Table of Contents

<<7-3-101 —- 7-3-103>>

7-3-102 सुपि च

प्रथमावृत्तिः

TBD.

काशिका

अतो दीर्घो यञि 7-3-101 इत्यनुवर्तते। सुपि च यञादौ परतो ऽकारान्तस्य अङ्गस्य दीर्घो भवति। वृक्षाय। प्लक्षाय। वृक्षाभ्याम्। प्लक्षाभ्याम्। अतः इत्येव, अग्निभ्याम्। यञि इत्येव, वृक्षस्य। प्लक्षस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

141 यञादौ सुपि अतोऽङ्गस्य दीर्घः. रामाभ्याम्..

बालमनोरमा

200 सुपि च। `अतो दीर्घो यञी'त्यनुवर्तते। `यञी'त्यनुवर्तते। `यञी'त्यनेन सुपीति विशेष्यते। `यस्मिन् विधि'रिति तदादिविधिरित्याह–यञा-दाविति। अतोङ्गस्येति। अदन्तस्याङ्गस्येत्यर्थः। राम-भिस् इति स्थिते, न विभक्ताविति सस्य नेत्त्वम्।

तत्त्वबोधिनी

168 सुपि च। `यञी'त्यनुवर्तते। अल्ग्रहणात्तदादिविधिरित्याह–यञादौ सुपीति। यञि किम् ?। रामः। अत इति किम् ?। अग्निभ्याम्।

Satishji's सूत्र-सूचिः

60) सुपि च 7-3-102

वृत्ति: यञादौ सुँपि अतोऽङ्गस्य दीर्घ: । The ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

देवीमाहात्म्ये उदाहरणम् – श्लोकः bg5-1

असुर + भ्याम् = असुराभ्याम्