the ending ॠकार: of the अङ्गम् “गॄ” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
= गॄ + अ + ति 1-3-8
= गिर् + अ + ति 7-1-100, 1-1-51
= गिलति/गिरति 8-2-21