Table of Contents

<<7-3-79 —- 7-3-81>>

7-3-80 प्वादीनां ह्रस्वः

प्रथमावृत्तिः

TBD.

काशिका

पू इत्येवम् आदीनां ह्रस्वो भवति शिति परतः। प्वादयः क्र्यादिषु पठ्यन्ते। पूञ् पवनित्यतः प्रभृति प्ली गतौ वृतिति यावत् केचितिच्छन्ति, वृत्करणम् एतत् ल्वादीनां प्वादीनां च परिसमाप्त्यर्थम् इति। अपरे तु ल्वादीनाम् एव परिसमाप्त्यर्थं वृत्करणम् एतदिच्छन्ति, आगणान्ताः प्वादयः इति। पूञ् पुनाति। लूञ् लुनाति। स्तृ\उ0304ञ् स्तृणाति। येषाम् आगणान्ताः प्वादयः तेषां जानाति इत्यत्र ह्रस्वः प्राप्नोति, ज्ञाजनोर् जा 7-3-79 इति दीर्घकरणसामर्थ्यान् न भवति। जनेरपि हि जादेशे सति अतो दीर्घो यञि 7-3-101 इति दीर्घत्वेन जायते इति सिध्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

693 पूञ् लूञ् स्तॄञ् कॄञ् वॄञ् धूञ् शॄ पॄ वॄ भॄ मॄ दॄ जॄ झॄ धॄ नॄ कॄ ॠ गॄ ज्या री ली व्ली प्लीनां चतुर्विंशतेः शिति ह्रस्वः. पुनाति, पुनीते. पविता.. लूञ् छेदने.. 12.. लुनाति, लुनीते.. स्तॄञ् आच्छादने.. 13.. स्तृणाति. शर्पूर्वाः खयः. तस्तार. तस्तरतुः. तस्तरे. स्तरीता. स्तरिता. स्तृणीयात्, स्तृणीत. स्तीर्यात्..

बालमनोरमा

385 प्वादीनां ह्यस्वः। `ष्ठिवुकलमुचमा'मित्यः शितीत्यनुवर्तत इत्यभिप्रेत्य शेषं पूरयति– शिति परे इति। पवितेति। ऊकारान्तत्वात्सेडिति भावः। स्तृ?ञ् आच्छादने। सेट्। तस्तरतुरिति। कित्त्वेऽपि `ऋच्छत्यृ?ता'मिति गुणः। स्तरिता स्तरीतेति। `वृ?तो वा इति दीर्घविकल्पः। आशिषि स्तीर्यादिति। `ॠत इद्धातो'रिति इतत्वे रपरत्वे `हलि चे'ति दीर्घः। स्तृ? - षीष्ट इति स्थिते आह – लिङ्?सिचोरिति वेडिति। `वृ?तो वा' इति दीर्घविकल्पनिषेधसूत्रं स्मारयति - न लिङीति। वृ?त इटो दीर्घो नेत्यर्थः। इडभावपक्षे स्तृ?षीष्टेत्यत्र गुणमाशङ्क्याह– उश्चेति कित्त्वमिति। लुङि परस्मैपद सिचि अस्तरिष्टामित्यत्र `वृ?तो वे'ति इटो दीर्घविकल्पे प्राप्ते आह – सिचि चेति। अस्तरीष्ट अस्तरिष्टेति। `वृ?तो वे'ति दीर्घः। अस्तीष्र्टति। `लिङ्सिचो'रिति इडभावपक्षे ऋत इत्त्वे `हलि चे'ति दीर्घ इति भावः। कृ?ञ् हिंसायाम्।चकरे इति। `ऋच्छत्यतृ?ता'मितिगुणः। वृ?र?ञ् वरणे इति। आशिषीति। वृ? यात् इति स्थिते `उदोष्ठ\उfffद्पूर्वस्ये'ति ऋकारस्य उत्त्वमित्यर्थः, तत्र दन्त्योष्ठ\उfffद्पूर्वस्यापि ग्रहणादिति बावः। ॠत उत्त्वे रपरत्वे `हलि चे'ति दीर्घ इति बोद्ध्यम्। वरिषीष्ट पूर्षीष्टेति। `लिङ्सिचो'रिति वेट्। इडभावे `उश्चे'ति कित्त्वाद्गुणाऽभावे उत्त्वे रपरत्वे `हलि चे'ति दीर्घ इति भावः। अवारिष्टामिति। `सिचि चे'ति इटो न दीर्घ इति भावः। अवरिष्ट अवरीष्टेति। `वृ?तो वा'इति सिच इटो दीर्घविकल्प इति भावः। दुधविथ– दुधीथेति। `स्वरतिसूतिसूयतिधूञूदितः'इति वेडेति भावः। श हिंसायाम्। सेट्। णलि – शशार। श अतुस् इत्यत्र कित्त्वेऽपि `ऋच्छत्यृ?ता'मिति नित्ये गुणे प्राप्ते आह– शृ?दृ?प्रामिति। गुणाऽपवादे पाक्,#इके ह्यस्वे कृते ऋकारस्य यणि रेफ इत्यर्थः। शशरिथ। पृ?धातुरपि शृ?धातुवत्। आशिषि पूर्यादिति। `उदोष्ठ\उfffदूपूर्वस्ये'त्युत्त्वमिति भावः। दृ? विदारणे। `शृ?दृ?प्रा'मिति हस्र्वविकल्पं मत्वाह – ददरतुः दद्रतुरिति। ऋ गतौ। अरांचकारेति। व्यपदेशिवत्त्वेन गुरुमत्त्वादाम्। लङ्याह – आर्णादिति। ज्या वयोहानौ। अनिट्। ज्या ना तीति स्थिते `ग्रहिज्ये' ति संप्रसारणे पूर्वरूपे च जिनातीति स्थिते–

