Table of Contents

<<7-3-78 —- 7-3-80>>

7-3-79 ज्ञाजनोर् जा

प्रथमावृत्तिः

TBD.

काशिका

ज्ञ जन इत्येतयोः जादेशो भवति शिति परतः। जानाति। जायते। जनेर् दैवादिकस्य ग्रहणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

642 अनयोर्जादेशः स्याच्छिति. जायते. जज्ञे. जनिता. जनिष्यते..

बालमनोरमा

340 ज्ञाजनोर्जा। शितीति। `ष्ठिवुक्लमुचमा'मित्यतस्तदनुवृत्तेरिति भावः। जायते इति। ज्ञाधातोस्तुश्नविकरणत्वाज्जानातीत्युदाहरणम्। उभयत्रापि जादेशस्य ह्यस्वान्तत्वे `अङ्गकार्ये कृते पुनर्नाङ्गकार्य'मिति परिभाषया `अतो दीर्घो यञी' त्यप्रप्तर्जार्देशस्य दीर्घान्तत्वमाश्रितम्। जज्ञे इति। `गमहने'त्युपधालोपे नस्य श्चुत्वेन ञः। जायेत।जनिषीष्ट। लुङि अजन् त इति स्थिते आह– दीपेति। वा चिणिति। `च्ले'रिति शेषः। अजन् इ त इति स्थिते उपधावृद्धौ प्राप्तायाम्–

तत्त्वबोधिनी

297 ज्ञाजनोर्जा। जानाति। शिति किम् ?। ज्ञाता। `ज' इति ह्यस्वोच्चारणेऽपि `अतो दीर्घोयञी'ति दीर्घे सिद्धे जाग्रहणमङ्गवृत्तपरिभाषाज्ञापनार्थम्। तेन पाधातोः पिबादेशे कृते गुणो न भवति, पिबादेशस्याऽदन्तत्वाश्रयणं तूपायान्तरमित्याहुः।

Satishji's सूत्र-सूचिः

422) ज्ञाजनोर्जा 7-3-79
वृत्तिः अनयोर्जादेशः स्‍याच्‍छिति । When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा”।

गीतासु उदाहरणम् – श्लोकः bg1-29 – जायते √जन्-धातुः (दिवादि-गणः, जनीँ प्रादुर्भावे, धातु-पाठः # ४. ४४), लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ending ईकार: (which is an इत् by 1-3-2) of “जनीँ” has a अनुदात्त-स्वर: in the धातु-पाठ:। Therefore by 1-3-12, this धातु: will take आत्मनेपद-प्रत्यया: in कर्तरि प्रयोग:।

जन् + लँट् 3-2-123
= जन् + ल् 1-3-2, 1-3-3
= जन् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= जन् + ते 3-4-79
= जन् + श्यन् + ते 3-1-69, श्यन् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= जन् + य ते 1-3-3, 1-3-8
= जायते 7-3-79, 1-1-55