Table of Contents

<<6-4-80 —- 6-4-82>>

6-4-81 इणो यण्

प्रथमावृत्तिः

TBD.

काशिका

इणो ऽङ्गस्य यणादेशो भवति अचि परतः। यन्ति। यन्तु। आयन्। इयङादेशापवदो ऽयम्। मध्ये ऽपवदाः पूर्वान् विधीन् बाधन्ते इति गुणवृद्धिभ्यां परत्वादयं बाध्यते। अयनम्। आयकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

581 अजादौ प्रत्यये परे. यन्ति..

बालमनोरमा

286 इणो यण्। `अचि श्नुधातु'इत्यतोऽचीत्यनुवृत्तस्य अङ्गाधिकारलब्धाऽङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिरित्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे– अजादौ प्रत्यये परे इति। इयङोऽपवाद इति। इयङि प्राप्ते एव तदारम्भादिति भावः। गुणवृद्धी तु परत्वादस्य बाधिके। यथा–अयनम्। आयकः। यन्तीति। एषि इथः इथ। एमि इवः इमः। इयायेति। द्वित्वे सति उत्तरखण्डवृद्धावायादेशे `अभ्यासस्याऽसवर्णे' इतीयङ्। अतुसि तु द्वित्वे कित्त्वाद्गुणाऽभावे इ इ अतुस् इति स्थिते `इणो य'णित्युत्तरखण्डस्य यणि इ-यतुरिति स्थिते —

तत्त्वबोधिनी

248 येन नाप्राप्तिन्यायेनेति भावः। गुणवृद्धी तु परत्वादस्य बाधिके। अयनम्। आयकः।

Satishji's सूत्र-सूचिः

386) इणो यण् 6-4-81
वृत्तिः अजादौ प्रत्‍यये परे । The verbal root √इ (इण् गतौ #२. ४०), gets a यण् letter (यकारः) as the replacement when followed by an अजादि-प्रत्यय: (vowel-beginning affix).
Note: The “यण्”-आदेश: prescribed by this सूत्रम् is an अपवाद: for the “इयँङ्”-आदेश: that would have been done by 6-4-77.
But it is not a अपवाद: for the गुणादेश: prescribed by 7-3-84 because of the following परिभाषा -
मध्येऽपवादा: पूर्वान् विधीन् बाधन्ते नोत्तरान्।
“Exceptions which are situation in the middle apply only to the prior rules and not the later rules.”

उदाहरणम् – यन्ति (√इ, अदादि-गणः, इण् गतौ, धातु-पाठः #२. ४०) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

इ + लँट् 3-2-123 = इ + ल् 1-3-2, 1-3-3
= इ + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= इ + शप् + झि 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113.
= इ + झि 2-4-72 = इ + अन्ति 7-1-3 (Note: “अन्ति” is a अपित्-सार्वधातुक-प्रत्यय: and hence it it ङिद्-वत् by 1-2-4. Therefore, 1-1-5 blocks the गुणादेश: that would have been done by 7-3-84) = य् + अन्ति 6-4-81 = यन्ति।