TBD.
अनिदिताम् अङ्गानां हलन्तानाम् उपधायाः नकारस्य लोपो भवति क्ङिति प्रत्यये परतः। स्रस्तः। ध्वस्तः। स्रस्यते। ध्वस्यते। सनीस्रस्यते। दनीध्वस्यते। अनिदिताम् इति किम्? नन्द्यते। नानन्द्यते। हलः इति किम्? नीयते। नेनीयते। उपधायाः इति किम्? नह्यते। नानह्यते। क्ङिति इति किम्? स्रंसिता। ध्वंसिता। अनिदितां नलोपे लङ्गिकम्प्योरुपतापशरीरविकारयोरुपसङ्ख्यानं कर्तव्यम्। विलगितः। विकपितः। उपतापशरीरविकारयोः इति किम्? विलङ्गितः। विकम्पितः। रञ्जेर्णौ मृगरमण उपसङ्ख्यानं कर्तव्यम्। रजयति मृगान्। जनीजॄष्क्नसुरञ्जो ऽमन्ताश्च इति मित्त्वादुपधाह्रस्वत्वम्। मृगरमण इति किम्? रञ्जयति वस्त्राणि। घिनुणि च रञ्जेरुपसङ्ख्यानं कर्तव्यम्। रागी। त्यजरजभज इति निपातनाद् वा सिद्धम्। रजकरजनरजःसूपसङ्ख्यानं कर्तव्यम्। रजकः। रजनम्। रजः।
TBD.
336 हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति. नुम्. संयोगान्तस्य लोपः. नस्य कुत्वेन ङः. प्राङ्. प्राञ्चौ. प्राञ्चः..
6-4-130 – 6-4-138
415) हलन्तानामनिदिताम्ङ्गानामुपधायाः नस्य लोपः स्यात्किति ङिति च । ’उगिदचा –’ इति नुम् । ’संयोगान्तस्य लोपः’ । नुमो नकारस्य ’क्विन्प्रत्ययस्य कुः’ इति कुत्वेन ङकारः । प्राङ् । अनुस्वारपरसवर्णौ । प्राञ्चौ , प्राञ्चः । प्राञ्चम्, प्राञ्चौ ॥
प्र-अन्च् इति स्थिते–अनिदिताम्। `अङ्गस्ये'त्यधिकृतं बहुवचनेन विपरिणम्यते। हल इति तद्विशेषणम्। तदन्तविधिः। `अनिदिता'मित्यपि तद्विशेषणम्। इत्=ह्यस्व इकारः, इत्=इत्संक्षको येषां तानि इदिन्ति, न इदिन्ति, अनिदिन्ति, तेषामिति विग्रहः। अवयवषष्ठ\उfffद्न्तमेततदुपधाया इत्यत्रान्वेति। `उपधाया' इत्यप्यवयवषष्ठ\उfffद्न्तम्। तश्च `श्नान्न लोपः' इत्यतो नेत्यनुवृत्ते लुप्तषष्ठीके अन्वेति। क् च ङ् च क्ङौ, तौ इतौ यस्येति विग्रहः। तदाह– हलन्तानामित्यादिना। इति चकारात्पूर्वस्य नकारस्य लोपः। प्र अच् प्राच् इति स्थितम्। तस्मात्सुबुत्पत्तिः। सुटि विशेषमाह–उगिदचामिति नुमिति। सौ विशेषमाह– संयोगान्तस्य लोप इति। `हल्ङ्यादिना सुलोपे सती'ति शेषः। कुत्वेन ङकार इति। नासिकास्थानसाम्यादिति भावः। अनुस्वारपरसवर्णाविति। प्राच् औ इति स्थिते-अचः। अच इत्यन्चुधातोः `अनिदिता'मिति लुप्तनकारस्यानुस्वार। `अनुस्वारस्य यी'ति तस्य परसवर्णो ञकारः। नस्य श्चुत्वं तु न भवति, अनुस्वारं प्रति तस्याऽसिद्धत्वादित्यर्थः।
367 अनिदितिम्। इत् ह्यस्वेकार इत्संज्ञको येषां तानि इदिन्ति, न इदिन्ति अनिदिन्ति, तेषाम्–अनिदितम्। एतच्च अङ्गस्य विशेषणं, हल इत्यपि। तदाह— हलन्तामामनिदितामिति। उपधाया नस्येति। `श्नान्न लोपः'इति सूत्रान्नेति लुप्तषष्ठीकं पदमनुवर्तते, तच्चोपधाग्रहणेन विशेष्यत इथि भावः। अनिदितामिति किम्?। नन्द्यते। हलः किम्?, नीयत। उपधायाः किम्?। हन्यते।
232) अनिदितां हल उपधायाः क्ङिति 6-4-24
वृत्ति: हलन्तानाम् अनिदिताम् अङ्गानाम् उपधाया नस्य लोपः किति ङिति। The penultimate नकारः of bases that end in a consonant and that do not have इकारः as a marker, takes लोपः when followed by an affix that has ककारः or ङकारः as a marker.
उदाहरणम् – प्र अन्च् – this gets the क्विँन्-प्रत्ययः by 3-2-59. क्विँन् takes सर्वापहारलोपः by 1-3-2, 1-3-3, 1-3-8, 6-1-67. Now, since क्विँन् is a कित्-प्रत्ययः, by 6-4-24, the उपधा-नकारः of अन्च् takes लोपः to give प्र अच्।
Example continued below.