TBD.
डुक्रीञ् द्रव्यविनिमये इत्येवम् आदिभ्यः धातुभ्यः श्ना प्रत्ययो भवति। शपो ऽपवादः। शकारः सार्वधातुकसंज्ञार्थः। क्रीणाति। प्रीणाति।
TBD.
687 शपोऽपवादः. क्रीणाति. ई हल्यघोः. क्रीणीतः. श्नाभ्यस्तयोरातः. क्रीणन्ति. क्रीणासि. क्रीणीथः. क्रीणीथ. क्रीणामि. क्रीणीवः. क्रीणीमः. क्रीणीते. क्रीणाते. क्रीणते. क्रीणीषे. क्रीणाथे. क्रीणीध्वे. क्रीणे. क्रीणीवहे. क्रीणीमहे. चिक्राय. चिक्रियतुः. चिक्रियुः. चिक्रयिथ, चिक्रेथ. चिक्रिय. चिक्रिये. क्रेता. क्रेष्यति, क्रेष्यते. क्रीणातु, क्रीणीतात्. क्रीणीताम्. अक्रीणात्, अक्रीणीत. क्रीणीयात्, क्रीणीत. क्रीयात्, क्रेषीष्ट. अक्रैषीत्, अक्रेष्यत.. प्रीञ् तर्पणे कान्तौ च.. 2.. प्रीणाति, प्रीणीते.. श्रीञ् पाके.. 3.. श्रीणाति, श्रीणीते.. मीञ् हिंसायाम्.. 4..
382 क्र्यादिभ्यः श्ना।कत्र्रर्थे सार्वधातुके परे क्र्यादिभ्यः श्नाप्रत्ययः स्यात्स्वार्थे इत्यर्थः। शपोऽपवादः। क्रीणातीति। श्नाप्रत्ययस्य अपित्सार्वधातुकत्वेन ङित्त्वादीकारस्य न गुण इति भावः। ई हल्यघोरिति। हलादौ क्ङिति सार्वधातुके ईत्त्वमिति भावः। क्री णा झीति स्थिते `ई हल्यघो'रिति ईत्वमाशङ्क्य आह – ईत्वात्पूर्वमिति। नित्यत्वादिति। अकृते कृते च ईत्वे अन्तादेशस्य प्रवृत्तेरिति भावः। एवं झस्येति। क्री णा झ इति स्थिते `आत्मनेपदेष्वनतः' इत्यदादेशोऽपि ईत्त्वात्पूर्वमित्यर्थः। तत इति। अन्तादेशाददादेशाच्च पश्चादित्यर्थः। अजादौ क्ङिति सार्वधातुके श्नाप्रत्ययस्य आल्लोपः। भारद्वाजनियमात्थलि वेडिति मत्वाऽऽह – चिक्रयिथ चिक्रेथेति। चिक्रियिवेति। क्रादिनियमादिडिति भावः। क्रीणातु। क्रीणीहि। अक्रीणात्। अक्रीणीत। क्रीणीयात्। क्रीणीत।
333 एवं झस्याऽद्भाव इति। `आत्मनेपदेष्वनतः' इत्यनेन। सौत्रा इति। नकारोपदा इत्यपि ज्ञेयम्। विष्टभ्नोतीति। `अनिदितमिति नलोपः। `स्तन्भे'रिति षत्वम्।
439) क्र्यादिभ्यः श्ना 3-1-81
वृत्तिः शपोऽपवादः । The श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप् ।
उदाहरणम् – क्रीणाति √क्री (क्र्यादि-गणः, डुक्रीञ् द्रव्यविनिमये, धातु-पाठः # ९. १), लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः। Since the √क्री-धातुः has ञकारः as इत् in the धातु-पाठः, it is उभयपदी।
Let us consider the case where it takes a परस्मैपद-प्रत्यय:।
क्री + लँट् 3-2-123
= क्री + ल् 1-3-2, 1-3-3, 1-3-9
= क्री + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= क्री + ति 1-3-3
= क्री + श्ना + ति 3-1-81. “श्ना” which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113. (Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 prevents the गुणादेश: for the ईकार: of the अङ्गम् “क्री” which would have been done by 7-3-84.)
= क्री + ना ति 1-3-8, 1-3-9
= क्रीणाति 8-4-2