TBD.
अकारान्तस्य अङ्गस्य दीर्घो भवति यञादौ सार्वधातुके परतः। पचामि, पचावः, पचामः। पक्ष्यामि, पक्ष्यावः, पक्ष्यामः। अतः इति किम्? चिनुवः। चिनुमः। यञि इति किम्? पचतः। पचथः। सार्वधातुक इत्येव, अङ्गना। केशवः। केचिदत्र तिङि इत्यनुवर्तयन्ति, तेषां भववानिति क्वसौ सार्वधातुकदीर्घो न भवति।
TBD.
392 अतोऽङ्गस्य दीर्घो यञादौ सार्वधातुके. भवामि. भवावः. भवामः. स भवति. तौ भवतः. ते भवन्ति. त्वं भवसि. युवां भवथः. यूयं भवथ. अहं भवामि. आवां भवावः. वयं भवामः..
20 उत्तमपुरुषैकवचनेऽपि शपि गुणे अवादेशे भव-मि इति स्थिते -अतो दीर्घो यञि। `अङ्गस्ये'त्यधिकृतमता विशेष्यते। तदन्तविधिः। `तुरुस्तुशम्यम' इत्यतः सार्वधातुक इत्यनुवृत्तं यञा विशेष्यते। तदादिविधिः। तदाह– अदन्तस्येत्यादिना। भवामीति। न च भूधातोर्विहितलादेशं प्रति भूधातुरेवाऽङ्गं , न तु भवेति विकरणान्तमिति वाच्यं, `यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्ग'मित्यत्र तदादिग्रहणेन विकरणविशिष्टस्यापि अङ्गत्वात्। भवावः भवाम इति। लस्य वसि मसि च शपि गुणेऽवादेशे अतोदीर्घे रुत्वे विसर्गे च रूपे। `न विभक्ता' विति सस्य नेत्त्वम्। अथ प्रथममध्यमोत्तमपुरुषव्यवस्थामुक्तां स्मारयितुमाह– स भवतीत्यादि। `अथ प्रहासे चे'ति सूत्रस्योदाहरति–एहीति। सर्वेषु भुक्तवत्सु भोक्तुमागतं जामातरं प्रति परिहासाय प्रवृत्तमिदं वाक्यम्। भो जामातः ! एहि = आगच्छ, `ओदनं भोक्ष्ये' इति त्वं मन्यसे, नैतद्युक्तमित्यर्थः। कुतैत्यत आह–भुक्तः सोऽतिथिभिरिति। स ओदनोऽतिथिभिर्भिक्षित इत्यर्थः। अत्र भुजेरुत्तमपुरुषे प्राप्ते मध्यमः पुरुषः। मन्येतस्तु मध्यमपुरुषे प्राप्ते उत्तमः पुरुषः। #एतम् एत चेति। हे जामातरौ ! आगच्छतम्, `ओदनं भोक्ष्यावह#ए' इति मन्येथे इति, भो जामातरः ! `ओदनं भोक्ष्यामहे' इति मन्यध्वे इति चार्थः। अत्रोभयत्रापि भुजेरुत्तमे प्राप्ते मध्यमः। मन्यतेस्तु मध्यमे प्राप्ते उत्तमः, द्वित्वबहुत्वयोरेकवचनं व्याचष्टे–मन्यस इत्यादिना। अनुवर्तत इति। `प्रहासे चेति सूत्रे' इति शेषः। एतु भवानिति। युष्मद्भवतोः पर्यायत्वाऽभावस्यानुपदमेवोक्तत्वादिति भावः। इति लट्प्रक्रिया।
16 `तुरुस्तुशम्यमः' इति सूत्रात्सार्वधातुक इत्यनुवर्तते। सार्वधातुके किं ?। केशवः अङ्गना। `अत आ' इति वक्तव्ये दीर्घग्रहणं दीर्घ एव यता स्यादित्येवमर्थम्। अन्यथाऽपाक्षीरोदनं देवदत्त !, ननु पचामि बोरित्यत्रानन्त्यस्यापि प्रश्नाख्यानयोरिति प्लुतः स्यात्। केचित्तु– `अत आ' दिति सुवचं, तपरकरणसामथ्र्याद्विकारनिवृत्तिर्भवेदिति प्लुतस्याऽप्रसङ्गात्, उदात्तस्थाने उदात्त आकारः, अनुदात्तस्थानेऽनुदात्त आकार इत्यादि तु `स्थानेऽन्तरतमः' इत्यनेनैव सिद्धम्। अत एव `वृषाकप्यग्नी'ति सूत्रे वृषाकपिशब्दो मध्योदात्त एक एवोदात्तत्वं प्रयोजयति, अग्न्यादिषु तु `स्थानेऽन्तरतमः' इत्येव सिद्धमिति मनोरमादावुक्तम्। ततश्च प्रयोजनाऽभावात्तपरकरणमनणि विध्यर्थमिति नाशह्कनीयमेव। यदि तु `हल्ङ्याब्भ्यः' इत्यत्र आ-आबितिवत्, `अत आ' इत्यत्रापि आ-आ इति प्रश्लेषः क्रियते तदा तपरकरणं विनापीष्टसिद्धिरत्याहुः॥ `प्रहासे चे'ति सूत्रस्योदाहरणमाह– एहि मन्ये इति। `ओदनं भोक्ष्ये' इति त्वं मन्यस इत्यर्थः॥ एतम् एत वेति। `एतं मन्ये ओदनं भोक्ष्येथे', `एत मन्ये ओदनं भोक्ष्यध्वे' इत्यन्वयः। भोक्ष्यावहे इति युवां मन्येथे, भोक्ष्यामह इति यूयं मन्यध्वे इति क्रमेणार्थः॥
294) अतो दीर्घो यञि 7-3-101
वृत्तिः अतोऽङ्गस्य दीर्घो यञादौ सार्वधातुके । The ending अकार: of a अङ्गम् is elongated if it is followed by a सार्वधातुक-प्रत्यय: beginning with a letter of the यञ्-प्रत्याहार:।
गीतासु उदाहरणम् -
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् |
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् || 12-7||
भवामि – धातु: “भू” (भू सत्तायाम्)
The विवक्षा here is वर्तमान-काले, उत्तम-पुरुष-एकवचनम्, कर्तरि प्रयोग:।
भू + लँट् 3-4-69, 3-2-123 = भू + ल् 1-3-2, 1-3-3 = भू + मिप् 3-4-78. मिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + शप् + मिप् 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = भो + शप् + मिप् 7-3-84
= भो + अ + मि 1-3-3, 1-3-8 = भव + मि 6-1-78 = भवामि 7-3-101