TBD.
इणो ऽङ्गस्य यो ऽभ्यासः तस्य दीर्घो भवति किति लिटि परतः। ईयतुः, ईयुः। इणो यण् 6-4-81 इति यणादेशे कृते स्थानिवद्भावाद् द्विर्वचनम्। किति इति किम्? इयाय। इययिथ।
TBD.
–
287 दीर्घ इणः। `अत्र लोपः' इत्यतोऽभ्यासस्येति, `व्यथो लिटीत्यतो लिटीति चानुवर्तते। तदाह–इणोऽभ्यासस्येति। ईयतुरिति। भारद्वाजनियमात्ळि वडिति मत्वा आह- - इययिथ इयेथेति। इयथुः ईय। इयाय इयय ईयिव ईयिम। एता। एष्यति। एतु–इतात् इताम् यन्तु। इहि–इतात् इतम् इत। अयानि अयाव अयाम। ऐदिति लङि तिप इकारलोपे इकारस्य गुणे आटो वृद्धिः। आयन्निति। झेरन्तादेसे इकारलोपे इ–अन् इति स्थिते `इणो य'णिति यणि कृते तस्याभीयत्वेनाऽसिद्धत्वादाडिति भावः। ऐः ऐतम् ऐत। आयम् ऐव ऐम। विधिलिङ्याह- - इयादिति। इयाताम्। इयुरित्यादि। आशीर्लिङ्याह– ईयादिति। `अकृत्सार्वधातुकयो'रिति दीर्घ इति भावः। ईयास्तामित्यादि।
249 दीर्घ इणः किति। `अत्र लोपोऽभ्यासस्ये'त्यतोऽभ्यासस्येत्यनुवर्तते। `व्यथो लिटीत्यतो लटीति च। किति किम् ?। इयाय। अत्र वदन्ति— इह दीर्घे कृतेऽपि `अभ्यासस्याऽसवर्णे इतीयङा रूपसिद्धेः कितीति व्यर्थम्। न च दीर्घस्येयङि दीर्घविधानं व्यर्थमिति वाच्यम्, ईयतुः ईयरित्यत्रि `वार्णादाङ्गं बलीयः' इति यणि कृते दीर्घविधेरावश्यकत्वात्। किंच लिटीत्यनुवर्तनमपीह व्यर्थमेव, व्यावर्त्त्याऽभावादिति। एता। एष्यति। एतु। इतात्। इताम्। यन्तु। इहि। उत्तमे तु अयानि। अयाव। अयाम। लङ्मध्यमे-ऐः। ऐतम्। ऐत। उत्तमे तु आयम्। ऐव। ऐम। ईयादिति। `अकृत्सार्वे'ति दीर्घः।
वृत्ति: इणोऽभ्यासस्य दीर्घ: स्यात् किति लिटि। When followed by a लिँट्-प्रत्यय: which is कित् (has ककार: as a इत्), there is an elongation of the vowel in the अभ्यास: of the verbal root √इ (इण् गतौ २. ४०)।
उदाहरणम् – ईयतु: (इण् गतौ २. ४०, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्)।
इ + लिँट् 3-2-115
= इ + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= इ + अतुस् 3-4-82, 1-1-55. Note: 1-3-4 prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा।
= इ इ + अतुस् 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-4-81.
= इ य् + अतुस् 6-4-81. Note: As per 1-2-5, “अतुस्” is a कित्। This allows 1-1-5 to block 7-3-84.
= ई य् + अतुस् 7-4-69