तत्त्वबोधिनी

336 प्वादीनां ह्यस्वः। `ष्ठिवुक्लमुचमा'मित्यतः शितीत्यनुवर्तत इत्याह– शिति पर इति। न लिङीति। अनेन वृ?त इटो लिङि दीर्घो नेति स्मारितम्। उदोष्ठ\उfffद्। दन्तोष्ठ\उfffदोऽपि ओष्ठ\उfffद्ग्रहणेन गृह्रत इत्याह– वूर्यादिति। वरिषीष्टेति। `लिङ्सिचोरात्मनेपदेषु' इति वेट्। वूर्षीष्ट। अवूर्ष्टेति। `उश्चे'ति लिङ्सिचोः कित्त्वाद्गुणाऽभावे सत्युत्वम्।

Satishji's सूत्र-सूचिः

441) प्वादीनां ह्रस्वः 7-3-80

वृत्तिः पूञ्-लूञ्-स्‍तॄञ्-कॄञ्-वॄञ्-धूञ्-शॄ-पॄ-वॄ-भॄ-मॄ-दॄ-जॄ-झॄ-धॄ-नॄ-कॄ-ॠ-गॄ-ज्‍या-री-ली-व्‍ली-प्‍लीनां चतुर्विंशतेः शिति ह्रस्‍वः । A short vowel is substituted (in place of the long vowel) of the twenty-four verbal roots पूञ् etc., when a शित्-प्रत्ययः follows.

The following are the twenty-four roots:
(1) पूञ् पवने ९. १४
(2) लूञ् छेदने ९. १६
(3) स्तॄञ् आच्छादने ९. १७
(4) कॄञ् हिंसायाम् ९. १८
(5) वॄञ् वरणे ९. १९
(6) धूञ् कम्पने ९. २०
(7) शॄ हिंसायाम् ९. २१
(8) पॄ पालनपूरणयोः ९. २२
(9) वॄ वरणे | भरण इत्येके ९. २३
(10) भॄ भर्त्सने | भरणेऽप्येके ९. २४
(11) मॄ हिंसायाम् ९. २५
(12) दॄ विदारणे ९. २६
(13) जॄ वयोहानौ ९. २७
(14) झॄ [वयोहानौ] इत्येके ९. २८
(15) धॄ [वयोहानौ] इत्यन्ये ९. २९
(16) नॄ नये ९. ३०
(17) कॄ हिंसायाम् ९. ३१
(18) ॠ गतौ ९. ३२
(19) गॄ शब्दे ९. ३३
(20) ज्या वयोहानौ ९. ३४
(21) री गतिरेषणयोः ९. ३५
(22) ली श्लेषणे ९. ३६
(23) व्ली वरणे ९. ३७
(24) प्ली गतौ ९. ३९

उदाहरणम् – पुनाति √पू (क्र्यादि-गणः, पूञ् पवने, धातु-पाठः # ९.१४ ), लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। Since the √पू-धातुः has ञकारः as इत् in the धातु-पाठः, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, it is उभयपदी।

Let us consider the case where it takes a परस्मैपद-प्रत्यय:।

पू + लँट् 3-2-123
= पू + ल् 1-3-2, 1-3-3, 1-3-9
= पू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108. “तिप्” gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= पू + श्ना + ति 3-1-81. “श्ना” which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= पू + ना + ति 1-3-8
(Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 prevents the गुणादेश: for the ऊकार: of the अङ्गम् “पू” which would have been done by 7-3-84.)
= पुनाति 7-3-80, 1-1-52