Table of Contents

<<1-1-51 —- 1-1-53>>

1-1-52 अलो ऽन्त्यस्य

प्रथमावृत्तिः

TBD.

काशिका

षष्ठीनिर्दिष्टस्य य उच्यते आदेशः, सो ऽन्त्यस्य अलः स्थाने वेदितव्यः। इद् गोण्याः 1-2-50 पञ्चगोणिः। दशगोणिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

21 षष्ठीनिर्दिष्टाऽन्त्यस्याल आदेशः स्यात्. इति यलोपे प्राप्ते - (यणः प्रतिषेधो वाच्यः). सुद्ध्युपास्यः. मद्धरिः. धात्रशः. लाकृतिः..

बालमनोरमा

44 अलोऽन्त्यस्य। `अ'लिति प्रत्याहारो वर्णपर्यायः। `अल' इति षष्ठ\उfffद्न्तम्। `षष्ठी स्थानेयोगा' इत्यतः `षष्ठी स्थाने इत्यनुवर्तते। तच्च षष्ठीति प्रथमान्तं तृतीयान्ततया विपरिणम्यते। `निर्दिष्टस्ये'ति शेषः। `स्थाने' इत्यनन्तरं `विधीयमान' इति शेषः। स्थाने विधीयमान आदेशः षष्ठीनिर्दिष्टस्य योऽन्त्योऽल् तस्य स्यादित्यर्थः। तदाह–षष्ठीत्यादिना। `त्यदादीनामः'-यः सः। आदेश इति किम् ?, `आर्धधातुकस्येट्' तृच ऋकारात् पूर्वो मा भूत्। अल इति किम् ?। पदस्येत्यधिकृत्य विधीयमानं वसुरुआंस्विति दत्वं परमानडुभ्द्यामित्यत्राऽन्त्यस्य कृत्स्नस्य पदस्य मा भूत्।

तत्त्वबोधिनी

38 अलोऽन्त्यस्य। स्थानषष्ठीनिर्दिष्टस्य य उच्यते सोऽन्त्यस्यालः स्थाने स्यादित्यर्थः। `त्यदादीनामः'। सः, यः। स्थानषष्ठीति किम् ?, `आर्धधातुकस्यैट्' तृच् ऋकारात्पूर्वो मा भूत्। इदं च `षष्ठी स्थाने' इत्यनुवृत्त्या लभ्यते। अल इति किम् ?, `पदस्ये'त्यधिकृत्य विधीयमानं `वसुरुआंसु' इति दत्वं परमानडुद्भयामित्यादावन्त्यस्य पदस्य मा भूत्।

Satishji's सूत्र-सूचिः

उदाहरणम् – अनडुह् + सुँ (सम्बुद्धिः) = अनडुअह् + स् 1-3-2, 7-1-99, 1-3-3, 1-1-47 = अनड्वह् + स् 6-1-77 = अनड्वन्ह् + स् 7-1-82 = अनड्वन्ह् 6-1-68 = अनड्वन् 8-2-23, 1-1-52