TBD.
तुद व्यथने इत्येवम् आदिभ्यो धातुभ्यः शप्रत्ययो भवति। शपो ऽपवादः। शकारः सार्वधातुकसंज्ञार्थः। तुदति। नुदति।
TBD.
654 शपोऽपवादः. तुदति, तुदते. तुतोद. तुतोदिथ. तुतुदे. तोत्ता. अतौत्सीत्, अतुत.. णुद प्रेरणे.. 2.. नुदति, नुदते. नुनोद. नोत्ता. भ्रस्ज पाके.. 3.. ग्रहिज्येति सम्प्रसारणम्. सस्य श्चुत्वेन शः. शस्य जश्त्वेन जः. भृज्जति, भृज्जते..
364 तुदादिभ्यः शः। कत्र्रर्थे सार्वधातुके परे तुदादिभ्यः शः स्यात्स्वार्थे इत्यर्थः। शबपवादः। तुदतीति। लघूपधगुणं बाधित्वा नित्यत्वात् शे कृते तस्य अपित्त्वात् `सार्वधातुकमपि' दिति ङित्त्वान् गुण इति भावः। अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमाल्लिटिथल्यपि नित्यमिट्।तदाह– तुतोदिथेति। तोत्तेति। अनिडिति भावः। अतौत्सीदिति। हलन्तलक्षणा वृद्धिः। णुदधातुर्णोपदेशः। अनिट्।दिशधातुरप्यनिट्। देष्टेति। व्रश्चेति षत्वे ष्टुत्वम्। स्ये तु `षढो'रिति षस्य कत्वं च– देक्ष्यति। दिक्षीष्टेति। `लिङ्सिचौ' इति कित्त्वान्न गुणः। `शल इगुपधा' दिति क्सं मत्वाह– अदिक्षत्। अदिक्षतेति। भ्रस्ज पाके। अनिट्। भ्रस्ज अ ति इति स्थिते आह – ग्रहिज्येति। ङित्त्वाद्रेफस्य संप्रसारममृकारः, पूर्वरूपं चेति भावः। भृस्ज् अ ति इति स्थिते आह – सस्येत्यादि। णलि भ्रस्ज् अ इति स्थिते - -
318 तुदतीति। परमपि लघूपधगुणं बाधित्वा नित्यत्वाच्छ इत्येके। अकृतव्यूहपरिभाषया गुणो न प्रवर्तते इत्यन्ये। भ्रस्ज पाके। भर्जनरुपः पाकोऽत्र धात्वर्थो न त्वोदनादेः पाकः, तत्र प्रयोगाऽभावादित्याहुः। `भ्रस्जो' इति केषांचित्पाठे तु `ओदितश्चे'ति निष्ठानत्वप्रसक्त्या भृष्टः भृष्टवानिति न सिध्येत्।
425) तुदादिभ्यः शः 3-1-77
वृत्तिः शपोऽपवादः। The श-प्रत्यय: is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप् ।
उदाहरणम् – तुदति from √तुद् (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः #६. १), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
The ending अकार: (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “तुदँ” has स्वरित-स्वर:। Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, this धातु: is उभयपदी। Let us consider the case where it takes a परस्मैपदप्रत्यय:।
तुद् + लँट् 3-2-123
= तुद् + ल् 1-3-2, 1-3-3
= तुद् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= तुद् + ति 1-3-3
= तुद् + श + ति 3-1-77. Note: Since the प्रत्यय: “श” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the penultimate उकार: of the अङ्गम् “तुद्” which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
= तुद् + अ + ति 1-3-8, 1-3-3
= तुदति