Table of Contents

<<8-2-19 —- 8-2-21>>

8-2-20 ग्रो यङि

प्रथमावृत्तिः

TBD.

काशिका

गृ\उ0304 इत्येतस्य धातोः रेफस्य लकार आदेशो भवति यङि परतः। निजेगिल्यते, निजेगिल्येते, निजेगिल्यन्ते। भावगर्हायां ग्रो यङ् विहितः। केचिद् ग्रः इति गिरतेः गृणातेश्च सामान्येन ग्रहणम् इच्छन्ति। अपरे तु गिरतेरेव, न गृणातेः। गृणातेर् हि यङेव न अस्ति, अनभिधानादिति। यङि इति किम्? निगीर्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

402 ग्रो यङि। `कृपो रो लः' इत्यतो रो ल इति वर्तते। तदाह– रेफस्य लत्वमिति। चेक्रीयते। इति। परत्वाद्रीङि कृते द्विर्वचनम्। संचेस्क्रीयते इति। रीङि द्वित्वे च सुट्। न च `सं - कृ'इत्यस्यामवस्थायां द्वित्वात्परत्वात्सुटि कृते संयोगादित्वेन रीङ्प्रवृत्तेः प्राग्गुणः स्यादिति वाच्यम्, `अडभ्यासव्यवायेऽपी'त्यस्यारम्भेण अडभ्यासयोः कृतयोरेव सुण्न तु ततः प्रागिति सिद्धान्तात्।एतेन `सुटो बहिरङ्गत्वान्न संयोगादित्वेन गुण' इति केषांचित्समाधानं परास्तम्। अभ्यासात्परस्य सुटि कृते साभ्यासस्याङ्गस्य संयोगादित्वमृदन्तत्वं च नास्तीति गुणप्राप्तेरभावात्। ननु `अडभ्यासव्यवायेऽपि सुट्कात्पूर्वः'इति वार्तिकप्रत्याख्यानाय `पूर्वं धातुरुपसर्गेण युज्यते' इति पक्षं स्वीकृत्य भाष्यकृता सं त्यादावन्तरङ्गत्वात्सुटि ससुक्टस्यैव द्वित्वाभ्युपगमात् संचेस्क्रियते इति न सिध्येत्। तत्र हि सुटि कृते रीङं बाधित्वा पर्तवात् `यङि चे'ति गुणे संचास्कर्यत इत्यनिष्टरूपप्रसङ्गात्। यदि तु इष्टानुरोधेन `पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणे'ति मताश्रयणेन रीङादेशं द्वित्वं च कृत्वा पश्चात्सुटि इष्टं रूपं सिध्यतीत्युच्यते, तर्हि `अडभ्यासव्यवायेऽपी'ति वचनं स्वीकर्तव्यमेव स्यादिति चेत्। अत्राहुः– `अडभ्यासव्यवायेऽपी'ति वचनं स्वीकर्तव्यमेव स्यादिति चेत्। अत्राहुः– अडभ्यासे'त्यादिवार्तिकं विनापि संचस्करतुरित्यादरूपसिद्धये भाष्याकृता `पूर्वं धातुरुपसर्गेण युज्यते' इति पक्ष आश्रितः। संचेस्क्रीयते संचस्करतुरित्यादिरूपसिद्धये समचेस्क्रियतेत्यादिसिद्धिस्तु वार्तिकायत्तैवेति।

Satishji's सूत्र-सूचिः

TBD.